Sūkta 65
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasukarṇa Vāsukra
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (1, 4, 6, 10, 12, 13); virāḍjagatī (3, 7, 9); jagatī (5, 8, 11); pādanicṛjjgatī (2); triṣṭup (14); virāṭtrisṭup (15)
2nd set of styles jagatī (1-14); triṣṭubh (15)
-
Ṛk 1
अ॒ग्निरिंद्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः ।
आ॒दि॒त्या विष्णु॑र्म॒रुतः॒ स्व॑र्बृ॒हत्सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ॥अग्निर् इन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः |
आदित्या विष्णुर् मरुतः स्वर् बृहत् सोमो रुद्रो अदितिर् ब्रह्मणस् पतिः ||agníríndro váruṇo mitró aryamā́ vāyúḥ pūṣā́ sárasvatī sajóṣasaḥ ǀ
ādityā́ víṣṇurmarútaḥ svárbṛhátsómo rudró áditirbráhmaṇaspátiḥ ǁagnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ |
ādityā viṣṇur marutaḥ svar bṛhat somo rudro aditir brahmaṇas patiḥ ||अ॒ग्निः । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । वा॒युः । पू॒षा । सर॑स्वती । स॒ऽजोष॑सः ।
आ॒दि॒त्याः । विष्णुः॑ । म॒रुतः॑ । स्वः॑ । बृ॒हत् । सोमः॑ । रु॒द्रः । अदि॑तिः । ब्रह्म॑णः । पतिः॑ ॥अग्निः । इन्द्रः । वरुणः । मित्रः । अर्यमा । वायुः । पूषा । सरस्वती । सऽजोषसः ।
आदित्याः । विष्णुः । मरुतः । स्वः । बृहत् । सोमः । रुद्रः । अदितिः । ब्रह्मणः । पतिः ॥agníḥ ǀ índraḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ vāyúḥ ǀ pūṣā́ ǀ sárasvatī ǀ sa-jóṣasaḥ ǀ
ādityā́ḥ ǀ víṣṇuḥ ǀ marútaḥ ǀ sváḥ ǀ bṛhát ǀ sómaḥ ǀ rudráḥ ǀ áditiḥ ǀ bráhmaṇaḥ ǀ pátiḥ ǁagniḥ ǀ indraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ vāyuḥ ǀ pūṣā ǀ sarasvatī ǀ sa-joṣasaḥ ǀ
ādityāḥ ǀ viṣṇuḥ ǀ marutaḥ ǀ svaḥ ǀ bṛhat ǀ somaḥ ǀ rudraḥ ǀ aditiḥ ǀ brahmaṇaḥ ǀ patiḥ ǁ10.65.1 Aṣṭaka 8.2.9.1Anuvāka 10.5.73
-
Ṛk 2
इं॒द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु॒ सत्प॑ती मि॒थो हि॑न्वा॒ना त॒न्वा॒३॒॑ समो॑कसा ।
अं॒तरि॑क्षं॒ मह्या प॑प्रु॒रोज॑सा॒ सोमो॑ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ॥इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा समोकसा |
अन्तरिक्षम् मह्य् आ पप्रुर् ओजसा सोमो घृतश्रीर् महिमानम् ईरयन् ||indrāgnī́ vṛtrahátyeṣu sátpatī mithó hinvānā́ tanvā́ sámokasā ǀ
antárikṣam máhyā́ paprurójasā sómo ghṛtaśrī́rmahimā́namīráyan ǁindrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā samokasā |
antarikṣam mahy ā paprur ojasā somo ghṛtaśrīr mahimānam īrayan ||इ॒न्द्रा॒ग्नी इति॑ । वृ॒त्र॒ऽहत्ये॑षु । सत्प॑ती॒ इति॒ सत्ऽप॑ती । मि॒थः । हि॒न्वा॒ना । त॒न्वा॑ । सम्ऽओ॑कसा ।
अ॒न्तरि॑क्षम् । महि॑ । आ । प॒प्रुः॒ । ओज॑सा । सोमः॑ । घृ॒त॒ऽश्रीः । म॒हि॒मान॑म् । ई॒रय॑न् ॥इन्द्राग्नी इति । वृत्रऽहत्येषु । सत्पती इति सत्ऽपती । मिथः । हिन्वाना । तन्वा । सम्ऽओकसा ।
