Sūkta 173
- Devatā देवता
- Rājñaḥ Stutiḥ
- Ṛṣi ऋषि
- Dhruva Āṇgirasa
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles anuṣṭup (1, 3-5); bhuriganuṣṭup (2); nicṛdanuṣṭup (6)
2nd set of styles anuṣṭubh
-
Ṛk 1
आ त्वा॑हार्षमं॒तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः ।
विश॑स्त्वा॒ सर्वा॑ वांछंतु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥आ त्वाहार्षम् अन्तर् एधि ध्रुवस् तिष्ठाविचाचलिः |
विशस् त्वा सर्वा वाञ्छन्तु मा त्वद् राष्ट्रम् अधि भ्रशत् ||ā́ tvāhārṣamantáredhi dhruvástiṣṭhā́vicācaliḥ ǀ
víśastvā sárvā vāñchantu mā́ tvádrāṣṭrámádhi bhraśat ǁā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ |
viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat ||आ । त्वा॒ । अ॒हा॒र्ष॒म् । अ॒न्तः । ए॒धि॒ । ध्रु॒वः । ति॒ष्ठ॒ । अवि॑ऽचाचलिः ।
विशः॑ । त्वा॒ । सर्वाः॑ । वा॒ञ्छ॒न्तु॒ । मा । त्वत् । रा॒ष्ट्रम् । अधि॑ । भ्र॒श॒त् ॥आ । त्वा । अहार्षम् । अन्तः । एधि । ध्रुवः । तिष्ठ । अविऽचाचलिः ।
विशः । त्वा । सर्वाः । वाञ्छन्तु । मा । त्वत् । राष्ट्रम् । अधि । भ्रशत् ॥ā́ ǀ tvā ǀ ahārṣam ǀ antáḥ ǀ edhi ǀ dhruváḥ ǀ tiṣṭha ǀ ávi-cācaliḥ ǀ
víśaḥ ǀ tvā ǀ sárvāḥ ǀ vāñchantu ǀ mā́ ǀ tvát ǀ rāṣṭrám ǀ ádhi ǀ bhraśat ǁā ǀ tvā ǀ ahārṣam ǀ antaḥ ǀ edhi ǀ dhruvaḥ ǀ tiṣṭha ǀ avi-cācaliḥ ǀ
viśaḥ ǀ tvā ǀ sarvāḥ ǀ vāñchantu ǀ mā ǀ tvat ǀ rāṣṭram ǀ adhi ǀ bhraśat ǁ10.173.1 Aṣṭaka 8.8.31.1Anuvāka 10.12.103
-
Ṛk 2
इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः ।
इंद्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः |
इन्द्र इवेह ध्रुवस् तिष्ठेह राष्ट्रम् उ धारय ||iháiváidhi mā́pa cyoṣṭhāḥ párvata ivā́vicācaliḥ ǀ
índra ivehá dhruvástiṣṭhehá rāṣṭrámu dhāraya ǁihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ |
indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya ||इ॒ह । ए॒व । ए॒धि॒ । मा । अप॑ । च्यो॒ष्ठाः॒ । पर्व॑तःऽइव । अवि॑ऽचाचलिः ।
इन्द्रः॑ऽइव । इ॒ह । ध्रु॒वः । ति॒ष्ठ॒ । इ॒ह । रा॒ष्ट्रम् । ऊं॒ इति॑ । धा॒र॒य॒ ॥इह । एव । एधि । मा । अप । च्योष्ठाः । पर्वतःऽइव । अविऽचाचलिः ।
इन्द्रःऽइव । इह । ध्रुवः । तिष्ठ । इह । राष्ट्रम् । ऊं इति । धारय ॥ihá ǀ evá ǀ edhi ǀ mā́ ǀ ápa ǀ cyoṣṭhāḥ ǀ párvataḥ-iva ǀ ávi-cācaliḥ ǀ
índraḥ-iva ǀ ihá ǀ dhruváḥ ǀ tiṣṭha ǀ ihá ǀ rāṣṭrám ǀ ūṃ íti ǀ dhāraya ǁiha ǀ eva ǀ edhi ǀ mā ǀ apa ǀ cyoṣṭhāḥ ǀ parvataḥ-iva ǀ avi-cācaliḥ ǀ
