Sūkta 83
- Devatā देवता
- Manyu
- Ṛṣi ऋषि
- Manyu Tāpasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles virāṭtrisṭup (3, 6); nicṛttriṣṭup (5, 7); virāḍjagatī (1); triṣṭup (2); pādanicṛttriṣṭup (4)
2nd set of styles triṣṭubh (2-7); jagatī (1)
-
Ṛk 1
यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।
सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥यस् ते मन्यो ऽविधद् वज्र सायक सह ओजः पुष्यति विश्वम् आनुषक् |
साह्याम दासम् आर्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ||yáste manyó’vidhadvajra sāyaka sáha ójaḥ puṣyati víśvamānuṣák ǀ
sāhyā́ma dā́samā́ryam tváyā yujā́ sáhaskṛtena sáhasā sáhasvatā ǁyas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak |
sāhyāma dāsam āryaṃ tvayā yujā sahaskṛtena sahasā sahasvatā ||यः । ते॒ । म॒न्यो॒ इति॑ । अवि॑धत् । व॒ज्र॒ । सा॒य॒क॒ । सहः॑ । ओजः॑ । पु॒ष्य॒ति॒ । विश्व॑म् । आ॒नु॒षक् ।
स॒ह्याम॑ । दास॑म् । आर्य॑म् । त्वया॑ । यु॒जा । सहः॑ऽकृतेन । सह॑सा । सह॑स्वता ॥यः । ते । मन्यो इति । अविधत् । वज्र । सायक । सहः । ओजः । पुष्यति । विश्वम् । आनुषक् ।
सह्याम । दासम् । आर्यम् । त्वया । युजा । सहःऽकृतेन । सहसा । सहस्वता ॥yáḥ ǀ te ǀ manyo íti ǀ ávidhat ǀ vajra ǀ sāyaka ǀ sáhaḥ ǀ ójaḥ ǀ puṣyati ǀ víśvam ǀ ānuṣák ǀ
sahyā́ma ǀ dā́sam ǀ ā́ryam ǀ tváyā ǀ yujā́ ǀ sáhaḥ-kṛtena ǀ sáhasā ǀ sáhasvatā ǁyaḥ ǀ te ǀ manyo iti ǀ avidhat ǀ vajra ǀ sāyaka ǀ sahaḥ ǀ ojaḥ ǀ puṣyati ǀ viśvam ǀ ānuṣak ǀ
sahyāma ǀ dāsam ǀ āryam ǀ tvayā ǀ yujā ǀ sahaḥ-kṛtena ǀ sahasā ǀ sahasvatā ǁ10.83.1 Aṣṭaka 8.3.18.1Anuvāka 10.6.122
-
Ṛk 2
म॒न्युरिंद्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः ।
म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषाः॑ ॥मन्युर् इन्द्रो मन्युर् एवास देवो मन्युर् होता वरुणो जातवेदाः |
मन्युं विश ईऌअते मानुषीर् याः पाहि नो मन्यो तपसा सजोषाः ||manyúríndro manyúrevā́sa devó manyúrhótā váruṇo jātávedāḥ ǀ
manyúm víśa īḷate mā́nuṣīryā́ḥ pāhí no manyo tápasā sajóṣāḥ ǁmanyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ |
manyuṃ viśa īḷate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ ||म॒न्युः । इन्द्रः॑ । म॒न्युः । ए॒व । आ॒स॒ । दे॒वः । म॒न्युः । होता॑ । वरु॑णः । जा॒तऽवे॑दाः ।
म॒न्युम् । विशः॑ । ई॒ळ॒ते॒ । मानु॑षीः । याः । पा॒हि । नः॒ । म॒न्यो॒ इति॑ । तप॑सा । स॒ऽजोषाः॑ ॥मन्युः । इन्द्रः । मन्युः । एव । आस । देवः । मन्युः । होता । वरुणः । जातऽवेदाः ।
