Sūkta 142
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- 1, 2: Jaritṛ Śārṅga; 3, 4: Droṇa Śārṅga; 5, 6: Sārisṛkkva Śārṅga; 7, 8: Stambamitra Śārṅga
- Chandas छन्दस्
- Triṣṭubh, Jagatī, Anuṣṭubh
Metres by ṛk
1st set of styles triṣṭup (3, 4, 6); nicṛjjagatī (1, 2); svarāḍārcītriṣṭup (5); nicṛdanuṣṭup (7); anuṣṭup (8)
2nd set of styles triṣṭubh (3-6); jagatī (1, 2); anuṣṭubh (7, 8)
-
Ṛk 1
अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्यं॑ ।
भ॒द्रं हि शर्म॑ त्रि॒वरू॑थ॒मस्ति॑ त आ॒रे हिंसा॑ना॒मप॑ दि॒द्युमा कृ॑धि ॥अयम् अग्ने जरिता त्वे अभूद् अपि सहसः सूनो नह्य् अन्यद् अस्त्य् आप्यम् |
भद्रं हि शर्म त्रिवरूथम् अस्ति त आरे हिंसानाम् अप दिद्युम् आ कृधि ||ayámagne jaritā́ tvé abhūdápi sáhasaḥ sūno nahyányádástyā́pyam ǀ
bhadrám hí śárma trivárūthamásti ta āré híṃsānāmápa didyúmā́ kṛdhi ǁayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam |
bhadraṃ hi śarma trivarūtham asti ta āre hiṃsānām apa didyum ā kṛdhi ||अ॒यम् । अ॒ग्ने॒ । ज॒रि॒ता । त्वे इति॑ । अ॒भू॒त् । अपि॑ । सह॑सः । सू॒नो॒ इति॑ । न॒हि । अ॒न्यत् । अस्ति॑ । आप्य॑म् ।
भ॒द्रम् । हि । शर्म॑ । त्रि॒ऽवरू॑थम् । अस्ति॑ । ते॒ । आ॒रे । हिंसा॑नाम् । अप॑ । दि॒द्युम् । आ । कृ॒धि॒ ॥अयम् । अग्ने । जरिता । त्वे इति । अभूत् । अपि । सहसः । सूनो इति । नहि । अन्यत् । अस्ति । आप्यम् ।
भद्रम् । हि । शर्म । त्रिऽवरूथम् । अस्ति । ते । आरे । हिंसानाम् । अप । दिद्युम् । आ । कृधि ॥ayám ǀ agne ǀ jaritā́ ǀ tvé íti ǀ abhūt ǀ ápi ǀ sáhasaḥ ǀ sūno íti ǀ nahí ǀ anyát ǀ ásti ǀ ā́pyam ǀ
bhadrám ǀ hí ǀ śárma ǀ tri-várūtham ǀ ásti ǀ te ǀ āré ǀ híṃsānām ǀ ápa ǀ didyúm ǀ ā́ ǀ kṛdhi ǁayam ǀ agne ǀ jaritā ǀ tve iti ǀ abhūt ǀ api ǀ sahasaḥ ǀ sūno iti ǀ nahi ǀ anyat ǀ asti ǀ āpyam ǀ
bhadram ǀ hi ǀ śarma ǀ tri-varūtham ǀ asti ǀ te ǀ āre ǀ hiṃsānām ǀ apa ǀ didyum ǀ ā ǀ kṛdhi ǁ10.142.1 Aṣṭaka 8.7.30.1Anuvāka 10.11.88
-
Ṛk 2
प्र॒वत्ते॑ अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृं॑जसे ।
प्र सप्त॑यः॒ प्र स॑निषंत नो॒ धियः॑ पु॒रश्च॑रंति पशु॒पा इ॑व॒ त्मना॑ ॥प्रवत् ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्य् ऋञ्जसे |