indraḥ-iva ǀ iha ǀ dhruvaḥ ǀ tiṣṭha ǀ iha ǀ rāṣṭram ǀ ūṃ iti ǀ dhāraya ǁ10.173.2 Aṣṭaka 8.8.31.2Anuvāka 10.12.104
-
Ṛk 3
इ॒ममिंद्रो॑ अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ ।
तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑ उ॒ ब्रह्म॑ण॒स्पतिः॑ ॥इमम् इन्द्रो अदीधरद् ध्रुवं ध्रुवेण हविषा |
तस्मै सोमो अधि ब्रवत् तस्मा उ ब्रह्मणस् पतिः ||imámíndro adīdharaddhruvám dhruvéṇa havíṣā ǀ
tásmai sómo ádhi bravattásmā u bráhmaṇaspátiḥ ǁimam indro adīdharad dhruvaṃ dhruveṇa haviṣā |
tasmai somo adhi bravat tasmā u brahmaṇas patiḥ ||इ॒मम् । इन्द्रः॑ । अ॒दी॒ध॒र॒त् । ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ ।
तस्मै॑ । सोमः॑ । अधि॑ । ब्र॒व॒त् । तस्मै॑ । ऊं॒ इति॑ । ब्रह्म॑णः । पतिः॑ ॥इमम् । इन्द्रः । अदीधरत् । ध्रुवम् । ध्रुवेण । हविषा ।
तस्मै । सोमः । अधि । ब्रवत् । तस्मै । ऊं इति । ब्रह्मणः । पतिः ॥imám ǀ índraḥ ǀ adīdharat ǀ dhruvám ǀ dhruvéṇa ǀ havíṣā ǀ
tásmai ǀ sómaḥ ǀ ádhi ǀ bravat ǀ tásmai ǀ ūṃ íti ǀ bráhmaṇaḥ ǀ pátiḥ ǁimam ǀ indraḥ ǀ adīdharat ǀ dhruvam ǀ dhruveṇa ǀ haviṣā ǀ
tasmai ǀ somaḥ ǀ adhi ǀ bravat ǀ tasmai ǀ ūṃ iti ǀ brahmaṇaḥ ǀ patiḥ ǁ10.173.3 Aṣṭaka 8.8.31.3Anuvāka 10.12.105
-
Ṛk 4
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता इ॒मे ।
ध्रु॒वं विश्व॑मि॒दं जग॑द्ध्रु॒वो राजा॑ वि॒शाम॒यं ॥ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवासः पर्वता इमे |
ध्रुवं विश्वम् इदं जगद् ध्रुवो राजा विशाम् अयम् ||dhruvā́ dyáurdhruvā́ pṛthivī́ dhruvā́saḥ párvatā imé ǀ
dhruvám víśvamidám jágaddhruvó rā́jā viśā́mayám ǁdhruvā dyaur dhruvā pṛthivī dhruvāsaḥ parvatā ime |
dhruvaṃ viśvam idaṃ jagad dhruvo rājā viśām ayam ||ध्रु॒वा । द्यौः । ध्रु॒वा । पृ॒थि॒वी । ध्रु॒वासः॑ । पर्व॑ताः । इ॒मे ।
ध्रु॒वम् । विश्व॑म् । इ॒दम् । जग॑त् । ध्रु॒वः । राजा॑ । वि॒शाम् । अ॒यम् ॥ध्रुवा । द्यौः । ध्रुवा । पृथिवी । ध्रुवासः । पर्वताः । इमे ।
ध्रुवम् । विश्वम् । इदम् । जगत् । ध्रुवः । राजा । विशाम् । अयम् ॥dhruvā́ ǀ dyáuḥ ǀ dhruvā́ ǀ pṛthivī́ ǀ dhruvā́saḥ ǀ párvatāḥ ǀ imé ǀ
dhruvám ǀ víśvam ǀ idám ǀ jágat ǀ dhruváḥ ǀ rā́jā ǀ viśā́m ǀ ayám ǁdhruvā ǀ dyauḥ ǀ dhruvā ǀ pṛthivī ǀ dhruvāsaḥ ǀ parvatāḥ ǀ ime ǀ
