Ṛgveda · Maṇḍala 10 · Sūkta 37
Ṛk 10.37.2
Saṃhitā
सा मा॑ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा॑ च॒ यत्र॑ त॒तन॒न्नहा॑नि च ।
विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्यः॑ ॥
सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्न् अहानि च |
विश्वम् अन्यन् नि विशते यद् एजति विश्वाहापो विश्वाहोद् एति सूर्यः ||
sā́ mā satyóktiḥ pári pātu viśváto dyā́vā ca yátra tatánannáhāni ca ǀ
víśvamanyánní viśate yádéjati viśvā́hā́po viśvā́hódeti sū́ryaḥ ǁ
sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanann ahāni ca |
viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ ||
Padapāṭha
सा । मा॒ । स॒त्यऽउ॑क्तिः । परि॑ । पा॒तु॒ । वि॒श्वतः॑ । द्यावा॑ । च॒ । यत्र॑ । त॒तन॑न् । अहा॑नि । च॒ ।
विश्व॑म् । अ॒न्यत् । नि । वि॒श॒ते॒ । यत् । एज॑ति । वि॒श्वाहा॑ । आपः॑ । वि॒श्वाहा॑ । उत् । ए॒ति॒ । सूर्यः॑ ॥
सा । मा । सत्यऽउक्तिः । परि । पातु । विश्वतः । द्यावा । च । यत्र । ततनन् । अहानि । च ।
विश्वम् । अन्यत् । नि । विशते । यत् । एजति । विश्वाहा । आपः । विश्वाहा । उत् । एति । सूर्यः ॥
sā́ ǀ mā ǀ satyá-uktiḥ ǀ pári ǀ pātu ǀ viśvátaḥ ǀ dyā́vā ǀ ca ǀ yátra ǀ tatánan ǀ áhāni ǀ ca ǀ
víśvam ǀ anyát ǀ ní ǀ viśate ǀ yát ǀ éjati ǀ viśvā́hā ǀ ā́paḥ ǀ viśvā́hā ǀ út ǀ eti ǀ sū́ryaḥ ǁ
sā ǀ mā ǀ satya-uktiḥ ǀ pari ǀ pātu ǀ viśvataḥ ǀ dyāvā ǀ ca ǀ yatra ǀ tatanan ǀ ahāni ǀ ca ǀ
viśvam ǀ anyat ǀ ni ǀ viśate ǀ yat ǀ ejati ǀ viśvāhā ǀ āpaḥ ǀ viśvāhā ǀ ut ǀ eti ǀ sūryaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.037.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.12.02
- Maṇḍala · Anuvāka · Ṛk
- 10.03.088
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Abhitapas Saurya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.