Ṛgveda · Maṇḍala 10

Sūkta 71

Bṛhaspati, Vāc · Vāc · Jñānam · Bṛhaspati Āṅgirasa · 11 ṛks

Link
Devatā देवता
1: Bṛhaspati, Vāc; 2-4, 6, 9: Vāc; 5, 7, 8, 10, 11: Jñānam
Ṛṣi ऋषि
Bṛhaspati Āṅgirasa
Chandas छन्दस्
Triṣṭubh, Jagatī
Metres by ṛk

1st set of styles virāṭtrisṭup (5, 6, 8, 10, 11); nicṛttriṣṭup (3, 7); triṣṭup (1); bhuriktriṣṭup (2); pādanicṛttriṣṭup (4); virāḍjagatī (9)

2nd set of styles triṣṭubh (1-8, 10, 11); jagatī (9)

  1. Ṛk 1

    बृह॑स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा॑नाः ।
    यदे॑षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी॑त्प्रे॒णा तदे॑षां॒ निहि॑तं॒ गुहा॒विः ॥

    बृहस्पते प्रथमं वाचो अग्रं यत् प्रैरत नामधेयं दधानाः |
    यद् एषां श्रेष्ठं यद् अरिप्रम् आसीत् प्रेणा तद् एषां निहितं गुहाविः ||

    bṛ́haspate prathamám vācó ágram yátpráirata nāmadhéyam dádhānāḥ ǀ
    yádeṣām śréṣṭham yádariprámā́sītpreṇā́ tádeṣām níhitam gúhāvíḥ ǁ

    bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ |
    yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ ||

    बृह॑स्पते । प्र॒थ॒मम् । वा॒चः । अग्र॑म् । यत् । प्र । ऐर॑त । ना॒म॒ऽधेय॑म् । दधा॑नाः ।
    यत् । ए॒षा॒म् । श्रेष्ठ॑म् । यत् । अ॒रि॒प्रम् । आसी॑त् । प्रे॒णा । तत् । ए॒षा॒म् । निऽहि॑तम् । गुहा॑ । आ॒विः ॥

    बृहस्पते । प्रथमम् । वाचः । अग्रम् । यत् । प्र । ऐरत । नामऽधेयम् । दधानाः ।
    यत् । एषाम् । श्रेष्ठम् । यत् । अरिप्रम् । आसीत् । प्रेणा । तत् । एषाम् । निऽहितम् । गुहा । आविः ॥

    bṛ́haspate ǀ prathamám ǀ vācáḥ ǀ ágram ǀ yát ǀ prá ǀ áirata ǀ nāma-dhéyam ǀ dádhānāḥ ǀ
    yát ǀ eṣām ǀ śréṣṭham ǀ yát ǀ ariprám ǀ ā́sīt ǀ preṇā́ ǀ tát ǀ eṣām ǀ ní-hitam ǀ gúhā ǀ āvíḥ ǁ

    bṛhaspate ǀ prathamam ǀ vācaḥ ǀ agram ǀ yat ǀ pra ǀ airata ǀ nāma-dheyam ǀ dadhānāḥ ǀ
    yat ǀ eṣām ǀ śreṣṭham ǀ yat ǀ aripram ǀ āsīt ǀ preṇā ǀ tat ǀ eṣām ǀ ni-hitam ǀ guhā ǀ āviḥ ǁ

    10.71.1 Aṣṭaka 8.2.23.1Anuvāka 10.6.24

  2. Ṛk 2

    सक्तु॑मिव॒ तित॑उना पु॒नंतो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त ।
    अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥

    सक्तुम् इव तितौना पुनन्तो यत्र धीरा मनसा वाचम् अक्रत |
    अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर् निहिताधि वाचि ||

    sáktumiva títa+unā punánto yátra dhī́rā mánasā vā́camákrata ǀ
    átrā sákhāyaḥ sakhyā́ni jānate bhadráiṣām lakṣmī́rníhitā́dhi vācí ǁ

    saktum iva titaunā punanto yatra dhīrā manasā vācam akrata |
    atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃ lakṣmīr nihitādhi vāci ||

    सक्तु॑म्ऽइव । तित॑ऽउना । पु॒नन्तः॑ । यत्र॑ । धीराः॑ । मन॑सा । वाच॑म् । अक्र॑त ।
    अत्र॑ । सखा॑यः । स॒ख्यानि॑ । जा॒न॒ते॒ । भ॒द्रा । ए॒षा॒म् । ल॒क्ष्मीः । निऽहि॑ता । अधि॑ । वा॒चि ॥