अन्तरिक्षम् । महि । आ । पप्रुः । ओजसा । सोमः । घृतऽश्रीः । महिमानम् । ईरयन् ॥indrāgnī́ íti ǀ vṛtra-hátyeṣu ǀ sátpatī íti sát-patī ǀ mitháḥ ǀ hinvānā́ ǀ tanvā́ ǀ sám-okasā ǀ
antárikṣam ǀ máhi ǀ ā́ ǀ papruḥ ǀ ójasā ǀ sómaḥ ǀ ghṛta-śrī́ḥ ǀ mahimā́nam ǀ īráyan ǁindrāgnī iti ǀ vṛtra-hatyeṣu ǀ satpatī iti sat-patī ǀ mithaḥ ǀ hinvānā ǀ tanvā ǀ sam-okasā ǀ
antarikṣam ǀ mahi ǀ ā ǀ papruḥ ǀ ojasā ǀ somaḥ ǀ ghṛta-śrīḥ ǀ mahimānam ǀ īrayan ǁ10.65.2 Aṣṭaka 8.2.9.2Anuvāka 10.5.74
-
Ṛk 3
तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधां॑ ।
ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धस॒स्ते नो॑ रासंतां म॒हये॑ सुमि॒त्र्याः ॥तेषां हि मह्ना महताम् अनर्वणां स्तोमां इयर्म्य् ऋतज्ञा ऋतावृधाम् |
ये अप्सवम् अर्णवं चित्रराधसस् ते नो रासन्ताम् महये सुमित्र्याः ||téṣām hí mahnā́ mahatā́manarváṇām stómām̐ íyarmyṛtajñā́ ṛtāvṛ́dhām ǀ
yé apsavámarṇavám citrárādhasasté no rāsantām maháye sumitryā́ḥ ǁteṣāṃ hi mahnā mahatām anarvaṇāṃ stomāṃ iyarmy ṛtajñā ṛtāvṛdhām |
ye apsavam arṇavaṃ citrarādhasas te no rāsantām mahaye sumitryāḥ ||तेषा॑म् । हि । म॒ह्ना । म॒ह॒ताम् । अ॒न॒र्वणा॑म् । स्तोमा॑न् । इय॑र्मि । ऋ॒त॒ऽज्ञाः । ऋ॒त॒ऽवृधा॑म् ।
ये । अ॒प्स॒वम् । अ॒र्ण॒वम् । चि॒त्रऽरा॑धसः । ते । नः॒ । रा॒स॒न्ता॒म् । म॒हये॑ । सु॒ऽमि॒त्र्याः ॥तेषाम् । हि । मह्ना । महताम् । अनर्वणाम् । स्तोमान् । इयर्मि । ऋतऽज्ञाः । ऋतऽवृधाम् ।
ये । अप्सवम् । अर्णवम् । चित्रऽराधसः । ते । नः । रासन्ताम् । महये । सुऽमित्र्याः ॥téṣām ǀ hí ǀ mahnā́ ǀ mahatā́m ǀ anarváṇām ǀ stómān ǀ íyarmi ǀ ṛta-jñā́ḥ ǀ ṛta-vṛ́dhām ǀ
yé ǀ apsavám ǀ arṇavám ǀ citrá-rādhasaḥ ǀ té ǀ naḥ ǀ rāsantām ǀ maháye ǀ su-mitryā́ḥ ǁteṣām ǀ hi ǀ mahnā ǀ mahatām ǀ anarvaṇām ǀ stomān ǀ iyarmi ǀ ṛta-jñāḥ ǀ ṛta-vṛdhām ǀ
ye ǀ apsavam ǀ arṇavam ǀ citra-rādhasaḥ ǀ te ǀ naḥ ǀ rāsantām ǀ mahaye ǀ su-mitryāḥ ǁ10.65.3 Aṣṭaka 8.2.9.3Anuvāka 10.5.75
-
Ṛk 4
स्व॑र्णरमं॒तरि॑क्षाणि रोच॒ना द्यावा॒भूमी॑ पृथि॒वीं स्कं॑भु॒रोज॑सा ।
पृ॒क्षा इ॑व म॒हयं॑तः सुरा॒तयो॑ दे॒वाः स्त॑वंते॒ मनु॑षाय सू॒रयः॑ ॥स्वर्णरम् अन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुर् ओजसा |
पृक्षा इव महयन्तः सुरातयो देवा स्तवन्ते मनुषाय सूरयः ||svárṇaramantárikṣāṇi rocanā́ dyā́vābhū́mī pṛthivī́m skambhurójasā ǀ
pṛkṣā́ iva maháyantaḥ surātáyo devā́ḥ stavante mánuṣāya sūráyaḥ ǁsvarṇaram antarikṣāṇi rocanā dyāvābhūmī pṛthivīṃ skambhur ojasā |
pṛkṣā iva mahayantaḥ surātayo devā stavante manuṣāya sūrayaḥ ||स्वः॑ऽनरम् । अ॒न्तरि॑क्षाणि । रो॒च॒ना । द्यावा॒भूमी॒ इति॑ । पृ॒थि॒वीम् । स्क॒म्भुः॒ । ओज॑सा ।