प्र सप्तयः प्र सनिषन्त नो धियः पुरश् चरन्ति पशुपा इव त्मना ||pravátte agne jánimā pitūyatáḥ sācī́va víśvā bhúvanā nyṛ́ñjase ǀ
prá sáptayaḥ prá saniṣanta no dhíyaḥ puráścaranti paśupā́ iva tmánā ǁpravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase |
pra saptayaḥ pra saniṣanta no dhiyaḥ puraś caranti paśupā iva tmanā ||प्र॒ऽवत् । ते॒ । अ॒ग्ने॒ । जनि॑म । पि॒तु॒ऽय॒तः । सा॒चीऽइ॑व । विश्वा॑ । भुव॑ना । नि । ऋ॒ञ्ज॒से॒ ।
प्र । सप्त॑यः । प्र । स॒नि॒ष॒न्त॒ । नः॒ । धियः॑ । पु॒रः । च॒र॒न्ति॒ । प॒शु॒पाःऽइ॑व । त्मना॑ ॥प्रऽवत् । ते । अग्ने । जनिम । पितुऽयतः । साचीऽइव । विश्वा । भुवना । नि । ऋञ्जसे ।
प्र । सप्तयः । प्र । सनिषन्त । नः । धियः । पुरः । चरन्ति । पशुपाःऽइव । त्मना ॥pra-vát ǀ te ǀ agne ǀ jánima ǀ pitu-yatáḥ ǀ sācī́-iva ǀ víśvā ǀ bhúvanā ǀ ní ǀ ṛñjase ǀ
prá ǀ sáptayaḥ ǀ prá ǀ saniṣanta ǀ naḥ ǀ dhíyaḥ ǀ puráḥ ǀ caranti ǀ paśupā́ḥ-iva ǀ tmánā ǁpra-vat ǀ te ǀ agne ǀ janima ǀ pitu-yataḥ ǀ sācī-iva ǀ viśvā ǀ bhuvanā ǀ ni ǀ ṛñjase ǀ
pra ǀ saptayaḥ ǀ pra ǀ saniṣanta ǀ naḥ ǀ dhiyaḥ ǀ puraḥ ǀ caranti ǀ paśupāḥ-iva ǀ tmanā ǁ10.142.2 Aṣṭaka 8.7.30.2Anuvāka 10.11.89
-
Ṛk 3
उ॒त वा उ॒ परि॑ वृणक्षि॒ बप्स॑द्ब॒होर॑ग्न॒ उल॑पस्य स्वधावः ।
उ॒त खि॒ल्या उ॒र्वरा॑णां भवंति॒ मा ते॑ हे॒तिं तवि॑षीं चुक्रुधाम ॥उत वा उ परि वृणक्षि बप्सद् बहोर् अग्न उलपस्य स्वधावः |
उत खिल्या उर्वराणाम् भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ||utá vā́ u pári vṛṇakṣi bápsadbahóragna úlapasya svadhāvaḥ ǀ
utá khilyā́ urvárāṇām bhavanti mā́ te hetím táviṣīm cukrudhāma ǁuta vā u pari vṛṇakṣi bapsad bahor agna ulapasya svadhāvaḥ |
uta khilyā urvarāṇām bhavanti mā te hetiṃ taviṣīṃ cukrudhāma ||उ॒त । वा॒ । ऊं॒ इति॑ । परि॑ । वृ॒ण॒क्षि॒ । बप्स॑त् । ब॒होः । अ॒ग्ने॒ । उल॑पस्य । स्व॒धा॒ऽवः॒ ।
उ॒त । खि॒ल्याः । उ॒र्वरा॑णाम् । भ॒व॒न्ति॒ । मा । ते॒ । हे॒तिम् । तवि॑षीम् । चु॒क्रु॒धा॒म॒ ॥उत । वा । ऊं इति । परि । वृणक्षि । बप्सत् । बहोः । अग्ने । उलपस्य । स्वधाऽवः ।
उत । खिल्याः । उर्वराणाम् । भवन्ति । मा । ते । हेतिम् । तविषीम् । चुक्रुधाम ॥utá ǀ vā ǀ ūṃ íti ǀ pári ǀ vṛṇakṣi ǀ bápsat ǀ bahóḥ ǀ agne ǀ úlapasya ǀ svadhā-vaḥ ǀ
