Sūkta 37
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Abhitapas Saurya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (1-5); virāḍjagatī (6-9); jagatī (11, 12); nicṛttriṣṭup (10)
2nd set of styles jagatī (1-9, 11, 12); triṣṭubh (10)
-
Ṛk 1
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत ।
दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शंसत ॥नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतं सपर्यत |
दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शंसत ||námo mitrásya váruṇasya cákṣase mahó devā́ya tádṛtám saparyata ǀ
dūredṛ́śe devájātāya ketáve divásputrā́ya sū́ryāya śaṃsata ǁnamo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata |
dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata ||नमः॑ । मि॒त्रस्य॑ । वरु॑णस्य । चक्ष॑से । म॒हः । दे॒वाय॑ । तत् । ऋ॒तम् । स॒प॒र्य॒त॒ ।
दू॒रे॒ऽदृशे॑ । दे॒वऽजा॑ताय । के॒तवे॑ । दि॒वः । पु॒त्राय॑ । सूर्या॑य । शं॒स॒त॒ ॥नमः । मित्रस्य । वरुणस्य । चक्षसे । महः । देवाय । तत् । ऋतम् । सपर्यत ।
दूरेऽदृशे । देवऽजाताय । केतवे । दिवः । पुत्राय । सूर्याय । शंसत ॥námaḥ ǀ mitrásya ǀ váruṇasya ǀ cákṣase ǀ maháḥ ǀ devā́ya ǀ tát ǀ ṛtám ǀ saparyata ǀ
dūre-dṛ́śe ǀ devá-jātāya ǀ ketáve ǀ diváḥ ǀ putrā́ya ǀ sū́ryāya ǀ śaṃsata ǁnamaḥ ǀ mitrasya ǀ varuṇasya ǀ cakṣase ǀ mahaḥ ǀ devāya ǀ tat ǀ ṛtam ǀ saparyata ǀ
dūre-dṛśe ǀ deva-jātāya ǀ ketave ǀ divaḥ ǀ putrāya ǀ sūryāya ǀ śaṃsata ǁ10.37.1 Aṣṭaka 7.8.12.1Anuvāka 10.3.87
-
Ṛk 2
सा मा॑ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा॑ च॒ यत्र॑ त॒तन॒न्नहा॑नि च ।
विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्यः॑ ॥सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्न् अहानि च |
विश्वम् अन्यन् नि विशते यद् एजति विश्वाहापो विश्वाहोद् एति सूर्यः ||sā́ mā satyóktiḥ pári pātu viśváto dyā́vā ca yátra tatánannáhāni ca ǀ
víśvamanyánní viśate yádéjati viśvā́hā́po viśvā́hódeti sū́ryaḥ ǁsā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanann ahāni ca |
viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ ||सा । मा॒ । स॒त्यऽउ॑क्तिः । परि॑ । पा॒तु॒ । वि॒श्वतः॑ । द्यावा॑ । च॒ । यत्र॑ । त॒तन॑न् । अहा॑नि । च॒ ।
विश्व॑म् । अ॒न्यत् । नि । वि॒श॒ते॒ । यत् । एज॑ति । वि॒श्वाहा॑ । आपः॑ । वि॒श्वाहा॑ । उत् । ए॒ति॒ । सूर्यः॑ ॥सा । मा । सत्यऽउक्तिः । परि । पातु । विश्वतः । द्यावा । च । यत्र । ततनन् । अहानि । च ।