पृ॒क्षाःऽइ॑व । म॒हय॑न्तः । सु॒ऽरा॒तयः॑ । दे॒वाः । स्त॒व॒न्ते॒ । मनु॑षाय । सू॒रयः॑ ॥स्वःऽनरम् । अन्तरिक्षाणि । रोचना । द्यावाभूमी इति । पृथिवीम् । स्कम्भुः । ओजसा ।
पृक्षाःऽइव । महयन्तः । सुऽरातयः । देवाः । स्तवन्ते । मनुषाय । सूरयः ॥sváḥ-naram ǀ antárikṣāṇi ǀ rocanā́ ǀ dyā́vābhū́mī íti ǀ pṛthivī́m ǀ skambhuḥ ǀ ójasā ǀ
pṛkṣā́ḥ-iva ǀ maháyantaḥ ǀ su-rātáyaḥ ǀ devā́ḥ ǀ stavante ǀ mánuṣāya ǀ sūráyaḥ ǁsvaḥ-naram ǀ antarikṣāṇi ǀ rocanā ǀ dyāvābhūmī iti ǀ pṛthivīm ǀ skambhuḥ ǀ ojasā ǀ
pṛkṣāḥ-iva ǀ mahayantaḥ ǀ su-rātayaḥ ǀ devāḥ ǀ stavante ǀ manuṣāya ǀ sūrayaḥ ǁ10.65.4 Aṣṭaka 8.2.9.4Anuvāka 10.5.76
-
Ṛk 5
मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः ।
ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ॥मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः |
ययोर् धाम धर्मणा रोचते बृहद् ययोर् उभे रोदसी नाधसी वृतौ ||mitrā́ya śikṣa váruṇāya dāśúṣe yā́ samrā́jā mánasā ná prayúcchataḥ ǀ
yáyordhā́ma dhármaṇā rócate bṛhádyáyorubhé ródasī nā́dhasī vṛ́tau ǁmitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na prayucchataḥ |
yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau ||मि॒त्राय॑ । शि॒क्ष॒ । वरु॑णाय । दा॒शुषे॑ । या । स॒म्ऽराजा॑ । मन॑सा । न । प्र॒ऽयुच्छ॑तः ।
ययोः॑ । धाम॑ । धर्म॑णा । रोच॑ते । बृ॒हत् । ययोः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । नाध॑सी॒ इति॑ । वृतौ॑ ॥मित्राय । शिक्ष । वरुणाय । दाशुषे । या । सम्ऽराजा । मनसा । न । प्रऽयुच्छतः ।
ययोः । धाम । धर्मणा । रोचते । बृहत् । ययोः । उभे इति । रोदसी इति । नाधसी इति । वृतौ ॥mitrā́ya ǀ śikṣa ǀ váruṇāya ǀ dāśúṣe ǀ yā́ ǀ sam-rā́jā ǀ mánasā ǀ ná ǀ pra-yúcchataḥ ǀ
yáyoḥ ǀ dhā́ma ǀ dhármaṇā ǀ rócate ǀ bṛhát ǀ yáyoḥ ǀ ubhé íti ǀ ródasī íti ǀ nā́dhasī íti ǀ vṛ́tau ǁmitrāya ǀ śikṣa ǀ varuṇāya ǀ dāśuṣe ǀ yā ǀ sam-rājā ǀ manasā ǀ na ǀ pra-yucchataḥ ǀ
yayoḥ ǀ dhāma ǀ dharmaṇā ǀ rocate ǀ bṛhat ǀ yayoḥ ǀ ubhe iti ǀ rodasī iti ǀ nādhasī iti ǀ vṛtau ǁ10.65.5 Aṣṭaka 8.2.9.5Anuvāka 10.5.77
-
Ṛk 6
या गौर्व॑र्त॒निं प॒र्येति॑ निष्कृ॒तं पयो॒ दुहा॑ना व्रत॒नीर॑वा॒रतः॑ ।
सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे॑ दे॒वेभ्यो॑ दाशद्ध॒विषा॑ वि॒वस्व॑ते ॥या गौर् वर्तनिम् पर्येति निष्कृतम् पयो दुहाना व्रतनीर् अवारतः |
सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद् धविषा विवस्वते ||yā́ gáurvartaním paryéti niṣkṛtám páyo dúhānā vratanī́ravārátaḥ ǀ
sā́ prabruvāṇā́ váruṇāya dāśúṣe devébhyo dāśaddhavíṣā vivásvate ǁyā gaur vartanim paryeti niṣkṛtam payo duhānā vratanīr avārataḥ |
sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśad dhaviṣā vivasvate ||या । गौः । व॒र्त॒निम् । प॒रि॒ऽएति॑ । निः॒ऽकृ॒तम् । पयः॑ । दुहा॑ना । व्र॒त॒ऽनीः । अ॒वा॒रतः॑ ।
