Sūkta 150
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Mṛḻīka Vāsiṣṭha
- Chandas छन्दस्
- Bṛhatī, Upariṣṭājjyotis Or Jagatī, Upariṣṭājjyotis
Metres by ṛk
1st set of styles bṛhatī (1, 2); nicṛdbṛhatī (3); upariṣṭājyotirnāmajagatī vā (4); upariṣṭājyoti (5)
2nd set of styles bṛhatī (1-3); upariṣṭājjyotis or jagatī (4); upariṣṭājjyotis (5)
-
Ṛk 1
समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।
आ॒दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ॥समिद्धश् चित् सम् इध्यसे देवेभ्यो हव्यवाहन |
आदित्यै रुद्रैर् वसुभिर् न आ गहि मृऌईकाय न आ गहि ||sámiddhaścitsámidhyase devébhyo havyavāhana ǀ
ādityái rudráirvásubhirna ā́ gahi mṛḷīkā́ya na ā́ gahi ǁsamiddhaś cit sam idhyase devebhyo havyavāhana |
ādityai rudrair vasubhir na ā gahi mṛḷīkāya na ā gahi ||सम्ऽइ॑द्धः । चि॒त् । सम् । इ॒ध्य॒से॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ ।
आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । नः॒ । आ । ग॒हि॒ । मृ॒ळी॒काय॑ । नः॒ । आ । ग॒हि॒ ॥सम्ऽइद्धः । चित् । सम् । इध्यसे । देवेभ्यः । हव्यऽवाहन ।
आदित्यैः । रुद्रैः । वसुऽभिः । नः । आ । गहि । मृळीकाय । नः । आ । गहि ॥sám-iddhaḥ ǀ cit ǀ sám ǀ idhyase ǀ devébhyaḥ ǀ havya-vāhana ǀ
ādityáiḥ ǀ rudráiḥ ǀ vásu-bhiḥ ǀ naḥ ǀ ā́ ǀ gahi ǀ mṛḷīkā́ya ǀ naḥ ǀ ā́ ǀ gahi ǁsam-iddhaḥ ǀ cit ǀ sam ǀ idhyase ǀ devebhyaḥ ǀ havya-vāhana ǀ
ādityaiḥ ǀ rudraiḥ ǀ vasu-bhiḥ ǀ naḥ ǀ ā ǀ gahi ǀ mṛḷīkāya ǀ naḥ ǀ ā ǀ gahi ǁ10.150.1 Aṣṭaka 8.8.8.1Anuvāka 10.11.135
-
Ṛk 2
इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि ।
मर्ता॑सस्त्वा समिधान हवामहे मृळी॒काय॑ हवामहे ॥इमं यज्ञम् इदं वचो जुजुषाण उपागहि |
मर्तासस् त्वा समिधान हवामहे मृऌईकाय हवामहे ||imám yajñámidám váco jujuṣāṇá upā́gahi ǀ
mártāsastvā samidhāna havāmahe mṛḷīkā́ya havāmahe ǁimaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi |
martāsas tvā samidhāna havāmahe mṛḷīkāya havāmahe ||इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः॑ । जु॒जु॒षा॒णः । उ॒प॒ऽआग॑हि ।