विश्वम् । अन्यत् । नि । विशते । यत् । एजति । विश्वाहा । आपः । विश्वाहा । उत् । एति । सूर्यः ॥sā́ ǀ mā ǀ satyá-uktiḥ ǀ pári ǀ pātu ǀ viśvátaḥ ǀ dyā́vā ǀ ca ǀ yátra ǀ tatánan ǀ áhāni ǀ ca ǀ
víśvam ǀ anyát ǀ ní ǀ viśate ǀ yát ǀ éjati ǀ viśvā́hā ǀ ā́paḥ ǀ viśvā́hā ǀ út ǀ eti ǀ sū́ryaḥ ǁsā ǀ mā ǀ satya-uktiḥ ǀ pari ǀ pātu ǀ viśvataḥ ǀ dyāvā ǀ ca ǀ yatra ǀ tatanan ǀ ahāni ǀ ca ǀ
viśvam ǀ anyat ǀ ni ǀ viśate ǀ yat ǀ ejati ǀ viśvāhā ǀ āpaḥ ǀ viśvāhā ǀ ut ǀ eti ǀ sūryaḥ ǁ10.37.2 Aṣṭaka 7.8.12.2Anuvāka 10.3.88
-
Ṛk 3
न ते॒ अदे॑वः प्र॒दिवो॒ नि वा॑सते॒ यदे॑त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ ।
प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ॥न ते अदेवः प्रदिवो नि वासते यद् एतशेभिः पतरै रथर्यसि |
प्राचीनम् अन्यद् अनु वर्तते रज उद् अन्येन ज्योतिषा यासि सूर्य ||ná te ádevaḥ pradívo ní vāsate yádetaśébhiḥ patarái ratharyási ǀ
prācī́namanyádánu vartate rája údanyéna jyótiṣā yāsi sūrya ǁna te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi |
prācīnam anyad anu vartate raja ud anyena jyotiṣā yāsi sūrya ||न । ते॒ । अदे॑वः । प्र॒ऽदिवः॑ । नि । वा॒स॒ते॒ । यत् । ए॒त॒शेभिः॑ । प॒त॒रैः । र॒थ॒र्यसि॑ ।
प्रा॒चीन॑म् । अ॒न्यत् । अनु॑ । व॒र्त॒ते॒ । रजः॑ । उत् । अ॒न्येन॑ । ज्योति॑षा । या॒सि॒ । सू॒र्य॒ ॥न । ते । अदेवः । प्रऽदिवः । नि । वासते । यत् । एतशेभिः । पतरैः । रथर्यसि ।
प्राचीनम् । अन्यत् । अनु । वर्तते । रजः । उत् । अन्येन । ज्योतिषा । यासि । सूर्य ॥ná ǀ te ǀ ádevaḥ ǀ pra-dívaḥ ǀ ní ǀ vāsate ǀ yát ǀ etaśébhiḥ ǀ pataráiḥ ǀ ratharyási ǀ
prācī́nam ǀ anyát ǀ ánu ǀ vartate ǀ rájaḥ ǀ út ǀ anyéna ǀ jyótiṣā ǀ yāsi ǀ sūrya ǁna ǀ te ǀ adevaḥ ǀ pra-divaḥ ǀ ni ǀ vāsate ǀ yat ǀ etaśebhiḥ ǀ pataraiḥ ǀ ratharyasi ǀ
prācīnam ǀ anyat ǀ anu ǀ vartate ǀ rajaḥ ǀ ut ǀ anyena ǀ jyotiṣā ǀ yāsi ǀ sūrya ǁ10.37.3 Aṣṭaka 7.8.12.3Anuvāka 10.3.89
-
Ṛk 4
येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना॑ ।
तेना॒स्मद्विश्वा॒मनि॑रा॒मना॑हुति॒मपामी॑वा॒मप॑ दु॒ष्ष्वप्न्यं॑ सुव ॥येन सूर्य ज्योतिषा बाधसे तमो जगच् च विश्वम् उदियर्षि भानुना |
तेनास्मद् विश्वाम् अनिराम् अनाहुतिम् अपामीवाम् अप दुष्ष्वप्न्यं सुव ||yéna sūrya jyótiṣā bā́dhase támo jágacca víśvamudiyárṣi bhānúnā ǀ
ténāsmádvíśvāmánirāmánāhutimápā́mīvāmápa duṣṣvápnyam suva ǁyena sūrya jyotiṣā bādhase tamo jagac ca viśvam udiyarṣi bhānunā |