सा । प्र॒ऽब्रु॒वा॒णा । वरु॑णाय । दा॒शुषे॑ । दे॒वेभ्यः॑ । दा॒श॒त् । ह॒विषा॑ । वि॒वस्व॑ते ॥या । गौः । वर्तनिम् । परिऽएति । निःऽकृतम् । पयः । दुहाना । व्रतऽनीः । अवारतः ।
सा । प्रऽब्रुवाणा । वरुणाय । दाशुषे । देवेभ्यः । दाशत् । हविषा । विवस्वते ॥yā́ ǀ gáuḥ ǀ vartaním ǀ pari-éti ǀ niḥ-kṛtám ǀ páyaḥ ǀ dúhānā ǀ vrata-nī́ḥ ǀ avārátaḥ ǀ
sā́ ǀ pra-bruvāṇā́ ǀ váruṇāya ǀ dāśúṣe ǀ devébhyaḥ ǀ dāśat ǀ havíṣā ǀ vivásvate ǁyā ǀ gauḥ ǀ vartanim ǀ pari-eti ǀ niḥ-kṛtam ǀ payaḥ ǀ duhānā ǀ vrata-nīḥ ǀ avārataḥ ǀ
sā ǀ pra-bruvāṇā ǀ varuṇāya ǀ dāśuṣe ǀ devebhyaḥ ǀ dāśat ǀ haviṣā ǀ vivasvate ǁ10.65.6 Aṣṭaka 8.2.10.1Anuvāka 10.5.78
-
Ṛk 7
दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं॑ विमृ॒शंत॑ आसते ।
द्यां स्क॑भि॒त्व्य१॒॑प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒३॒॑ नि मा॑मृजुः ॥दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते |
द्यां स्कभित्व्य् अप आ चक्रुर् ओजसा यज्ञं जनित्वी तन्वी नि मामृजुः ||divákṣaso agnijihvā́ ṛtāvṛ́dha ṛtásya yónim vimṛśánta āsate ǀ
dyā́m skabhitvyápá ā́ cakrurójasā yajñám janitvī́ tanvī́ ní māmṛjuḥ ǁdivakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate |
dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni māmṛjuḥ ||दि॒वक्ष॑सः । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽवृधः॑ । ऋ॒तस्य॑ । योनि॑म् । वि॒ऽमृ॒शन्तः॑ । आ॒स॒ते॒ ।
द्याम् । स्क॒भि॒त्वी । अ॒पः । आ । च॒क्रुः॒ । ओज॑सा । य॒ज्ञम् । ज॒नि॒त्वी । त॒न्वि॑ । नि । म॒मृ॒जुः॒ ॥दिवक्षसः । अग्निऽजिह्वाः । ऋतऽवृधः । ऋतस्य । योनिम् । विऽमृशन्तः । आसते ।
द्याम् । स्कभित्वी । अपः । आ । चक्रुः । ओजसा । यज्ञम् । जनित्वी । तन्वि । नि । ममृजुः ॥divákṣasaḥ ǀ agni-jihvā́ḥ ǀ ṛta-vṛ́dhaḥ ǀ ṛtásya ǀ yónim ǀ vi-mṛśántaḥ ǀ āsate ǀ
dyā́m ǀ skabhitvī́ ǀ apáḥ ǀ ā́ ǀ cakruḥ ǀ ójasā ǀ yajñám ǀ janitvī́ ǀ tanví ǀ ní ǀ mamṛjuḥ ǁdivakṣasaḥ ǀ agni-jihvāḥ ǀ ṛta-vṛdhaḥ ǀ ṛtasya ǀ yonim ǀ vi-mṛśantaḥ ǀ āsate ǀ
dyām ǀ skabhitvī ǀ apaḥ ǀ ā ǀ cakruḥ ǀ ojasā ǀ yajñam ǀ janitvī ǀ tanvi ǀ ni ǀ mamṛjuḥ ǁ10.65.7 Aṣṭaka 8.2.10.2Anuvāka 10.5.79
-
Ṛk 8
प॒रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री ऋ॒तस्य॒ योना॑ क्षयतः॒ समो॑कसा ।
द्यावा॑पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो॑ महि॒षाय॑ पिन्वतः ॥परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा |
द्यावापृथिवी वरुणाय सव्रते घृतवत् पयो महिषाय पिन्वतः ||parikṣítā pitárā pūrvajā́varī ṛtásya yónā kṣayataḥ sámokasā ǀ
dyā́vāpṛthivī́ váruṇāya sávrate ghṛtávatpáyo mahiṣā́ya pinvataḥ ǁparikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥ samokasā |
