Ṛgveda · Maṇḍala 10 · Sūkta 37
Ṛk 10.37.11
Saṃhitā
अ॒स्माकं॑ देवा उ॒भया॑य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे ।
अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ॥
अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे |
अदत् पिबद् ऊर्जयमानम् आशितं तद् अस्मे शं योर् अरपो दधातन ||
asmā́kam devā ubháyāya jánmane śárma yacchata dvipáde cátuṣpade ǀ
adátpíbadūrjáyamānamā́śitam tádasmé śám yórarapó dadhātana ǁ
asmākaṃ devā ubhayāya janmane śarma yacchata dvipade catuṣpade |
adat pibad ūrjayamānam āśitaṃ tad asme śaṃ yor arapo dadhātana ||
Padapāṭha
अ॒स्माक॑म् । दे॒वाः॒ । उ॒भया॑य । जन्म॑ने । शर्म॑ । य॒च्छ॒त॒ । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ।
अ॒दत् । पिब॑त् । ऊ॒र्जय॑मानम् । आशि॑तम् । तत् । अ॒स्मे इति॑ । शम् । योः । अ॒र॒पः । द॒धा॒त॒न॒ ॥
अस्माकम् । देवाः । उभयाय । जन्मने । शर्म । यच्छत । द्विऽपदे । चतुःऽपदे ।
अदत् । पिबत् । ऊर्जयमानम् । आशितम् । तत् । अस्मे इति । शम् । योः । अरपः । दधातन ॥
asmā́kam ǀ devāḥ ǀ ubháyāya ǀ jánmane ǀ śárma ǀ yacchata ǀ dvi-páde ǀ cátuḥ-pade ǀ
adát ǀ píbat ǀ ūrjáyamānam ǀ ā́śitam ǀ tát ǀ asmé íti ǀ śám ǀ yóḥ ǀ arapáḥ ǀ dadhātana ǁ
asmākam ǀ devāḥ ǀ ubhayāya ǀ janmane ǀ śarma ǀ yacchata ǀ dvi-pade ǀ catuḥ-pade ǀ
adat ǀ pibat ǀ ūrjayamānam ǀ āśitam ǀ tat ǀ asme iti ǀ śam ǀ yoḥ ǀ arapaḥ ǀ dadhātana ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.037.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.13.05
- Maṇḍala · Anuvāka · Ṛk
- 10.03.097
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Abhitapas Saurya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.