tenāsmad viśvām anirām anāhutim apāmīvām apa duṣṣvapnyaṃ suva ||येन॑ । सू॒र्य॒ । ज्योति॑षा । बाध॑से । तमः॑ । जग॑त् । च॒ । विश्व॑म् । उ॒त्ऽइ॒यर्षि॑ । भा॒नुना॑ ।
तेन॑ । अ॒स्मत् । विश्वा॑म् । अनि॑राम् । अना॑हुतिम् । अप॑ । अमी॑वाम् । अप॑ । दुः॒ऽस्वप्न्य॑म् । सु॒व॒ ॥येन । सूर्य । ज्योतिषा । बाधसे । तमः । जगत् । च । विश्वम् । उत्ऽइयर्षि । भानुना ।
तेन । अस्मत् । विश्वाम् । अनिराम् । अनाहुतिम् । अप । अमीवाम् । अप । दुःऽस्वप्न्यम् । सुव ॥yéna ǀ sūrya ǀ jyótiṣā ǀ bā́dhase ǀ támaḥ ǀ jágat ǀ ca ǀ víśvam ǀ ut-iyárṣi ǀ bhānúnā ǀ
téna ǀ asmát ǀ víśvām ǀ ánirām ǀ ánāhutim ǀ ápa ǀ ámīvām ǀ ápa ǀ duḥ-svápnyam ǀ suva ǁyena ǀ sūrya ǀ jyotiṣā ǀ bādhase ǀ tamaḥ ǀ jagat ǀ ca ǀ viśvam ǀ ut-iyarṣi ǀ bhānunā ǀ
tena ǀ asmat ǀ viśvām ǀ anirām ǀ anāhutim ǀ apa ǀ amīvām ǀ apa ǀ duḥ-svapnyam ǀ suva ǁ10.37.4 Aṣṭaka 7.8.12.4Anuvāka 10.3.90
-
Ṛk 5
विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे॑ळयन्नु॒च्चर॑सि स्व॒धा अनु॑ ।
यद॒द्य त्वा॑ सूर्योप॒ब्रवा॑महै॒ तं नो॑ दे॒वा अनु॑ मंसीरत॒ क्रतुं॑ ॥विश्वस्य हि प्रेषितो रक्षसि व्रतम् अहेऌअयन्न् उच्चरसि स्वधा अनु |
यद् अद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् ||víśvasya hí préṣito rákṣasi vratámáheḷayannuccárasi svadhā́ ánu ǀ
yádadyá tvā sūryopabrávāmahai tám no devā́ ánu maṃsīrata krátum ǁviśvasya hi preṣito rakṣasi vratam aheḷayann uccarasi svadhā anu |
yad adya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum ||विश्व॑स्य । हि । प्रऽइ॑षितः । रक्ष॑सि । व्र॒तम् । अहे॑ळयन् । उ॒त्ऽचर॑सि । स्व॒धाः । अनु॑ ।
यत् । अ॒द्य । त्वा॒ । सू॒र्य॒ । उ॒प॒ऽब्रवा॑महै । तत् । नः॒ । दे॒वाः । अनु॑ । मं॒सी॒र॒त॒ । क्रतु॑म् ॥विश्वस्य । हि । प्रऽइषितः । रक्षसि । व्रतम् । अहेळयन् । उत्ऽचरसि । स्वधाः । अनु ।
यत् । अद्य । त्वा । सूर्य । उपऽब्रवामहै । तत् । नः । देवाः । अनु । मंसीरत । क्रतुम् ॥víśvasya ǀ hí ǀ prá-iṣitaḥ ǀ rákṣasi ǀ vratám ǀ áheḷayan ǀ ut-cárasi ǀ svadhā́ḥ ǀ ánu ǀ
yát ǀ adyá ǀ tvā ǀ sūrya ǀ upa-brávāmahai ǀ tát ǀ naḥ ǀ devā́ḥ ǀ ánu ǀ maṃsīrata ǀ krátum ǁviśvasya ǀ hi ǀ pra-iṣitaḥ ǀ rakṣasi ǀ vratam ǀ aheḷayan ǀ ut-carasi ǀ svadhāḥ ǀ anu ǀ
yat ǀ adya ǀ tvā ǀ sūrya ǀ upa-bravāmahai ǀ tat ǀ naḥ ǀ devāḥ ǀ anu ǀ maṃsīrata ǀ kratum ǁ10.37.5 Aṣṭaka 7.8.12.5Anuvāka 10.3.91
-
Ṛk 6
तं नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इंद्रः॑ शृण्वंतु म॒रुतो॒ हवं॒ वचः॑ ।