    सक्तुम्ऽइव । तितऽउना । पुनन्तः । यत्र । धीराः । मनसा । वाचम् । अक्रत ।
    अत्र । सखायः । सख्यानि । जानते । भद्रा । एषाम् । लक्ष्मीः । निऽहिता । अधि । वाचि ॥

    sáktum-iva ǀ títa-unā ǀ punántaḥ ǀ yátra ǀ dhī́rāḥ ǀ mánasā ǀ vā́cam ǀ ákrata ǀ
    átra ǀ sákhāyaḥ ǀ sakhyā́ni ǀ jānate ǀ bhadrā́ ǀ eṣām ǀ lakṣmī́ḥ ǀ ní-hitā ǀ ádhi ǀ vācí ǁ

    saktum-iva ǀ tita-unā ǀ punantaḥ ǀ yatra ǀ dhīrāḥ ǀ manasā ǀ vācam ǀ akrata ǀ
    atra ǀ sakhāyaḥ ǀ sakhyāni ǀ jānate ǀ bhadrā ǀ eṣām ǀ lakṣmīḥ ǀ ni-hitā ǀ adhi ǀ vāci ǁ

    10.71.2 Aṣṭaka 8.2.23.2Anuvāka 10.6.25

  3. Ṛk 3

    य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑मायं॒तामन्व॑विंद॒न्नृषि॑षु॒ प्रवि॑ष्टां ।
    तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न॑वंते ॥

    यज्ञेन वाचः पदवीयम् आयन् ताम् अन्व् अविन्दन्न् ऋषिषु प्रविष्टाम् |
    ताम् आभृत्या व्य् अदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते ||

    yajñéna vācáḥ padavī́yamāyantā́mánvavindannṛ́ṣiṣu práviṣṭām ǀ
    tā́mābhṛ́tyā vyádadhuḥ purutrā́ tā́m saptá rebhā́ abhí sám navante ǁ

    yajñena vācaḥ padavīyam āyan tām anv avindann ṛṣiṣu praviṣṭām |
    tām ābhṛtyā vy adadhuḥ purutrā tāṃ sapta rebhā abhi saṃ navante ||

    य॒ज्ञेन॑ । वा॒चः । प॒द॒ऽवीय॑म् । आ॒य॒न् । ताम् । अनु॑ । अ॒वि॒न्द॒न् । ऋषि॑षु । प्रऽवि॑ष्टाम् ।
    ताम् । आ॒ऽभृत्य॑ । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । ताम् । स॒प्त । रे॒भाः । अ॒भि । सम् । न॒व॒न्ते॒ ॥

    यज्ञेन । वाचः । पदऽवीयम् । आयन् । ताम् । अनु । अविन्दन् । ऋषिषु । प्रऽविष्टाम् ।
    ताम् । आऽभृत्य । वि । अदधुः । पुरुऽत्रा । ताम् । सप्त । रेभाः । अभि । सम् । नवन्ते ॥

    yajñéna ǀ vācáḥ ǀ pada-vī́yam ǀ āyan ǀ tā́m ǀ ánu ǀ avindan ǀ ṛ́ṣiṣu ǀ prá-viṣṭām ǀ
    tā́m ǀ ā-bhṛ́tya ǀ ví ǀ adadhuḥ ǀ puru-trā́ ǀ tā́m ǀ saptá ǀ rebhā́ḥ ǀ abhí ǀ sám ǀ navante ǁ

    yajñena ǀ vācaḥ ǀ pada-vīyam ǀ āyan ǀ tām ǀ anu ǀ avindan ǀ ṛṣiṣu ǀ pra-viṣṭām ǀ
    tām ǀ ā-bhṛtya ǀ vi ǀ adadhuḥ ǀ puru-trā ǀ tām ǀ sapta ǀ rebhāḥ ǀ abhi ǀ sam ǀ navante ǁ

    10.71.3 Aṣṭaka 8.2.23.3Anuvāka 10.6.26

  4. Ṛk 4

    उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनां ।
    उ॒तो त्व॑स्मै त॒न्वं१॒॑ वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ॥