utá ǀ khilyā́ḥ ǀ urvárāṇām ǀ bhavanti ǀ mā́ ǀ te ǀ hetím ǀ táviṣīm ǀ cukrudhāma ǁuta ǀ vā ǀ ūṃ iti ǀ pari ǀ vṛṇakṣi ǀ bapsat ǀ bahoḥ ǀ agne ǀ ulapasya ǀ svadhā-vaḥ ǀ
uta ǀ khilyāḥ ǀ urvarāṇām ǀ bhavanti ǀ mā ǀ te ǀ hetim ǀ taviṣīm ǀ cukrudhāma ǁ10.142.3 Aṣṭaka 8.7.30.3Anuvāka 10.11.90
-
Ṛk 4
यदु॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त्पृथ॑गेषि प्रग॒र्धिनी॑व॒ सेना॑ ।
य॒दा ते॒ वातो॑ अनु॒वाति॑ शो॒चिर्वप्ते॑व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ॥यद् उद्वतो निवतो यासि बप्सत् पृथग् एषि प्रगर्धिनीव सेना |
यदा ते वातो अनुवाति शोचिर् वप्तेव श्मश्रु वपसि प्र भूम ||yádudváto niváto yā́si bápsatpṛ́thageṣi pragardhínīva sénā ǀ
yadā́ te vā́to anuvā́ti śocírvápteva śmáśru vapasi prá bhū́ma ǁyad udvato nivato yāsi bapsat pṛthag eṣi pragardhinīva senā |
yadā te vāto anuvāti śocir vapteva śmaśru vapasi pra bhūma ||यत् । उ॒त्ऽवतः॑ । नि॒ऽवतः॑ । यासि॑ । बप्स॑त् । पृथ॑क् । ए॒षि॒ । प्र॒ग॒र्धिनी॑ऽइव । सेना॑ ।
य॒दा । ते॒ । वातः॑ । अ॒नु॒ऽवाति॑ । शो॒चिः । वप्ता॑ऽइव । श्मश्रु॑ । व॒प॒सि॒ । प्र । भूम॑ ॥यत् । उत्ऽवतः । निऽवतः । यासि । बप्सत् । पृथक् । एषि । प्रगर्धिनीऽइव । सेना ।
यदा । ते । वातः । अनुऽवाति । शोचिः । वप्ताऽइव । श्मश्रु । वपसि । प्र । भूम ॥yát ǀ ut-vátaḥ ǀ ni-vátaḥ ǀ yā́si ǀ bápsat ǀ pṛ́thak ǀ eṣi ǀ pragardhínī-iva ǀ sénā ǀ
yadā́ ǀ te ǀ vā́taḥ ǀ anu-vā́ti ǀ śocíḥ ǀ váptā-iva ǀ śmáśru ǀ vapasi ǀ prá ǀ bhū́ma ǁyat ǀ ut-vataḥ ǀ ni-vataḥ ǀ yāsi ǀ bapsat ǀ pṛthak ǀ eṣi ǀ pragardhinī-iva ǀ senā ǀ
yadā ǀ te ǀ vātaḥ ǀ anu-vāti ǀ śociḥ ǀ vaptā-iva ǀ śmaśru ǀ vapasi ǀ pra ǀ bhūma ǁ10.142.4 Aṣṭaka 8.7.30.4Anuvāka 10.11.91
-
Ṛk 5
प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं॑ नि॒यानं॑ ब॒हवो॒ रथा॑सः ।
बा॒हू यद॑ग्ने अनु॒मर्मृ॑जानो॒ न्य॑ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमिं॑ ॥प्रत्य् अस्य श्रेणयो ददृश्र एकं नियानम् बहवो रथासः |
बाहू यद् अग्ने अनुमर्मृजानो न्यङ्ङ् उत्तानाम् अन्वेषि भूमिम् ||prátyasya śréṇayo dadṛśra ékam niyā́nam bahávo ráthāsaḥ ǀ