मा शूने॑ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीवं॑तो जर॒णाम॑शीमहि ॥तं नो द्यावापृथिवी तन् न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः |
मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणाम् अशीमहि ||tám no dyā́vāpṛthivī́ tánna ā́pa índraḥ śṛṇvantu marúto hávam vácaḥ ǀ
mā́ śū́ne bhūma sū́ryasya saṃdṛ́śi bhadrám jī́vanto jaraṇā́maśīmahi ǁtaṃ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu maruto havaṃ vacaḥ |
mā śūne bhūma sūryasya saṃdṛśi bhadraṃ jīvanto jaraṇām aśīmahi ||तम् । नः॒ । द्यावा॑पृथि॒वी इति॑ । तत् । नः॒ । आपः॑ । इन्द्रः॑ । शृ॒ण्व॒न्तु॒ । म॒रुतः॑ । हव॑म् । वचः॑ ।
मा । शूने॑ । भू॒म॒ । सूर्य॑स्य । स॒म्ऽदृशि॑ । भ॒द्रम् । जीव॑न्तः । ज॒र॒णाम् । अ॒शी॒म॒हि॒ ॥तम् । नः । द्यावापृथिवी इति । तत् । नः । आपः । इन्द्रः । शृण्वन्तु । मरुतः । हवम् । वचः ।
मा । शूने । भूम । सूर्यस्य । सम्ऽदृशि । भद्रम् । जीवन्तः । जरणाम् । अशीमहि ॥tám ǀ naḥ ǀ dyā́vāpṛthivī́ íti ǀ tát ǀ naḥ ǀ ā́paḥ ǀ índraḥ ǀ śṛṇvantu ǀ marútaḥ ǀ hávam ǀ vácaḥ ǀ
mā́ ǀ śū́ne ǀ bhūma ǀ sū́ryasya ǀ sam-dṛ́śi ǀ bhadrám ǀ jī́vantaḥ ǀ jaraṇā́m ǀ aśīmahi ǁtam ǀ naḥ ǀ dyāvāpṛthivī iti ǀ tat ǀ naḥ ǀ āpaḥ ǀ indraḥ ǀ śṛṇvantu ǀ marutaḥ ǀ havam ǀ vacaḥ ǀ
mā ǀ śūne ǀ bhūma ǀ sūryasya ǀ sam-dṛśi ǀ bhadram ǀ jīvantaḥ ǀ jaraṇām ǀ aśīmahi ǁ10.37.6 Aṣṭaka 7.8.12.6Anuvāka 10.3.92
-
Ṛk 7
वि॒श्वाहा॑ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जावं॑तो अनमी॒वा अना॑गसः ।
उ॒द्यंतं॑ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः |
उद्यन्तं त्वा मित्रमहो दिवे-दिवे ज्योग् जीवाः प्रति पश्येम सूर्य ||viśvā́hā tvā sumánasaḥ sucákṣasaḥ prajā́vanto anamīvā́ ánāgasaḥ ǀ
udyántam tvā mitramaho divédive jyógjīvā́ḥ práti paśyema sūrya ǁviśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ |
udyantaṃ tvā mitramaho dive-dive jyog jīvāḥ prati paśyema sūrya ||वि॒श्वाहा॑ । त्वा॒ । सु॒ऽमन॑सः । सु॒ऽचक्ष॑सः । प्र॒जाऽव॑न्तः । अ॒न॒मी॒वाः । अना॑गसः ।
उ॒त्ऽयन्त॑म् । त्वा॒ । मि॒त्र॒ऽम॒हः॒ । दि॒वेऽदि॑वे । ज्योक् । जी॒वाः । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ॥विश्वाहा । त्वा । सुऽमनसः । सुऽचक्षसः । प्रजाऽवन्तः । अनमीवाः । अनागसः ।
उत्ऽयन्तम् । त्वा । मित्रऽमहः । दिवेऽदिवे । ज्योक् । जीवाः । प्रति । पश्येम । सूर्य ॥viśvā́hā ǀ tvā ǀ su-mánasaḥ ǀ su-cákṣasaḥ ǀ prajā́-vantaḥ ǀ anamīvā́ḥ ǀ ánāgasaḥ ǀ