    उत त्वः पश्यन् न ददर्श वाचम् उत त्वः शृण्वन् न शृणोत्य् एनाम् |
    उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ||

    utá tvaḥ páśyanná dadarśa vā́camutá tvaḥ śṛṇvánná śṛṇotyenām ǀ
    utó tvasmai tanvám ví sasre jāyéva pátya uśatī́ suvā́sāḥ ǁ

    uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām |
    uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ ||

    उ॒त । त्वः॒ । पश्य॑न् । न । द॒द॒र्श॒ । वाच॑म् । उ॒त । त्वः॒ । शृ॒ण्वन् । न । शृ॒णो॒ति॒ । ए॒ना॒म् ।
    उ॒तो इति॑ । त्व॒स्मै॒ । त॒न्व॑म् । वि । स॒स्रे॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ॥

    उत । त्वः । पश्यन् । न । ददर्श । वाचम् । उत । त्वः । शृण्वन् । न । शृणोति । एनाम् ।
    उतो इति । त्वस्मै । तन्वम् । वि । सस्रे । जायाऽइव । पत्ये । उशती । सुऽवासाः ॥

    utá ǀ tvaḥ ǀ páśyan ǀ ná ǀ dadarśa ǀ vā́cam ǀ utá ǀ tvaḥ ǀ śṛṇván ǀ ná ǀ śṛṇoti ǀ enām ǀ
    utó íti ǀ tvasmai ǀ tanvám ǀ ví ǀ sasre ǀ jāyā́-iva ǀ pátye ǀ uśatī́ ǀ su-vā́sāḥ ǁ

    uta ǀ tvaḥ ǀ paśyan ǀ na ǀ dadarśa ǀ vācam ǀ uta ǀ tvaḥ ǀ śṛṇvan ǀ na ǀ śṛṇoti ǀ enām ǀ
    uto iti ǀ tvasmai ǀ tanvam ǀ vi ǀ sasre ǀ jāyā-iva ǀ patye ǀ uśatī ǀ su-vāsāḥ ǁ

    10.71.4 Aṣṭaka 8.2.23.4Anuvāka 10.6.27

  5. Ṛk 5

    उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहु॒र्नैनं॑ हिन्वं॒त्यपि॒ वाजि॑नेषु ।
    अधे॑न्वा चरति मा॒ययै॒ष वाचं॑ शुश्रु॒वाँ अ॑फ॒लाम॑पु॒ष्पां ॥

    उत त्वं सख्ये स्थिरपीतम् आहुर् नैनं हिन्वन्त्य् अपि वाजिनेषु |
    अधेन्वा चरति माययैष वाचं शुश्रुवां अफलाम् अपुष्पाम् ||

    utá tvam sakhyé sthirápītamāhurnáinam hinvantyápi vā́jineṣu ǀ
    ádhenvā carati māyáyaiṣá vā́cam śuśruvā́m̐ aphalā́mapuṣpā́m ǁ

    uta tvaṃ sakhye sthirapītam āhur nainaṃ hinvanty api vājineṣu |
    adhenvā carati māyayaiṣa vācaṃ śuśruvāṃ aphalām apuṣpām ||

    उ॒त । त्व॒म् । स॒ख्ये । स्थि॒रऽपी॑तम् । आ॒हुः॒ । न । ए॒न॒म् । हि॒न्व॒न्ति॒ । अपि॑ । वाजि॑नेषु ।
    अधे॑न्वा । च॒र॒ति॒ । मा॒यया॑ । ए॒षः । वाच॑म् । शु॒श्रु॒ऽवान् । अ॒फ॒लाम् । अ॒पु॒ष्पाम् ॥

    उत । त्वम् । सख्ये । स्थिरऽपीतम् । आहुः । न । एनम् । हिन्वन्ति । अपि । वाजिनेषु ।
    अधेन्वा । चरति । मायया । एषः । वाचम् । शुश्रुऽवान् । अफलाम् । अपुष्पाम् ॥

    utá ǀ tvam ǀ sakhyé ǀ sthirá-pītam ǀ āhuḥ ǀ ná ǀ enam ǀ hinvanti ǀ ápi ǀ vā́jineṣu ǀ
    ádhenvā ǀ carati ǀ māyáyā ǀ eṣáḥ ǀ vā́cam ǀ śuśru-vā́n ǀ aphalā́m ǀ apuṣpā́m ǁ

    uta ǀ tvam ǀ sakhye ǀ sthira-pītam ǀ āhuḥ ǀ na ǀ enam ǀ hinvanti ǀ api ǀ vājineṣu ǀ
    adhenvā ǀ carati ǀ māyayā ǀ eṣaḥ ǀ vācam ǀ śuśru-vān ǀ aphalām ǀ apuṣpām ǁ