dyāvāpṛthivī varuṇāya savrate ghṛtavat payo mahiṣāya pinvataḥ ||प॒रि॒ऽक्षिता॑ । पि॒तरा॑ । पू॒र्व॒जाव॑री॒ इति॑ पूर्व॒ऽजाव॑री । ऋ॒तस्य॑ । योना॑ । क्ष॒य॒तः॒ । सम्ऽओ॑कसा ।
द्यावा॑पृथि॒वी इति॑ । वरु॑णाय । सव्र॑ते॒ इति॒ सऽव्र॑ते । घृ॒तऽव॑त् । पयः॑ । म॒हि॒षाय॑ । पि॒न्व॒तः॒ ॥परिऽक्षिता । पितरा । पूर्वजावरी इति पूर्वऽजावरी । ऋतस्य । योना । क्षयतः । सम्ऽओकसा ।
द्यावापृथिवी इति । वरुणाय । सव्रते इति सऽव्रते । घृतऽवत् । पयः । महिषाय । पिन्वतः ॥pari-kṣítā ǀ pitárā ǀ pūrvajā́varī íti pūrva-jā́varī ǀ ṛtásya ǀ yónā ǀ kṣayataḥ ǀ sám-okasā ǀ
dyā́vāpṛthivī́ íti ǀ váruṇāya ǀ sávrate íti sá-vrate ǀ ghṛtá-vat ǀ páyaḥ ǀ mahiṣā́ya ǀ pinvataḥ ǁpari-kṣitā ǀ pitarā ǀ pūrvajāvarī iti pūrva-jāvarī ǀ ṛtasya ǀ yonā ǀ kṣayataḥ ǀ sam-okasā ǀ
dyāvāpṛthivī iti ǀ varuṇāya ǀ savrate iti sa-vrate ǀ ghṛta-vat ǀ payaḥ ǀ mahiṣāya ǀ pinvataḥ ǁ10.65.8 Aṣṭaka 8.2.10.3Anuvāka 10.5.80
-
Ṛk 9
प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒षिणें॑द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा ।
दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो॑ अ॒प्सु ये ॥पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा |
देवां आदित्यां अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ||parjányāvā́tā vṛṣabhā́ purīṣíṇendravāyū́ váruṇo mitró aryamā́ ǀ
devā́m̐ ādityā́m̐ áditim havāmahe yé pā́rthivāso divyā́so apsú yé ǁparjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitro aryamā |
devāṃ ādityāṃ aditiṃ havāmahe ye pārthivāso divyāso apsu ye ||प॒र्जन्या॒वाता॑ । वृ॒ष॒भा । पु॒री॒षिणा॑ । इ॒न्द्र॒वा॒यू इति॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
दे॒वान् । आ॒दि॒त्यान् । अदि॑तिम् । ह॒वा॒म॒हे॒ । ये । पार्थि॑वासः । दि॒व्यासः॑ । अ॒प्ऽसु । ये ॥पर्जन्यावाता । वृषभा । पुरीषिणा । इन्द्रवायू इति । वरुणः । मित्रः । अर्यमा ।
देवान् । आदित्यान् । अदितिम् । हवामहे । ये । पार्थिवासः । दिव्यासः । अप्ऽसु । ये ॥parjányāvā́tā ǀ vṛṣabhā́ ǀ purīṣíṇā ǀ indravāyū́ íti ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ
devā́n ǀ ādityā́n ǀ áditim ǀ havāmahe ǀ yé ǀ pā́rthivāsaḥ ǀ divyā́saḥ ǀ ap-sú ǀ yé ǁparjanyāvātā ǀ vṛṣabhā ǀ purīṣiṇā ǀ indravāyū iti ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ
devān ǀ ādityān ǀ aditim ǀ havāmahe ǀ ye ǀ pārthivāsaḥ ǀ divyāsaḥ ǀ ap-su ǀ ye ǁ10.65.9 Aṣṭaka 8.2.10.4Anuvāka 10.5.81
-
Ṛk 10
त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ ।
बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिंद्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ॥त्वष्टारं वायुम् ऋभवो य ओहते दैव्या होतारा उषसं स्वस्तये |