ut-yántam ǀ tvā ǀ mitra-mahaḥ ǀ divé-dive ǀ jyók ǀ jīvā́ḥ ǀ práti ǀ paśyema ǀ sūrya ǁviśvāhā ǀ tvā ǀ su-manasaḥ ǀ su-cakṣasaḥ ǀ prajā-vantaḥ ǀ anamīvāḥ ǀ anāgasaḥ ǀ
ut-yantam ǀ tvā ǀ mitra-mahaḥ ǀ dive-dive ǀ jyok ǀ jīvāḥ ǀ prati ǀ paśyema ǀ sūrya ǁ10.37.7 Aṣṭaka 7.8.13.1Anuvāka 10.3.93
-
Ṛk 8
महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्वं॑तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ ।
आ॒रोहं॑तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥महि ज्योतिर् बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषे-चक्षुषे मयः |
आरोहन्तम् बृहतः पाजसस् परि वयं जीवाः प्रति पश्येम सूर्य ||máhi jyótirbíbhratam tvā vicakṣaṇa bhā́svantam cákṣuṣecakṣuṣe máyaḥ ǀ
āróhantam bṛhatáḥ pā́jasaspári vayám jīvā́ḥ práti paśyema sūrya ǁmahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe-cakṣuṣe mayaḥ |
ārohantam bṛhataḥ pājasas pari vayaṃ jīvāḥ prati paśyema sūrya ||महि॑ । ज्योतिः॑ । बिभ्र॑तम् । त्वा॒ । वि॒ऽच॒क्ष॒ण॒ । भास्व॑न्तम् । चक्षु॑षेऽचक्षुषे । मयः॑ ।
आ॒ऽरोह॑न्तम् । बृ॒ह॒तः । पाज॑सः । परि॑ । व॒यम् । जी॒वाः । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ॥महि । ज्योतिः । बिभ्रतम् । त्वा । विऽचक्षण । भास्वन्तम् । चक्षुषेऽचक्षुषे । मयः ।
आऽरोहन्तम् । बृहतः । पाजसः । परि । वयम् । जीवाः । प्रति । पश्येम । सूर्य ॥máhi ǀ jyótiḥ ǀ bíbhratam ǀ tvā ǀ vi-cakṣaṇa ǀ bhā́svantam ǀ cákṣuṣe-cakṣuṣe ǀ máyaḥ ǀ
ā-róhantam ǀ bṛhatáḥ ǀ pā́jasaḥ ǀ pári ǀ vayám ǀ jīvā́ḥ ǀ práti ǀ paśyema ǀ sūrya ǁmahi ǀ jyotiḥ ǀ bibhratam ǀ tvā ǀ vi-cakṣaṇa ǀ bhāsvantam ǀ cakṣuṣe-cakṣuṣe ǀ mayaḥ ǀ
ā-rohantam ǀ bṛhataḥ ǀ pājasaḥ ǀ pari ǀ vayam ǀ jīvāḥ ǀ prati ǀ paśyema ǀ sūrya ǁ10.37.8 Aṣṭaka 7.8.13.2Anuvāka 10.3.94
-
Ṛk 9
यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शंते॑ अ॒क्तुभिः॑ ।
अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः |
अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसा-वस्यसोद् इहि ||yásya te víśvā bhúvanāni ketúnā prá cérate ní ca viśánte aktúbhiḥ ǀ
anāgāstvéna harikeśa sūryā́hnāhnā no vásyasāvasyasódihi ǁyasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ |
anāgāstvena harikeśa sūryāhnāhnā no vasyasā-vasyasod ihi ||यस्य॑ । ते॒ । विश्वा॑ । भुव॑नानि । के॒तुना॑ । प्र । च॒ । ईर॑ते । नि । च॒ । वि॒शन्ते॑ । अ॒क्तुऽभिः॑ ।