    10.71.5 Aṣṭaka 8.2.23.5Anuvāka 10.6.28

  6. Ṛk 6

    यस्ति॒त्याज॑ सचि॒विदं॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।
    यदीं॑ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पंथां॑ ॥

    यस् तित्याज सचिविदं सखायं न तस्य वाच्य् अपि भागो अस्ति |
    यद् ईं शृणोत्य् अलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ||

    yástityā́ja sacivídam sákhāyam ná tásya vācyápi bhāgó asti ǀ
    yádīm śṛṇótyálakam śṛṇoti nahí pravéda sukṛtásya pánthām ǁ

    yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti |
    yad īṃ śṛṇoty alakaṃ śṛṇoti nahi praveda sukṛtasya panthām ||

    यः । ति॒त्याज॑ । स॒चि॒ऽविद॑म् । सखा॑यम् । न । तस्य॑ । वा॒चि । अपि॑ । भा॒गः । अ॒स्ति॒ ।
    यत् । ई॒म् । शृ॒णोति॑ । अल॑कम् । शृ॒णो॒ति॒ । न॒हि । प्र॒ऽवेद॑ । सु॒ऽकृ॒तस्य॑ । पन्था॑म् ॥

    यः । तित्याज । सचिऽविदम् । सखायम् । न । तस्य । वाचि । अपि । भागः । अस्ति ।
    यत् । ईम् । शृणोति । अलकम् । शृणोति । नहि । प्रऽवेद । सुऽकृतस्य । पन्थाम् ॥

    yáḥ ǀ tityā́ja ǀ saci-vídam ǀ sákhāyam ǀ ná ǀ tásya ǀ vācí ǀ ápi ǀ bhāgáḥ ǀ asti ǀ
    yát ǀ īm ǀ śṛṇóti ǀ álakam ǀ śṛṇoti ǀ nahí ǀ pra-véda ǀ su-kṛtásya ǀ pánthām ǁ

    yaḥ ǀ tityāja ǀ saci-vidam ǀ sakhāyam ǀ na ǀ tasya ǀ vāci ǀ api ǀ bhāgaḥ ǀ asti ǀ
    yat ǀ īm ǀ śṛṇoti ǀ alakam ǀ śṛṇoti ǀ nahi ǀ pra-veda ǀ su-kṛtasya ǀ panthām ǁ

    10.71.6 Aṣṭaka 8.2.24.1Anuvāka 10.6.29

  7. Ṛk 7

    अ॒क्ष॒ण्वंतः॒ कर्ण॑वंतः॒ सखा॑यो मनोज॒वेष्वस॑मा बभूवुः ।
    आ॒द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा इ॑व॒ स्नात्वा॑ उ त्वे ददृश्रे ॥

    अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्व् असमा बभूवुः |
    आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ||

    akṣaṇvántaḥ kárṇavantaḥ sákhāyo manojavéṣvásamā babhūvuḥ ǀ
    ādaghnā́sa upakakṣā́sa u tve hradā́ iva snā́tvā u tve dadṛśre ǁ

    akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣv asamā babhūvuḥ |
    ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre ||

    अ॒क्ष॒ण्ऽवन्तः॑ । कर्ण॑ऽवन्तः । सखा॑यः । म॒नः॒ऽज॒वेषु॑ । अस॑माः । ब॒भू॒वुः॒ ।
    आ॒द॒घ्नासः॑ । उ॒प॒ऽक॒क्षासः॑ । ऊं॒ इति॑ । त्वे॒ । ह्र॒दाःऽइ॑व । स्नात्वाः॑ । ऊं॒ इति॑ । त्वे॒ । द॒दृ॒श्रे॒ ॥