bāhū́ yádagne anumármṛjāno nyáṅṅuttānā́manvéṣi bhū́mim ǁpraty asya śreṇayo dadṛśra ekaṃ niyānam bahavo rathāsaḥ |
bāhū yad agne anumarmṛjāno nyaṅṅ uttānām anveṣi bhūmim ||प्रति॑ । अ॒स्य॒ । श्रेण॑यः । द॒दृ॒श्रे॒ । एक॑म् । नि॒ऽयान॑म् । ब॒हवः॑ । रथा॑सः ।
बा॒हू इति॑ । यत् । अ॒ग्ने॒ । अ॒नु॒ऽमर्मृ॑जानः । न्य॑ङ् । उ॒त्ता॒नाम् । अ॒नु॒ऽएषि॑ । भूमि॑म् ॥प्रति । अस्य । श्रेणयः । ददृश्रे । एकम् । निऽयानम् । बहवः । रथासः ।
बाहू इति । यत् । अग्ने । अनुऽमर्मृजानः । न्यङ् । उत्तानाम् । अनुऽएषि । भूमिम् ॥práti ǀ asya ǀ śréṇayaḥ ǀ dadṛśre ǀ ékam ǀ ni-yā́nam ǀ bahávaḥ ǀ ráthāsaḥ ǀ
bāhū́ íti ǀ yát ǀ agne ǀ anu-mármṛjānaḥ ǀ nyáṅ ǀ uttānā́m ǀ anu-éṣi ǀ bhū́mim ǁprati ǀ asya ǀ śreṇayaḥ ǀ dadṛśre ǀ ekam ǀ ni-yānam ǀ bahavaḥ ǀ rathāsaḥ ǀ
bāhū iti ǀ yat ǀ agne ǀ anu-marmṛjānaḥ ǀ nyaṅ ǀ uttānām ǀ anu-eṣi ǀ bhūmim ǁ10.142.5 Aṣṭaka 8.7.30.5Anuvāka 10.11.92
-
Ṛk 6
उत्ते॒ शुष्मा॑ जिहता॒मुत्ते॑ अ॒र्चिरुत्ते॑ अग्ने शशमा॒नस्य॒ वाजाः॑ ।
उच्छ्वं॑चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदंतु ॥उत् ते शुष्मा जिहताम् उत् ते अर्चिर् उत् ते अग्ने शशमानस्य वाजाः |
उच् छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ||útte śúṣmā jihatāmútte arcírútte agne śaśamānásya vā́jāḥ ǀ
úcchvañcasva ní nama várdhamāna ā́ tvādyá víśve vásavaḥ sadantu ǁut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ |
uc chvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu ||उत् । ते॒ । शुष्माः॑ । जि॒ह॒ता॒म् । उत् । ते॒ । अ॒र्चिः । उत् । ते॒ । अ॒ग्ने॒ । श॒श॒मा॒नस्य॑ । वाजाः॑ ।
उत् । श्व॒ञ्च॒स्व॒ । नि । न॒म॒ । वर्ध॑मानः । आ । त्वा॒ । अ॒द्य । विश्वे॑ । वस॑वः । स॒द॒न्तु॒ ॥उत् । ते । शुष्माः । जिहताम् । उत् । ते । अर्चिः । उत् । ते । अग्ने । शशमानस्य । वाजाः ।
उत् । श्वञ्चस्व । नि । नम । वर्धमानः । आ । त्वा । अद्य । विश्वे । वसवः । सदन्तु ॥út ǀ te ǀ śúṣmāḥ ǀ jihatām ǀ út ǀ te ǀ arcíḥ ǀ út ǀ te ǀ agne ǀ śaśamānásya ǀ vā́jāḥ ǀ
út ǀ śvañcasva ǀ ní ǀ nama ǀ várdhamānaḥ ǀ ā́ ǀ tvā ǀ adyá ǀ víśve ǀ vásavaḥ ǀ sadantu ǁut ǀ te ǀ śuṣmāḥ ǀ jihatām ǀ ut ǀ te ǀ arciḥ ǀ ut ǀ te ǀ agne ǀ śaśamānasya ǀ vājāḥ ǀ