अ॒ना॒गाः॒ऽत्वेन॑ । ह॒रि॒ऽके॒श॒ । सू॒र्य॒ । अह्ना॑ऽअह्ना । नः॒ । वस्य॑साऽवस्यसा । उत् । इ॒हि॒ ॥यस्य । ते । विश्वा । भुवनानि । केतुना । प्र । च । ईरते । नि । च । विशन्ते । अक्तुऽभिः ।
अनागाःऽत्वेन । हरिऽकेश । सूर्य । अह्नाऽअह्ना । नः । वस्यसाऽवस्यसा । उत् । इहि ॥yásya ǀ te ǀ víśvā ǀ bhúvanāni ǀ ketúnā ǀ prá ǀ ca ǀ ī́rate ǀ ní ǀ ca ǀ viśánte ǀ aktú-bhiḥ ǀ
anāgāḥ-tvéna ǀ hari-keśa ǀ sūrya ǀ áhnā-ahnā ǀ naḥ ǀ vásyasā-vasyasā ǀ út ǀ ihi ǁyasya ǀ te ǀ viśvā ǀ bhuvanāni ǀ ketunā ǀ pra ǀ ca ǀ īrate ǀ ni ǀ ca ǀ viśante ǀ aktu-bhiḥ ǀ
anāgāḥ-tvena ǀ hari-keśa ǀ sūrya ǀ ahnā-ahnā ǀ naḥ ǀ vasyasā-vasyasā ǀ ut ǀ ihi ǁ10.37.9 Aṣṭaka 7.8.13.3Anuvāka 10.3.95
-
Ṛk 10
शं नो॑ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ ।
यथा॒ शमध्वं॒छमस॑द्दुरो॒णे तत्सू॑र्य॒ द्रवि॑णं धेहि चि॒त्रं ॥शं नो भव चक्षसा शं नो अह्ना शम् भानुना शं हिमा शं घृणेन |
यथा शम् अध्वञ् छम् असद् दुरोणे तत् सूर्य द्रविणं धेहि चित्रम् ||śám no bhava cákṣasā śám no áhnā śám bhānúnā śám himā́ śám ghṛṇéna ǀ
yáthā śámádhvañchámásadduroṇé tátsūrya dráviṇam dhehi citrám ǁśaṃ no bhava cakṣasā śaṃ no ahnā śam bhānunā śaṃ himā śaṃ ghṛṇena |
yathā śam adhvañ cham asad duroṇe tat sūrya draviṇaṃ dhehi citram ||शम् । नः॒ । भ॒व॒ । चक्ष॑सा । सम् । नः॒ । अह्ना॑ । शम् । भा॒नुना॑ । शम् । हि॒मा । शम् । घृ॒णेन॑ ।
यथा॑ । शम् । अध्व॑न् । शम् । अस॑त् । दु॒रो॒णे । तत् । सू॒र्य॒ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥शम् । नः । भव । चक्षसा । सम् । नः । अह्ना । शम् । भानुना । शम् । हिमा । शम् । घृणेन ।
यथा । शम् । अध्वन् । शम् । असत् । दुरोणे । तत् । सूर्य । द्रविणम् । धेहि । चित्रम् ॥śám ǀ naḥ ǀ bhava ǀ cákṣasā ǀ sám ǀ naḥ ǀ áhnā ǀ śám ǀ bhānúnā ǀ śám ǀ himā́ ǀ śám ǀ ghṛṇéna ǀ
yáthā ǀ śám ǀ ádhvan ǀ śám ǀ ásat ǀ duroṇé ǀ tát ǀ sūrya ǀ dráviṇam ǀ dhehi ǀ citrám ǁśam ǀ naḥ ǀ bhava ǀ cakṣasā ǀ sam ǀ naḥ ǀ ahnā ǀ śam ǀ bhānunā ǀ śam ǀ himā ǀ śam ǀ ghṛṇena ǀ
yathā ǀ śam ǀ adhvan ǀ śam ǀ asat ǀ duroṇe ǀ tat ǀ sūrya ǀ draviṇam ǀ dhehi ǀ citram ǁ10.37.10 Aṣṭaka 7.8.13.4Anuvāka 10.3.96
-
Ṛk 11
अ॒स्माकं॑ देवा उ॒भया॑य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे ।
अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ॥अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे |
अदत् पिबद् ऊर्जयमानम् आशितं तद् अस्मे शं योर् अरपो दधातन ||asmā́kam devā ubháyāya jánmane śárma yacchata dvipáde cátuṣpade ǀ