    अक्षण्ऽवन्तः । कर्णऽवन्तः । सखायः । मनःऽजवेषु । असमाः । बभूवुः ।
    आदघ्नासः । उपऽकक्षासः । ऊं इति । त्वे । ह्रदाःऽइव । स्नात्वाः । ऊं इति । त्वे । ददृश्रे ॥

    akṣaṇ-vántaḥ ǀ kárṇa-vantaḥ ǀ sákhāyaḥ ǀ manaḥ-javéṣu ǀ ásamāḥ ǀ babhūvuḥ ǀ
    ādaghnā́saḥ ǀ upa-kakṣā́saḥ ǀ ūṃ íti ǀ tve ǀ hradā́ḥ-iva ǀ snā́tvāḥ ǀ ūṃ íti ǀ tve ǀ dadṛśre ǁ

    akṣaṇ-vantaḥ ǀ karṇa-vantaḥ ǀ sakhāyaḥ ǀ manaḥ-javeṣu ǀ asamāḥ ǀ babhūvuḥ ǀ
    ādaghnāsaḥ ǀ upa-kakṣāsaḥ ǀ ūṃ iti ǀ tve ǀ hradāḥ-iva ǀ snātvāḥ ǀ ūṃ iti ǀ tve ǀ dadṛśre ǁ

    10.71.7 Aṣṭaka 8.2.24.2Anuvāka 10.6.30

  8. Ṛk 8

    हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा॑ह्म॒णाः सं॒यजं॑ते॒ सखा॑यः ।
    अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रंत्यु त्वे ॥

    हृदा तष्टेषु मनसो जवेषु यद् ब्राह्मणाः संयजन्ते सखायः |
    अत्राह त्वं वि जहुर् वेद्याभिर् ओहब्रह्माणो वि चरन्त्य् उ त्वे ||

    hṛdā́ taṣṭéṣu mánaso javéṣu yádbrāhmaṇā́ḥ saṃyájante sákhāyaḥ ǀ
    átrā́ha tvam ví jahurvedyā́bhiróhabrahmāṇo ví carantyu tve ǁ

    hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajante sakhāyaḥ |
    atrāha tvaṃ vi jahur vedyābhir ohabrahmāṇo vi caranty u tve ||

    हृ॒दा । त॒ष्टेषु॑ । मन॑सः । ज॒वेषु॑ । यत् । ब्रा॒ह्म॒णाः । स॒म्ऽयज॑न्ते । सखा॑यः ।
    अत्र॑ । अह॑ । त्व॒म् । वि । ज॒हुः॒ । वे॒द्याभिः॑ । ओह॑ऽब्रह्माणः । वि । च॒र॒न्ति॒ । ऊं॒ इति॑ । त्वे॒ ॥

    हृदा । तष्टेषु । मनसः । जवेषु । यत् । ब्राह्मणाः । सम्ऽयजन्ते । सखायः ।
    अत्र । अह । त्वम् । वि । जहुः । वेद्याभिः । ओहऽब्रह्माणः । वि । चरन्ति । ऊं इति । त्वे ॥

    hṛdā́ ǀ taṣṭéṣu ǀ mánasaḥ ǀ javéṣu ǀ yát ǀ brāhmaṇā́ḥ ǀ sam-yájante ǀ sákhāyaḥ ǀ
    átra ǀ áha ǀ tvam ǀ ví ǀ jahuḥ ǀ vedyā́bhiḥ ǀ óha-brahmāṇaḥ ǀ ví ǀ caranti ǀ ūṃ íti ǀ tve ǁ

    hṛdā ǀ taṣṭeṣu ǀ manasaḥ ǀ javeṣu ǀ yat ǀ brāhmaṇāḥ ǀ sam-yajante ǀ sakhāyaḥ ǀ
    atra ǀ aha ǀ tvam ǀ vi ǀ jahuḥ ǀ vedyābhiḥ ǀ oha-brahmāṇaḥ ǀ vi ǀ caranti ǀ ūṃ iti ǀ tve ǁ

    10.71.8 Aṣṭaka 8.2.24.3Anuvāka 10.6.31

  9. Ṛk 9

    इ॒मे ये नार्वाङ्न प॒रश्चरं॑ति॒ न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः ।
    त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया॑ सि॒रीस्तंत्रं॑ तन्वते॒ अप्र॑जज्ञयः ॥

    इमे ये नार्वाङ् न परश् चरन्ति न ब्राह्मणासो न सुतेकरासः |
    त एते वाचम् अभिपद्य पापया सिरीस् तन्त्रं तन्वते अप्रजज्ञयः ||

    imé yé nā́rvā́ṅná paráścáranti ná brāhmaṇā́so ná sutékarāsaḥ ǀ
    tá eté vā́camabhipádya pāpáyā sirī́stántram tanvate áprajajñayaḥ ǁ

    ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ |
    ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñayaḥ ||

    इ॒मे । ये । न । अ॒र्वाक् । न । प॒रः । चर॑न्ति । न । ब्रा॒ह्म॒णासः॑ । न । सु॒तेऽक॑रासः ।
    ते । ए॒ते । वाच॑म् । अ॒भि॒ऽपद्य॑ । पा॒पया॑ । सि॒रीः । तन्त्र॑म् । त॒न्व॒ते॒ । अप्र॑ऽजज्ञयः ॥

    इमे । ये । न । अर्वाक् । न । परः । चरन्ति । न । ब्राह्मणासः । न । सुतेऽकरासः ।
    ते । एते । वाचम् । अभिऽपद्य । पापया । सिरीः । तन्त्रम् । तन्वते । अप्रऽजज्ञयः ॥

    imé ǀ yé ǀ ná ǀ arvā́k ǀ ná ǀ paráḥ ǀ cáranti ǀ ná ǀ brāhmaṇā́saḥ ǀ ná ǀ suté-karāsaḥ ǀ
    té ǀ eté ǀ vā́cam ǀ abhi-pádya ǀ pāpáyā ǀ sirī́ḥ ǀ tántram ǀ tanvate ǀ ápra-jajñayaḥ ǁ

    ime ǀ ye ǀ na ǀ arvāk ǀ na ǀ paraḥ ǀ caranti ǀ na ǀ brāhmaṇāsaḥ ǀ na ǀ sute-karāsaḥ ǀ
    te ǀ ete ǀ vācam ǀ abhi-padya ǀ pāpayā ǀ sirīḥ ǀ tantram ǀ tanvate ǀ apra-jajñayaḥ ǁ

    10.71.9 Aṣṭaka 8.2.24.4Anuvāka 10.6.32

  10. Ṛk 10

    सर्वे॑ नंदंति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा॑यः ।
    कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षा॒मरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ॥

    सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः |
    किल्बिषस्पृत् पितुषणिर् ह्य् एषाम् अरं हितो भवति वाजिनाय ||

    sárve nandanti yaśásā́gatena sabhāsāhéna sákhyā sákhāyaḥ ǀ
    kilbiṣaspṛ́tpituṣáṇirhyéṣāmáram hitó bhávati vā́jināya ǁ

    sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ |
    kilbiṣaspṛt pituṣaṇir hy eṣām araṃ hito bhavati vājināya ||

    सर्वे॑ । न॒न्द॒न्ति॒ । य॒शसा॑ । आऽग॑तेन । स॒भा॒ऽसा॒हेन॑ । सख्या॑ । सखा॑यः ।
    कि॒ल्बि॒ष॒ऽस्पृत् । पि॒तु॒ऽसनिः॑ । हि । ए॒षा॒म् । अर॑म् । हि॒तः । भव॑ति । वाजि॑नाय ॥

    सर्वे । नन्दन्ति । यशसा । आऽगतेन । सभाऽसाहेन । सख्या । सखायः ।
    किल्बिषऽस्पृत् । पितुऽसनिः । हि । एषाम् । अरम् । हितः । भवति । वाजिनाय ॥

    sárve ǀ nandanti ǀ yaśásā ǀ ā́-gatena ǀ sabhā-sāhéna ǀ sákhyā ǀ sákhāyaḥ ǀ
    kilbiṣa-spṛ́t ǀ pitu-sániḥ ǀ hí ǀ eṣām ǀ áram ǀ hitáḥ ǀ bhávati ǀ vā́jināya ǁ

    sarve ǀ nandanti ǀ yaśasā ǀ ā-gatena ǀ sabhā-sāhena ǀ sakhyā ǀ sakhāyaḥ ǀ
    kilbiṣa-spṛt ǀ pitu-saniḥ ǀ hi ǀ eṣām ǀ aram ǀ hitaḥ ǀ bhavati ǀ vājināya ǁ

    10.71.10 Aṣṭaka 8.2.24.5Anuvāka 10.6.33

  11. Ṛk 11

    ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान्गा॑य॒त्रं त्वो॑ गायति॒ शक्व॑रीषु ।
    ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ॥

