Ṛgveda · Maṇḍala 10 · Sūkta 37
Ṛk 10.37.8
Saṃhitā
महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्वं॑तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ ।
आ॒रोहं॑तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥
महि ज्योतिर् बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषे-चक्षुषे मयः |
आरोहन्तम् बृहतः पाजसस् परि वयं जीवाः प्रति पश्येम सूर्य ||
máhi jyótirbíbhratam tvā vicakṣaṇa bhā́svantam cákṣuṣecakṣuṣe máyaḥ ǀ
āróhantam bṛhatáḥ pā́jasaspári vayám jīvā́ḥ práti paśyema sūrya ǁ
mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe-cakṣuṣe mayaḥ |
ārohantam bṛhataḥ pājasas pari vayaṃ jīvāḥ prati paśyema sūrya ||
Padapāṭha
महि॑ । ज्योतिः॑ । बिभ्र॑तम् । त्वा॒ । वि॒ऽच॒क्ष॒ण॒ । भास्व॑न्तम् । चक्षु॑षेऽचक्षुषे । मयः॑ ।
आ॒ऽरोह॑न्तम् । बृ॒ह॒तः । पाज॑सः । परि॑ । व॒यम् । जी॒वाः । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ॥
महि । ज्योतिः । बिभ्रतम् । त्वा । विऽचक्षण । भास्वन्तम् । चक्षुषेऽचक्षुषे । मयः ।
आऽरोहन्तम् । बृहतः । पाजसः । परि । वयम् । जीवाः । प्रति । पश्येम । सूर्य ॥
máhi ǀ jyótiḥ ǀ bíbhratam ǀ tvā ǀ vi-cakṣaṇa ǀ bhā́svantam ǀ cákṣuṣe-cakṣuṣe ǀ máyaḥ ǀ
ā-róhantam ǀ bṛhatáḥ ǀ pā́jasaḥ ǀ pári ǀ vayám ǀ jīvā́ḥ ǀ práti ǀ paśyema ǀ sūrya ǁ
mahi ǀ jyotiḥ ǀ bibhratam ǀ tvā ǀ vi-cakṣaṇa ǀ bhāsvantam ǀ cakṣuṣe-cakṣuṣe ǀ mayaḥ ǀ
ā-rohantam ǀ bṛhataḥ ǀ pājasaḥ ǀ pari ǀ vayam ǀ jīvāḥ ǀ prati ǀ paśyema ǀ sūrya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.037.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.13.02
- Maṇḍala · Anuvāka · Ṛk
- 10.03.094
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Abhitapas Saurya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.