adátpíbadūrjáyamānamā́śitam tádasmé śám yórarapó dadhātana ǁasmākaṃ devā ubhayāya janmane śarma yacchata dvipade catuṣpade |
adat pibad ūrjayamānam āśitaṃ tad asme śaṃ yor arapo dadhātana ||अ॒स्माक॑म् । दे॒वाः॒ । उ॒भया॑य । जन्म॑ने । शर्म॑ । य॒च्छ॒त॒ । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ।
अ॒दत् । पिब॑त् । ऊ॒र्जय॑मानम् । आशि॑तम् । तत् । अ॒स्मे इति॑ । शम् । योः । अ॒र॒पः । द॒धा॒त॒न॒ ॥अस्माकम् । देवाः । उभयाय । जन्मने । शर्म । यच्छत । द्विऽपदे । चतुःऽपदे ।
अदत् । पिबत् । ऊर्जयमानम् । आशितम् । तत् । अस्मे इति । शम् । योः । अरपः । दधातन ॥asmā́kam ǀ devāḥ ǀ ubháyāya ǀ jánmane ǀ śárma ǀ yacchata ǀ dvi-páde ǀ cátuḥ-pade ǀ
adát ǀ píbat ǀ ūrjáyamānam ǀ ā́śitam ǀ tát ǀ asmé íti ǀ śám ǀ yóḥ ǀ arapáḥ ǀ dadhātana ǁasmākam ǀ devāḥ ǀ ubhayāya ǀ janmane ǀ śarma ǀ yacchata ǀ dvi-pade ǀ catuḥ-pade ǀ
adat ǀ pibat ǀ ūrjayamānam ǀ āśitam ǀ tat ǀ asme iti ǀ śam ǀ yoḥ ǀ arapaḥ ǀ dadhātana ǁ10.37.11 Aṣṭaka 7.8.13.5Anuvāka 10.3.97
-
Ṛk 12
यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नं ।
अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मिं॒तदेनो॑ वसवो॒ नि धे॑तन ॥यद् वो देवाश् चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेऌअनम् |
अरावा यो नो अभि दुच्छुनायते तस्मिन् तद् एनो वसवो नि धेतन ||yádvo devāścakṛmá jihváyā gurú mánaso vā práyutī devahéḷanam ǀ
árāvā yó no abhí ducchunāyáte tásmintádéno vasavo ní dhetana ǁyad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḷanam |
arāvā yo no abhi ducchunāyate tasmin tad eno vasavo ni dhetana ||यत् । वः॒ । दे॒वाः॒ । च॒कृ॒म । जि॒ह्वया॑ । गु॒रु । मन॑सः । वा॒ । प्रऽयु॑ती । दे॒व॒ऽहेळ॑नम् ।
अरा॑वा । यः । नः॒ । अ॒भि । दु॒च्छु॒न॒ऽयते॑ । तस्मि॑न् । तत् । एनः॑ । व॒स॒वः॒ । नि । धे॒त॒न॒ ॥यत् । वः । देवाः । चकृम । जिह्वया । गुरु । मनसः । वा । प्रऽयुती । देवऽहेळनम् ।
अरावा । यः । नः । अभि । दुच्छुनऽयते । तस्मिन् । तत् । एनः । वसवः । नि । धेतन ॥yát ǀ vaḥ ǀ devāḥ ǀ cakṛmá ǀ jihváyā ǀ gurú ǀ mánasaḥ ǀ vā ǀ prá-yutī ǀ deva-héḷanam ǀ
árāvā ǀ yáḥ ǀ naḥ ǀ abhí ǀ ducchuna-yáte ǀ tásmin ǀ tát ǀ énaḥ ǀ vasavaḥ ǀ ní ǀ dhetana ǁyat ǀ vaḥ ǀ devāḥ ǀ cakṛma ǀ jihvayā ǀ guru ǀ manasaḥ ǀ vā ǀ pra-yutī ǀ deva-heḷanam ǀ
arāvā ǀ yaḥ ǀ naḥ ǀ abhi ǀ ducchuna-yate ǀ tasmin ǀ tat ǀ enaḥ ǀ vasavaḥ ǀ ni ǀ dhetana ǁ10.37.12 Aṣṭaka 7.8.13.6Anuvāka 10.3.98
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.