बृहस्पतिं वृत्रखादं सुमेधसम् इन्द्रियं सोमं धनसा उ ईमहे ||tváṣṭāram vāyúmṛbhavo yá óhate dáivyā hótārā uṣásam svastáye ǀ
bṛ́haspátim vṛtrakhādám sumedhásamindriyám sómam dhanasā́ u īmahe ǁtvaṣṭāraṃ vāyum ṛbhavo ya ohate daivyā hotārā uṣasaṃ svastaye |
bṛhaspatiṃ vṛtrakhādaṃ sumedhasam indriyaṃ somaṃ dhanasā u īmahe ||त्वष्टा॑रम् । वा॒युम् । ऋ॒भ॒वः॒ । यः । ओह॑ते । दैव्या॑ । होता॑रौ । उ॒षस॑म् । स्व॒स्तये॑ ।
बृह॒स्पति॑म् । वृ॒त्र॒ऽखा॒दम् । सु॒ऽमे॒धस॑म् । इ॒न्द्रि॒यम् । सोम॑म् । ध॒न॒ऽसाः । ऊं॒ इति॑ । ई॒म॒हे॒ ॥त्वष्टारम् । वायुम् । ऋभवः । यः । ओहते । दैव्या । होतारौ । उषसम् । स्वस्तये ।
बृहस्पतिम् । वृत्रऽखादम् । सुऽमेधसम् । इन्द्रियम् । सोमम् । धनऽसाः । ऊं इति । ईमहे ॥tváṣṭāram ǀ vāyúm ǀ ṛbhavaḥ ǀ yáḥ ǀ óhate ǀ dáivyā ǀ hótārau ǀ uṣásam ǀ svastáye ǀ
bṛ́haspátim ǀ vṛtra-khādám ǀ su-medhásam ǀ indriyám ǀ sómam ǀ dhana-sā́ḥ ǀ ūṃ íti ǀ īmahe ǁtvaṣṭāram ǀ vāyum ǀ ṛbhavaḥ ǀ yaḥ ǀ ohate ǀ daivyā ǀ hotārau ǀ uṣasam ǀ svastaye ǀ
bṛhaspatim ǀ vṛtra-khādam ǀ su-medhasam ǀ indriyam ǀ somam ǀ dhana-sāḥ ǀ ūṃ iti ǀ īmahe ǁ10.65.10 Aṣṭaka 8.2.10.5Anuvāka 10.5.82
-
Ṛk 11
ब्रह्म॒ गामश्वं॑ ज॒नयं॑त॒ ओष॑धी॒र्वन॒स्पती॑न्पृथि॒वीं पर्व॑ताँ अ॒पः ।
सूर्यं॑ दि॒वि रो॒हयं॑तः सु॒दान॑व॒ आर्या॑ व्र॒ता वि॑सृ॒जंतो॒ अधि॒ क्षमि॑ ॥ब्रह्म गाम् अश्वं जनयन्त ओषधीर् वनस्पतीन् पृथिवीम् पर्वतां अपः |
सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि ||bráhma gā́máśvam janáyanta óṣadhīrvánaspátīnpṛthivī́m párvatām̐ apáḥ ǀ
sū́ryam diví roháyantaḥ sudā́nava ā́ryā vratā́ visṛjánto ádhi kṣámi ǁbrahma gām aśvaṃ janayanta oṣadhīr vanaspatīn pṛthivīm parvatāṃ apaḥ |
sūryaṃ divi rohayantaḥ sudānava āryā vratā visṛjanto adhi kṣami ||ब्रह्म॑ । गाम् । अश्व॑म् । ज॒नय॑न्तः । ओष॑धीः । वन॒स्पती॑न् । पृ॒थि॒वीम् । पर्व॑तान् । अ॒पः ।
सूर्य॑म् । दि॒वि । रो॒हय॑न्तः । सु॒ऽदान॑वः । आर्या॑ । व्र॒ता । वि॒ऽसृ॒जन्तः॑ । अधि॑ । क्षमि॑ ॥ब्रह्म । गाम् । अश्वम् । जनयन्तः । ओषधीः । वनस्पतीन् । पृथिवीम् । पर्वतान् । अपः ।
सूर्यम् । दिवि । रोहयन्तः । सुऽदानवः । आर्या । व्रता । विऽसृजन्तः । अधि । क्षमि ॥bráhma ǀ gā́m ǀ áśvam ǀ janáyantaḥ ǀ óṣadhīḥ ǀ vánaspátīn ǀ pṛthivī́m ǀ párvatān ǀ apáḥ ǀ
sū́ryam ǀ diví ǀ roháyantaḥ ǀ su-dā́navaḥ ǀ ā́ryā ǀ vratā́ ǀ vi-sṛjántaḥ ǀ ádhi ǀ kṣámi ǁbrahma ǀ gām ǀ aśvam ǀ janayantaḥ ǀ oṣadhīḥ ǀ vanaspatīn ǀ pṛthivīm ǀ parvatān ǀ apaḥ ǀ
sūryam ǀ divi ǀ rohayantaḥ ǀ su-dānavaḥ ǀ āryā ǀ vratā ǀ vi-sṛjantaḥ ǀ adhi ǀ kṣami ǁ10.65.11 Aṣṭaka 8.2.11.1Anuvāka 10.5.83
-
Ṛk 12
भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं॑ पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतं ।