    ऋचां त्वः पोषम् आस्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु |
    ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ||

    ṛcā́m tvaḥ póṣamāste pupuṣvā́ngāyatrám tvo gāyati śákvarīṣu ǀ
    brahmā́ tvo vádati jātavidyā́m yajñásya mā́trām ví mimīta u tvaḥ ǁ

    ṛcāṃ tvaḥ poṣam āste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu |
    brahmā tvo vadati jātavidyāṃ yajñasya mātrāṃ vi mimīta u tvaḥ ||

    ऋ॒चाम् । त्वः॒ । पोष॑म् । आ॒स्ते॒ । पु॒पु॒ष्वान् । गा॒य॒त्रम् । त्वः॒ । गा॒य॒ति॒ । शक्व॑रीषु ।
    ब्र॒ह्मा । त्वः॒ । वद॑ति । जा॒त॒ऽवि॒द्याम् । य॒ज्ञस्य॑ । मात्रा॑म् । वि । मि॒मी॒ते॒ । ऊं॒ इति॑ । त्वः॒ ॥

    ऋचाम् । त्वः । पोषम् । आस्ते । पुपुष्वान् । गायत्रम् । त्वः । गायति । शक्वरीषु ।
    ब्रह्मा । त्वः । वदति । जातऽविद्याम् । यज्ञस्य । मात्राम् । वि । मिमीते । ऊं इति । त्वः ॥

    ṛcā́m ǀ tvaḥ ǀ póṣam ǀ āste ǀ pupuṣvā́n ǀ gāyatrám ǀ tvaḥ ǀ gāyati ǀ śákvarīṣu ǀ
    brahmā́ ǀ tvaḥ ǀ vádati ǀ jāta-vidyā́m ǀ yajñásya ǀ mā́trām ǀ ví ǀ mimīte ǀ ūṃ íti ǀ tvaḥ ǁ

    ṛcām ǀ tvaḥ ǀ poṣam ǀ āste ǀ pupuṣvān ǀ gāyatram ǀ tvaḥ ǀ gāyati ǀ śakvarīṣu ǀ
    brahmā ǀ tvaḥ ǀ vadati ǀ jāta-vidyām ǀ yajñasya ǀ mātrām ǀ vi ǀ mimīte ǀ ūṃ iti ǀ tvaḥ ǁ

    10.71.11 Aṣṭaka 8.2.24.6Anuvāka 10.6.34

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.71 · Bṛhaspati, Vāc · Vāc · Jñānam

Interpretations

Ralph T. H. Griffith

Ṛk 1

WHEN-men, Bṛhaspati, giving names to objects, sent out Vāk's first and earliest utterances, All that was excellent and spotless, treasured within them, was disclosed through their affection.

Ṛk 2

Where, like men cleansing corn-flour in a cribble, the wise in spirit have created language, Friends see and recognize the marks of friendship: their speech retains the blessed sign imprinted.

Ṛk 3

With sacrifice the trace of Vāk they foIlowed, and found her harbouring within the Ṛṣis. They brought her, dealt her forth in many places: seven singers make her tones resound in concert.

Ṛk 4

One man hath ne’er seen Vāk, and yet he seeth: one man hath hearing but hath never heard her. But to another hath she shown her beauty as a fond well-dressed woman to her husband.

Ṛk 5

One man they call a laggard, dull in friendship: they never urge him on to deeds of valour. He wanders on in profitless illusion: the Voice he heard yields neither fruit,nor blossom.

Ṛk 6

No part in Vāk hath he who hath abandoned his own dear friend who knows the truth of friendship. Even if he hears her still in vain he listens: naught knows he of the path of righteous action.

Ṛk 7

Unequal in the quickness of their spirit are friends endowed alike with eyes and hearing. Some look like tanks that reach the mouth or shoulder, others like pools of water fit to bathe in.

Ṛk 8

When friendly Brahmans sacrifice together with mental impulse which the heart hath fashioned, They leave one far behind through their attainments, and some who count as Brahmans wander elsewhere.

Ṛk 9

Those men who step not back and move not forward, nor Brahmans nor preparers of libations, Having attained to Vāk in sinful fashion spin out their thread in ignorance like spinsters.

Ṛk 10

All friends are joyful in the friend who cometh in triumph, having conquered in assembly. He is their blame-averter, food-provider prepared is he and fit for deed of vigour.