मन्युम् । विशः । ईळते । मानुषीः । याः । पाहि । नः । मन्यो इति । तपसा । सऽजोषाः ॥manyúḥ ǀ índraḥ ǀ manyúḥ ǀ evá ǀ āsa ǀ deváḥ ǀ manyúḥ ǀ hótā ǀ váruṇaḥ ǀ jātá-vedāḥ ǀ
manyúm ǀ víśaḥ ǀ īḷate ǀ mā́nuṣīḥ ǀ yā́ḥ ǀ pāhí ǀ naḥ ǀ manyo íti ǀ tápasā ǀ sa-jóṣāḥ ǁmanyuḥ ǀ indraḥ ǀ manyuḥ ǀ eva ǀ āsa ǀ devaḥ ǀ manyuḥ ǀ hotā ǀ varuṇaḥ ǀ jāta-vedāḥ ǀ
manyum ǀ viśaḥ ǀ īḷate ǀ mānuṣīḥ ǀ yāḥ ǀ pāhi ǀ naḥ ǀ manyo iti ǀ tapasā ǀ sa-joṣāḥ ǁ10.83.2 Aṣṭaka 8.3.18.2Anuvāka 10.6.123
-
Ṛk 3
अ॒भी॑हि मन्यो त॒वस॒स्तवी॑यां॒तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥अभीहि मन्यो तवसस् तवीयान् तपसा युजा वि जहि शत्रून् |
अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्य् आ भरा त्वं नः ||abhī́hi manyo tavásastávīyāntápasā yujā́ ví jahi śátrūn ǀ
amitrahā́ vṛtrahā́ dasyuhā́ ca víśvā vásūnyā́ bharā tvám naḥ ǁabhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn |
amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ ||अ॒भि । इ॒हि॒ । म॒न्यो॒ इति॑ । त॒वसः॑ । तवी॑यान् । तप॑सा । यु॒जा । वि । ज॒हि॒ । शत्रू॑न् ।
अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒ऽहा । च॒ । विश्वा॑ । वसू॑नि । आ । भ॒र॒ । त्वम् । नः॒ ॥अभि । इहि । मन्यो इति । तवसः । तवीयान् । तपसा । युजा । वि । जहि । शत्रून् ।
अमित्रऽहा । वृत्रऽहा । दस्युऽहा । च । विश्वा । वसूनि । आ । भर । त्वम् । नः ॥abhí ǀ ihi ǀ manyo íti ǀ tavásaḥ ǀ távīyān ǀ tápasā ǀ yujā́ ǀ ví ǀ jahi ǀ śátrūn ǀ
amitra-hā́ ǀ vṛtra-hā́ ǀ dasyu-hā́ ǀ ca ǀ víśvā ǀ vásūni ǀ ā́ ǀ bhara ǀ tvám ǀ naḥ ǁabhi ǀ ihi ǀ manyo iti ǀ tavasaḥ ǀ tavīyān ǀ tapasā ǀ yujā ǀ vi ǀ jahi ǀ śatrūn ǀ
amitra-hā ǀ vṛtra-hā ǀ dasyu-hā ǀ ca ǀ viśvā ǀ vasūni ǀ ā ǀ bhara ǀ tvam ǀ naḥ ǁ10.83.3 Aṣṭaka 8.3.18.3Anuvāka 10.6.124
-
Ṛk 4
त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वयं॒भूर्भामो॑ अभिमातिषा॒हः ।
वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा॑वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर् भामो अभिमातिषाहः |
विश्वचर्षणिः सहुरिः सहावान् अस्मास्व् ओजः पृतनासु धेहि ||tvám hí manyo abhíbhūtyojāḥ svayambhū́rbhā́mo abhimātiṣāháḥ ǀ
viśvácarṣaṇiḥ sáhuriḥ sáhāvānasmā́svójaḥ pṛ́tanāsu dhehi ǁtvaṃ hi manyo abhibhūtyojāḥ svayambhūr bhāmo abhimātiṣāhaḥ |
viśvacarṣaṇiḥ sahuriḥ sahāvān asmāsv ojaḥ pṛtanāsu dhehi ||त्वम् । हि । म॒न्यो॒ इति॑ । अ॒भिभू॑तिऽओजाः । स्व॒य॒म्ऽभूः । भामः॑ । अ॒भि॒मा॒ति॒ऽस॒हः ।