मर्ता॑सः । त्वा॒ । स॒म्ऽइ॒धा॒न॒ । ह॒वा॒म॒हे॒ । मृ॒ळी॒काय॑ । ह॒वा॒म॒हे॒ ॥इमम् । यज्ञम् । इदम् । वचः । जुजुषाणः । उपऽआगहि ।
मर्तासः । त्वा । सम्ऽइधान । हवामहे । मृळीकाय । हवामहे ॥imám ǀ yajñám ǀ idám ǀ vácaḥ ǀ jujuṣāṇáḥ ǀ upa-ā́gahi ǀ
mártāsaḥ ǀ tvā ǀ sam-idhāna ǀ havāmahe ǀ mṛḷīkā́ya ǀ havāmahe ǁimam ǀ yajñam ǀ idam ǀ vacaḥ ǀ jujuṣāṇaḥ ǀ upa-āgahi ǀ
martāsaḥ ǀ tvā ǀ sam-idhāna ǀ havāmahe ǀ mṛḷīkāya ǀ havāmahe ǁ10.150.2 Aṣṭaka 8.8.8.2Anuvāka 10.11.136
-
Ṛk 3
त्वामु॑ जा॒तवे॑दसं वि॒श्ववा॑रं गृणे धि॒या ।
अग्ने॑ दे॒वाँ आ व॑ह नः प्रि॒यव्र॑तान्मृळी॒काय॑ प्रि॒यव्र॑तान् ॥त्वाम् उ जातवेदसं विश्ववारं गृणे धिया |
अग्ने देवां आ वह नः प्रियव्रतान् मृऌईकाय प्रियव्रतान् ||tvā́mu jātávedasam viśvávāram gṛṇe dhiyā́ ǀ
ágne devā́m̐ ā́ vaha naḥ priyávratānmṛḷīkā́ya priyávratān ǁtvām u jātavedasaṃ viśvavāraṃ gṛṇe dhiyā |
agne devāṃ ā vaha naḥ priyavratān mṛḷīkāya priyavratān ||त्वाम् । ऊं॒ इति॑ । जा॒तऽवे॑दसम् । वि॒श्वऽवा॑रम् । गृ॒णे॒ । धि॒या ।
अग्ने॑ । दे॒वान् । आ । व॒ह॒ । नः॒ । प्रि॒यऽव्र॑तान् । मृ॒ळी॒काय॑ । प्रि॒यऽव्र॑तान् ॥त्वाम् । ऊं इति । जातऽवेदसम् । विश्वऽवारम् । गृणे । धिया ।
अग्ने । देवान् । आ । वह । नः । प्रियऽव्रतान् । मृळीकाय । प्रियऽव्रतान् ॥tvā́m ǀ ūṃ íti ǀ jātá-vedasam ǀ viśvá-vāram ǀ gṛṇe ǀ dhiyā́ ǀ
ágne ǀ devā́n ǀ ā́ ǀ vaha ǀ naḥ ǀ priyá-vratān ǀ mṛḷīkā́ya ǀ priyá-vratān ǁtvām ǀ ūṃ iti ǀ jāta-vedasam ǀ viśva-vāram ǀ gṛṇe ǀ dhiyā ǀ
agne ǀ devān ǀ ā ǀ vaha ǀ naḥ ǀ priya-vratān ǀ mṛḷīkāya ǀ priya-vratān ǁ10.150.3 Aṣṭaka 8.8.8.3Anuvāka 10.11.137
-
Ṛk 4
अ॒ग्निर्दे॒वो दे॒वाना॑मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॒॑ ऋष॑यः॒ समी॑धिरे ।
अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ॥अग्निर् देवो देवानाम् अभवत् पुरोहितो ऽग्निम् मनुष्या ऋषयः सम् ईधिरे |
अग्निम् महो धनसाताव् अहं हुवे मृऌईकं धनसातये ||agnírdevó devā́nāmabhavatpuróhito’gním manuṣyā́ ṛ́ṣayaḥ sámīdhire ǀ
agním mahó dhánasātāvahám huve mṛḷīkám dhánasātaye ǁagnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire |
agnim maho dhanasātāv ahaṃ huve mṛḷīkaṃ dhanasātaye ||अ॒ग्निः । दे॒वः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रःऽहि॑तः । अ॒ग्निम् । म॒नु॒ष्याः॑ । ऋष॑यः । सम् । ई॒धि॒रे॒ ।
अ॒ग्निम् । म॒हः । धन॑ऽसातौ । अ॒हम् । हु॒वे॒ । मृ॒ळी॒कम् । धन॑ऽसातये ॥अग्निः । देवः । देवानाम् । अभवत् । पुरःऽहितः । अग्निम् । मनुष्याः । ऋषयः । सम् । ईधिरे ।
अग्निम् । महः । धनऽसातौ । अहम् । हुवे । मृळीकम् । धनऽसातये ॥agníḥ ǀ deváḥ ǀ devā́nām ǀ abhavat ǀ puráḥ-hitaḥ ǀ agním ǀ manuṣyā́ḥ ǀ ṛ́ṣayaḥ ǀ sám ǀ īdhire ǀ
agním ǀ maháḥ ǀ dhána-sātau ǀ ahám ǀ huve ǀ mṛḷīkám ǀ dhána-sātaye ǁagniḥ ǀ devaḥ ǀ devānām ǀ abhavat ǀ puraḥ-hitaḥ ǀ agnim ǀ manuṣyāḥ ǀ ṛṣayaḥ ǀ sam ǀ īdhire ǀ
agnim ǀ mahaḥ ǀ dhana-sātau ǀ aham ǀ huve ǀ mṛḷīkam ǀ dhana-sātaye ǁ10.150.4 Aṣṭaka 8.8.8.4Anuvāka 10.11.138
-
Ṛk 5
अ॒ग्निरत्रिं॑ भ॒रद्वा॑जं॒ गवि॑ष्ठिरं॒ प्राव॑न्नः॒ कण्वं॑ त्र॒सद॑स्युमाह॒वे ।
अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ॥अग्निर् अत्रिम् भरद्वाजं गविष्ठिरम् प्रावन् नः कण्वं त्रसदस्युम् आहवे |
अग्निं वसिष्ठो हवते पुरोहितो मृऌईकाय पुरोहितः ||agnírátrim bharádvājam gáviṣṭhiram prā́vannaḥ káṇvam trasádasyumāhavé ǀ
agním vásiṣṭho havate puróhito mṛḷīkā́ya puróhitaḥ ǁagnir atrim bharadvājaṃ gaviṣṭhiram prāvan naḥ kaṇvaṃ trasadasyum āhave |
agniṃ vasiṣṭho havate purohito mṛḷīkāya purohitaḥ ||अ॒ग्निः । अत्रि॑म् । भ॒रत्ऽवा॑जम् । गवि॑ष्ठिरम् । प्र । आ॒व॒त् । नः॒ । कण्व॑म् । त्र॒सद॑स्युम् । आ॒ऽह॒वे ।
अ॒ग्निम् । वसि॑ष्ठः । ह॒व॒ते॒ । पु॒रःऽहि॑तः । मृ॒ळी॒काय॑ । पु॒रःऽहि॑तः ॥अग्निः । अत्रिम् । भरत्ऽवाजम् । गविष्ठिरम् । प्र । आवत् । नः । कण्वम् । त्रसदस्युम् । आऽहवे ।
अग्निम् । वसिष्ठः । हवते । पुरःऽहितः । मृळीकाय । पुरःऽहितः ॥agníḥ ǀ átrim ǀ bharát-vājam ǀ gáviṣṭhiram ǀ prá ǀ āvat ǀ naḥ ǀ káṇvam ǀ trasádasyum ǀ ā-havé ǀ
agním ǀ vásiṣṭhaḥ ǀ havate ǀ puráḥ-hitaḥ ǀ mṛḷīkā́ya ǀ puráḥ-hitaḥ ǁagniḥ ǀ atrim ǀ bharat-vājam ǀ gaviṣṭhiram ǀ pra ǀ āvat ǀ naḥ ǀ kaṇvam ǀ trasadasyum ǀ ā-have ǀ
agnim ǀ vasiṣṭhaḥ ǀ havate ǀ puraḥ-hitaḥ ǀ mṛḷīkāya ǀ puraḥ-hitaḥ ǁ10.150.5 Aṣṭaka 8.8.8.5Anuvāka 10.11.139
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.