dhruvam ǀ viśvam ǀ idam ǀ jagat ǀ dhruvaḥ ǀ rājā ǀ viśām ǀ ayam ǁ10.173.4 Aṣṭaka 8.8.31.4Anuvāka 10.12.106
-
Ṛk 5
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ ।
ध्रु॒वं त॒ इंद्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वं ॥ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः |
ध्रुवं त इन्द्रश् चाग्निश् च राष्ट्रं धारयतां ध्रुवम् ||dhruvám te rā́jā váruṇo dhruvám devó bṛ́haspátiḥ ǀ
dhruvám ta índraścāgníśca rāṣṭrám dhārayatām dhruvám ǁdhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ |
dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam ||ध्रु॒वम् । ते॒ । राजा॑ । वरु॑णः । ध्रु॒वम् । दे॒वः । बृह॒स्पतिः॑ ।
ध्रु॒वम् । ते॒ । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । रा॒ष्ट्रम् । धा॒र॒य॒ता॒म् । ध्रु॒वम् ॥ध्रुवम् । ते । राजा । वरुणः । ध्रुवम् । देवः । बृहस्पतिः ।
ध्रुवम् । ते । इन्द्रः । च । अग्निः । च । राष्ट्रम् । धारयताम् । ध्रुवम् ॥dhruvám ǀ te ǀ rā́jā ǀ váruṇaḥ ǀ dhruvám ǀ deváḥ ǀ bṛ́haspátiḥ ǀ
dhruvám ǀ te ǀ índraḥ ǀ ca ǀ agníḥ ǀ ca ǀ rāṣṭrám ǀ dhārayatām ǀ dhruvám ǁdhruvam ǀ te ǀ rājā ǀ varuṇaḥ ǀ dhruvam ǀ devaḥ ǀ bṛhaspatiḥ ǀ
dhruvam ǀ te ǀ indraḥ ǀ ca ǀ agniḥ ǀ ca ǀ rāṣṭram ǀ dhārayatām ǀ dhruvam ǁ10.173.5 Aṣṭaka 8.8.31.5Anuvāka 10.12.107
-
Ṛk 6
ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सोमं॑ मृशामसि ।
अथो॑ त॒ इंद्रः॒ केव॑ली॒र्विशो॑ बलि॒हृत॑स्करत् ॥ध्रुवं ध्रुवेण हविषाभि सोमम् मृशामसि |
अथो त इन्द्रः केवलीर् विशो बलिहृतस् करत् ||dhruvám dhruvéṇa havíṣābhí sómam mṛśāmasi ǀ
átho ta índraḥ kévalīrvíśo balihṛ́taskarat ǁdhruvaṃ dhruveṇa haviṣābhi somam mṛśāmasi |
atho ta indraḥ kevalīr viśo balihṛtas karat ||ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ । अ॒भि । सोम॑म् । मृ॒शा॒म॒सि॒ ।
अथो॒ इति॑ । ते॒ । इन्द्रः॑ । केव॑लीः । विशः॑ । ब॒लि॒ऽहृतः॑ । क॒र॒त् ॥ध्रुवम् । ध्रुवेण । हविषा । अभि । सोमम् । मृशामसि ।
अथो इति । ते । इन्द्रः । केवलीः । विशः । बलिऽहृतः । करत् ॥dhruvám ǀ dhruvéṇa ǀ havíṣā ǀ abhí ǀ sómam ǀ mṛśāmasi ǀ
átho íti ǀ te ǀ índraḥ ǀ kévalīḥ ǀ víśaḥ ǀ bali-hṛ́taḥ ǀ karat ǁdhruvam ǀ dhruveṇa ǀ haviṣā ǀ abhi ǀ somam ǀ mṛśāmasi ǀ
atho iti ǀ te ǀ indraḥ ǀ kevalīḥ ǀ viśaḥ ǀ bali-hṛtaḥ ǀ karat ǁ10.173.6 Aṣṭaka 8.8.31.6Anuvāka 10.12.108
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.