वि॒श्वऽच॑र्षणिः । सहु॑रिः । सहा॑वान् । अ॒स्मासु॑ । ओजः॑ । पृत॑नासु । धे॒हि॒ ॥त्वम् । हि । मन्यो इति । अभिभूतिऽओजाः । स्वयम्ऽभूः । भामः । अभिमातिऽसहः ।
विश्वऽचर्षणिः । सहुरिः । सहावान् । अस्मासु । ओजः । पृतनासु । धेहि ॥tvám ǀ hí ǀ manyo íti ǀ abhíbhūti-ojāḥ ǀ svayam-bhū́ḥ ǀ bhā́maḥ ǀ abhimāti-saháḥ ǀ
viśvá-carṣaṇiḥ ǀ sáhuriḥ ǀ sáhāvān ǀ asmā́su ǀ ójaḥ ǀ pṛ́tanāsu ǀ dhehi ǁtvam ǀ hi ǀ manyo iti ǀ abhibhūti-ojāḥ ǀ svayam-bhūḥ ǀ bhāmaḥ ǀ abhimāti-sahaḥ ǀ
viśva-carṣaṇiḥ ǀ sahuriḥ ǀ sahāvān ǀ asmāsu ǀ ojaḥ ǀ pṛtanāsu ǀ dhehi ǁ10.83.4 Aṣṭaka 8.3.18.4Anuvāka 10.6.125
-
Ṛk 5
अ॒भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः ।
तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ॥अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः |
तं त्वा मन्यो अक्रतुर् जिहीऌआहं स्वा तनूर् बलदेयाय मेहि ||abhāgáḥ sánnápa páreto asmi táva krátvā taviṣásya pracetaḥ ǀ
tám tvā manyo akratúrjihīḷāhám svā́ tanū́rbaladéyāya méhi ǁabhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ |
taṃ tvā manyo akratur jihīḷāhaṃ svā tanūr baladeyāya mehi ||अ॒भा॒गः । सन् । अप॑ । परा॑ऽइतः । अ॒स्मि॒ । तव॑ । क्रत्वा॑ । त॒वि॒षस्य॑ । प्र॒चे॒त॒ इति॑ प्रऽचेतः ।
तम् । त्वा॒ । म॒न्यो॒ इति॑ । अ॒क्र॒तुः । जि॒ही॒ळ॒ । अ॒हम् । स्वा । त॒नूः । ब॒ल॒ऽदेया॑य । मा॒ । आ । इ॒हि॒ ॥अभागः । सन् । अप । पराऽइतः । अस्मि । तव । क्रत्वा । तविषस्य । प्रचेत इति प्रऽचेतः ।
तम् । त्वा । मन्यो इति । अक्रतुः । जिहीळ । अहम् । स्वा । तनूः । बलऽदेयाय । मा । आ । इहि ॥abhāgáḥ ǀ sán ǀ ápa ǀ párā-itaḥ ǀ asmi ǀ táva ǀ krátvā ǀ taviṣásya ǀ praceta íti pra-cetaḥ ǀ
tám ǀ tvā ǀ manyo íti ǀ akratúḥ ǀ jihīḷa ǀ ahám ǀ svā́ ǀ tanū́ḥ ǀ bala-déyāya ǀ mā ǀ ā́ ǀ ihi ǁabhāgaḥ ǀ san ǀ apa ǀ parā-itaḥ ǀ asmi ǀ tava ǀ kratvā ǀ taviṣasya ǀ praceta iti pra-cetaḥ ǀ
tam ǀ tvā ǀ manyo iti ǀ akratuḥ ǀ jihīḷa ǀ aham ǀ svā ǀ tanūḥ ǀ bala-deyāya ǀ mā ǀ ā ǀ ihi ǁ10.83.5 Aṣṭaka 8.3.18.5Anuvāka 10.6.126
-
Ṛk 6
अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः ।
मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यूँ॑रु॒त बो॑ध्या॒पेः ॥अयं ते अस्म्य् उप मेह्य् अर्वाङ् प्रतीचीनः सहुरे विश्वधायः |
मन्यो वज्रिन्न् अभि माम् आ ववृत्स्व हनाव दस्यूंर् उत बोध्य् आपेः ||ayám te asmyúpa méhyarvā́ṅpratīcīnáḥ sahure viśvadhāyaḥ ǀ