ut ǀ śvañcasva ǀ ni ǀ nama ǀ vardhamānaḥ ǀ ā ǀ tvā ǀ adya ǀ viśve ǀ vasavaḥ ǀ sadantu ǁ10.142.6 Aṣṭaka 8.7.30.6Anuvāka 10.11.93
-
Ṛk 7
अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नं ।
अ॒न्यं कृ॑णुष्वे॒तः पंथां॒ तेन॑ याहि॒ वशाँ॒ अनु॑ ॥अपाम् इदं न्ययनं समुद्रस्य निवेशनम् |
अन्यं कृणुष्वेतः पन्थां तेन याहि वशां अनु ||apā́midám nyáyanam samudrásya nivéśanam ǀ
anyám kṛṇuṣvetáḥ pánthām téna yāhi váśām̐ ánu ǁapām idaṃ nyayanaṃ samudrasya niveśanam |
anyaṃ kṛṇuṣvetaḥ panthāṃ tena yāhi vaśāṃ anu ||अ॒पाम् । इ॒दम् । नि॒ऽअय॑नम् । स॒मु॒द्रस्य॑ । नि॒ऽवेश॑नम् ।
अ॒न्यम् । कृ॒णु॒ष्व॒ । इ॒तः । पन्था॑म् । तेन॑ । या॒हि॒ । वशा॑न् । अनु॑ ॥अपाम् । इदम् । निऽअयनम् । समुद्रस्य । निऽवेशनम् ।
अन्यम् । कृणुष्व । इतः । पन्थाम् । तेन । याहि । वशान् । अनु ॥apā́m ǀ idám ǀ ni-áyanam ǀ samudrásya ǀ ni-véśanam ǀ
anyám ǀ kṛṇuṣva ǀ itáḥ ǀ pánthām ǀ téna ǀ yāhi ǀ váśān ǀ ánu ǁapām ǀ idam ǀ ni-ayanam ǀ samudrasya ǀ ni-veśanam ǀ
anyam ǀ kṛṇuṣva ǀ itaḥ ǀ panthām ǀ tena ǀ yāhi ǀ vaśān ǀ anu ǁ10.142.7 Aṣṭaka 8.7.30.7Anuvāka 10.11.94
-
Ṛk 8
आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहंतु पु॒ष्पिणीः॑ ।
ह्र॒दाश्च॑ पुं॒डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः |
ह्रदाश् च पुण्डरीकाणि समुद्रस्य गृहा इमे ||ā́yane te parā́yaṇe dū́rvā rohantu puṣpíṇīḥ ǀ
hradā́śca puṇḍárīkāṇi samudrásya gṛhā́ imé ǁāyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ |
hradāś ca puṇḍarīkāṇi samudrasya gṛhā ime ||आ॒ऽअय॑ने । ते॒ । प॒रा॒ऽअय॑ने । दूर्वाः॑ । रो॒ह॒न्तु॒ । पु॒ष्पिणीः॑ ।
ह्र॒दाः । च॒ । पु॒ण्डरी॑काणि । स॒मु॒द्रस्य॑ । गृ॒हाः । इ॒मे ॥आऽअयने । ते । पराऽअयने । दूर्वाः । रोहन्तु । पुष्पिणीः ।
ह्रदाः । च । पुण्डरीकाणि । समुद्रस्य । गृहाः । इमे ॥ā-áyane ǀ te ǀ parā-áyane ǀ dū́rvāḥ ǀ rohantu ǀ puṣpíṇīḥ ǀ
hradā́ḥ ǀ ca ǀ puṇḍárīkāṇi ǀ samudrásya ǀ gṛhā́ḥ ǀ imé ǁā-ayane ǀ te ǀ parā-ayane ǀ dūrvāḥ ǀ rohantu ǀ puṣpiṇīḥ ǀ
hradāḥ ǀ ca ǀ puṇḍarīkāṇi ǀ samudrasya ǀ gṛhāḥ ǀ ime ǁ10.142.8 Aṣṭaka 8.7.30.8Anuvāka 10.11.95
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.