क॒म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं वि॑ष्णा॒प्वं१॒॑ विश्व॑का॒याव॑ सृजथः ॥भुज्युम् अंहसः पिपृथो निर् अश्विना श्यावम् पुत्रं वध्रिमत्या अजिन्वतम् |
कमद्युवं विमदायोहथुर् युवं विष्णाप्वं विश्वकायाव सृजथः ||bhujyúmáṃhasaḥ pipṛtho níraśvinā śyā́vam putrám vadhrimatyā́ ajinvatam ǀ
kamadyúvam vimadā́yohathuryuvám viṣṇāpvám víśvakāyā́va sṛjathaḥ ǁbhujyum aṃhasaḥ pipṛtho nir aśvinā śyāvam putraṃ vadhrimatyā ajinvatam |
kamadyuvaṃ vimadāyohathur yuvaṃ viṣṇāpvaṃ viśvakāyāva sṛjathaḥ ||भु॒ज्युम् । अंह॑सः । पि॒पृ॒थः॒ । निः । अ॒श्वि॒ना॒ । श्याव॑म् । पु॒त्रम् । व॒ध्रि॒ऽम॒त्याः । अ॒जि॒न्व॒त॒म् ।
क॒म॒ऽद्युव॑म् । वि॒ऽम॒दाय॑ । ऊ॒ह॒थुः॒ । यु॒वम् । वि॒ष्णा॒प्व॑म् । विश्व॑काय । अव॑ । सृ॒ज॒थः॒ ॥भुज्युम् । अंहसः । पिपृथः । निः । अश्विना । श्यावम् । पुत्रम् । वध्रिऽमत्याः । अजिन्वतम् ।
कमऽद्युवम् । विऽमदाय । ऊहथुः । युवम् । विष्णाप्वम् । विश्वकाय । अव । सृजथः ॥bhujyúm ǀ áṃhasaḥ ǀ pipṛthaḥ ǀ níḥ ǀ aśvinā ǀ śyā́vam ǀ putrám ǀ vadhri-matyā́ḥ ǀ ajinvatam ǀ
kama-dyúvam ǀ vi-madā́ya ǀ ūhathuḥ ǀ yuvám ǀ viṣṇāpvám ǀ víśvakāya ǀ áva ǀ sṛjathaḥ ǁbhujyum ǀ aṃhasaḥ ǀ pipṛthaḥ ǀ niḥ ǀ aśvinā ǀ śyāvam ǀ putram ǀ vadhri-matyāḥ ǀ ajinvatam ǀ
kama-dyuvam ǀ vi-madāya ǀ ūhathuḥ ǀ yuvam ǀ viṣṇāpvam ǀ viśvakāya ǀ ava ǀ sṛjathaḥ ǁ10.65.12 Aṣṭaka 8.2.11.2Anuvāka 10.5.84
-
Ṛk 13
पावी॑रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिंधु॒रापः॑ समु॒द्रियः॑ ।
विश्वे॑ दे॒वासः॑ शृणव॒न्वचां॑सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ॥पावीरवी तन्यतुर् एकपाद् अजो दिवो धर्ता सिन्धुर् आपः समुद्रियः |
विश्वे देवासः शृणवन् वचांसि मे सरस्वती सह धीभिः पुरन्ध्या ||pā́vīravī tanyatúrékapādajó divó dhartā́ síndhurā́paḥ samudríyaḥ ǀ
víśve devā́saḥ śṛṇavanvácāṃsi me sárasvatī sahá dhībhíḥ púraṃdhyā ǁpāvīravī tanyatur ekapād ajo divo dhartā sindhur āpaḥ samudriyaḥ |
viśve devāsaḥ śṛṇavan vacāṃsi me sarasvatī saha dhībhiḥ purandhyā ||पावी॑रवी । त॒न्य॒तुः । एक॑ऽपात् । अ॒जः । दि॒वः । ध॒र्ता । सिन्धुः॑ । आपः॑ । स॒मु॒द्रियः॑ ।
विश्वे॑ । दे॒वासः॑ । शृ॒ण॒व॒न् । वचां॑सि । मे॒ । सर॑स्वती । स॒ह । धी॒भिः । पुर॑म्ऽध्या ॥पावीरवी । तन्यतुः । एकऽपात् । अजः । दिवः । धर्ता । सिन्धुः । आपः । समुद्रियः ।
विश्वे । देवासः । शृणवन् । वचांसि । मे । सरस्वती । सह । धीभिः । पुरम्ऽध्या ॥pā́vīravī ǀ tanyatúḥ ǀ éka-pāt ǀ ajáḥ ǀ diváḥ ǀ dhartā́ ǀ síndhuḥ ǀ ā́paḥ ǀ samudríyaḥ ǀ
víśve ǀ devā́saḥ ǀ śṛṇavan ǀ vácāṃsi ǀ me ǀ sárasvatī ǀ sahá ǀ dhībhíḥ ǀ púram-dhyā ǁpāvīravī ǀ tanyatuḥ ǀ eka-pāt ǀ ajaḥ ǀ divaḥ ǀ dhartā ǀ sindhuḥ ǀ āpaḥ ǀ samudriyaḥ ǀ
viśve ǀ devāsaḥ ǀ śṛṇavan ǀ vacāṃsi ǀ me ǀ sarasvatī ǀ saha ǀ dhībhiḥ ǀ puram-dhyā ǁ10.65.13 Aṣṭaka 8.2.11.3Anuvāka 10.5.85
-
Ṛk 14
विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।
रा॒ति॒षाचो॑ अभि॒षाचः॑ स्व॒र्विदः॒ स्व१॒॑र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ॥विश्वे देवाः सह धीभिः पुरन्ध्या मनोर् यजत्रा अमृता ऋतज्ञाः |
रातिषाचो अभिषाचः स्वर्विदः स्वर् गिरो ब्रह्म सूक्तं जुषेरत ||víśve devā́ḥ sahá dhībhíḥ púraṃdhyā mánoryájatrā amṛ́tā ṛtajñā́ḥ ǀ
rātiṣā́co abhiṣā́caḥ svarvídaḥ svárgíro bráhma sūktám juṣerata ǁviśve devāḥ saha dhībhiḥ purandhyā manor yajatrā amṛtā ṛtajñāḥ |
rātiṣāco abhiṣācaḥ svarvidaḥ svar giro brahma sūktaṃ juṣerata ||विश्वे॑ । दे॒वाः । स॒ह । धी॒भिः । पुर॑म्ऽध्या । मनोः॑ । यज॑त्राः । अ॒मृताः॑ । ऋ॒त॒ऽज्ञाः ।
रा॒ति॒ऽसाचः॑ । अ॒भि॒ऽसाचः॑ । स्वः॒ऽविदः॑ । स्वः॑ । गिरः॑ । ब्रह्म॑ । सु॒ऽउ॒क्तम् । जु॒षे॒र॒त॒ ॥विश्वे । देवाः । सह । धीभिः । पुरम्ऽध्या । मनोः । यजत्राः । अमृताः । ऋतऽज्ञाः ।
रातिऽसाचः । अभिऽसाचः । स्वःऽविदः । स्वः । गिरः । ब्रह्म । सुऽउक्तम् । जुषेरत ॥víśve ǀ devā́ḥ ǀ sahá ǀ dhībhíḥ ǀ púram-dhyā ǀ mánoḥ ǀ yájatrāḥ ǀ amṛ́tāḥ ǀ ṛta-jñā́ḥ ǀ
rāti-sā́caḥ ǀ abhi-sā́caḥ ǀ svaḥ-vídaḥ ǀ sváḥ ǀ gíraḥ ǀ bráhma ǀ su-uktám ǀ juṣerata ǁviśve ǀ devāḥ ǀ saha ǀ dhībhiḥ ǀ puram-dhyā ǀ manoḥ ǀ yajatrāḥ ǀ amṛtāḥ ǀ ṛta-jñāḥ ǀ
rāti-sācaḥ ǀ abhi-sācaḥ ǀ svaḥ-vidaḥ ǀ svaḥ ǀ giraḥ ǀ brahma ǀ su-uktam ǀ juṣerata ǁ10.65.14 Aṣṭaka 8.2.11.4Anuvāka 10.5.86
-
Ṛk 15
दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववंदे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।
ते नो॑ रासंतामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः |
ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ||devā́nvásiṣṭho amṛ́tānvavande yé víśvā bhúvanābhí pratasthúḥ ǀ
té no rāsantāmurugāyámadyá yūyám pāta svastíbhiḥ sádā naḥ ǁdevān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ |
te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ ||दे॒वान् । वसि॑ष्ठः । अ॒मृता॑न् । व॒व॒न्दे॒ । ये । विश्वा॑ । भुव॑ना । अ॒भि । प्र॒ऽत॒स्थुः ।
ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥देवान् । वसिष्ठः । अमृतान् । ववन्दे । ये । विश्वा । भुवना । अभि । प्रऽतस्थुः ।
ते । नः । रासन्ताम् । उरुऽगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥devā́n ǀ vásiṣṭhaḥ ǀ amṛ́tān ǀ vavande ǀ yé ǀ víśvā ǀ bhúvanā ǀ abhí ǀ pra-tasthúḥ ǀ
té ǀ naḥ ǀ rāsantām ǀ uru-gāyám ǀ adyá ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁdevān ǀ vasiṣṭhaḥ ǀ amṛtān ǀ vavande ǀ ye ǀ viśvā ǀ bhuvanā ǀ abhi ǀ pra-tasthuḥ ǀ
te ǀ naḥ ǀ rāsantām ǀ uru-gāyam ǀ adya ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ10.65.15 Aṣṭaka 8.2.11.5Anuvāka 10.5.87
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.