mányo vajrinnabhí mā́mā́ vavṛtsva hánāva dásyūm̐rutá bodhyāpéḥ ǁayaṃ te asmy upa mehy arvāṅ pratīcīnaḥ sahure viśvadhāyaḥ |
manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ ||अ॒यम् । ते॒ । अ॒स्मि॒ । उप॑ । मा॒ । आ । इ॒हि॒ । अ॒र्वाङ् । प्र॒ती॒ची॒नः । स॒हु॒रे॒ । वि॒श्व॒ऽधा॒यः॒ ।
मन्यो॒ इति॑ । व॒ज्रि॒न् । अ॒भि । माम् । आ । व॒वृ॒त्स्व॒ । हना॑व । दस्यू॑न् । उ॒त । बो॒धि॒ । आ॒पेः ॥अयम् । ते । अस्मि । उप । मा । आ । इहि । अर्वाङ् । प्रतीचीनः । सहुरे । विश्वऽधायः ।
मन्यो इति । वज्रिन् । अभि । माम् । आ । ववृत्स्व । हनाव । दस्यून् । उत । बोधि । आपेः ॥ayám ǀ te ǀ asmi ǀ úpa ǀ mā ǀ ā́ ǀ ihi ǀ arvā́ṅ ǀ pratīcīnáḥ ǀ sahure ǀ viśva-dhāyaḥ ǀ
mányo íti ǀ vajrin ǀ abhí ǀ mā́m ǀ ā́ ǀ vavṛtsva ǀ hánāva ǀ dásyūn ǀ utá ǀ bodhi ǀ āpéḥ ǁayam ǀ te ǀ asmi ǀ upa ǀ mā ǀ ā ǀ ihi ǀ arvāṅ ǀ pratīcīnaḥ ǀ sahure ǀ viśva-dhāyaḥ ǀ
manyo iti ǀ vajrin ǀ abhi ǀ mām ǀ ā ǀ vavṛtsva ǀ hanāva ǀ dasyūn ǀ uta ǀ bodhi ǀ āpeḥ ǁ10.83.6 Aṣṭaka 8.3.18.6Anuvāka 10.6.127
-
Ṛk 7
अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा॑ वृ॒त्राणि॑ जंघनाव॒ भूरि॑ ।
जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥अभि प्रेहि दक्षिणतो भवा मे ऽधा वृत्राणि जङ्घनाव भूरि |
जुहोमि ते धरुणम् मध्वो अग्रम् उभा उपांशु प्रथमा पिबाव ||abhí préhi dakṣiṇató bhavā mé’dhā vṛtrā́ṇi jaṅghanāva bhū́ri ǀ
juhómi te dharúṇam mádhvo ágramubhā́ upāṃśú prathamā́ pibāva ǁabhi prehi dakṣiṇato bhavā me 'dhā vṛtrāṇi jaṅghanāva bhūri |
juhomi te dharuṇam madhvo agram ubhā upāṃśu prathamā pibāva ||अ॒भि । प्र । इ॒हि॒ । द॒क्षि॒ण॒तः । भ॒व॒ । मे॒ । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ ।
जु॒होमि॑ । ते॒ । ध॒रुण॑म् । मध्वः॑ । अग्र॑म् । उ॒भौ । उ॒प॒ऽअं॒शु । प्र॒थ॒मा । पि॒बा॒व॒ ॥अभि । प्र । इहि । दक्षिणतः । भव । मे । अध । वृत्राणि । जङ्घनाव । भूरि ।
जुहोमि । ते । धरुणम् । मध्वः । अग्रम् । उभौ । उपऽअंशु । प्रथमा । पिबाव ॥abhí ǀ prá ǀ ihi ǀ dakṣiṇatáḥ ǀ bhava ǀ me ǀ ádha ǀ vṛtrā́ṇi ǀ jaṅghanāva ǀ bhū́ri ǀ
juhómi ǀ te ǀ dharúṇam ǀ mádhvaḥ ǀ ágram ǀ ubháu ǀ upa-aṃśú ǀ prathamā́ ǀ pibāva ǁabhi ǀ pra ǀ ihi ǀ dakṣiṇataḥ ǀ bhava ǀ me ǀ adha ǀ vṛtrāṇi ǀ jaṅghanāva ǀ bhūri ǀ
juhomi ǀ te ǀ dharuṇam ǀ madhvaḥ ǀ agram ǀ ubhau ǀ upa-aṃśu ǀ prathamā ǀ pibāva ǁ10.83.7 Aṣṭaka 8.3.18.7Anuvāka 10.6.128
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.