Ṛgveda · Maṇḍala 10

Sūkta 96

Haristutiḥ · Baru Āṅgirasa Or Sarvahari Aindra · 13 ṛks

Link
Devatā देवता
Haristutiḥ
Ṛṣi ऋषि
Baru Āṅgirasa Or Sarvahari Aindra
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles nicṛjjagatī (2-4, 9, 10); jagatī (1, 7, 8); triṣṭup (12, 13); svarāḍārcījagatī (5); virāḍjagatī (6); bhurigārcījagatī (11)

2nd set of styles jagatī (1-11); triṣṭubh (12, 13)

  1. Ṛk 1

    प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मदं॑ ।
    घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशंतु॒ हरि॑वर्पसं॒ गिरः॑ ॥

    प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतम् मदम् |
    घृतं न यो हरिभिश् चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ||

    prá te mahé vidáthe śaṃsiṣam hárī prá te vanve vanúṣo haryatám mádam ǀ
    ghṛtám ná yó háribhiścā́ru sécata ā́ tvā viśantu hárivarpasam gíraḥ ǁ

    pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryatam madam |
    ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ ||

    प्र । ते॒ । म॒हे । वि॒दथे॑ । शं॒सि॒ष॒म् । हरी॒ इति॑ । प्र । ते॒ । व॒न्वे॒ । व॒नुषः॑ । ह॒र्य॒तम् । मद॑म् ।
    घृ॒तम् । न । यः । हरि॑ऽभिः । चारु॑ । सेच॑ते । आ । त्वा॒ । वि॒श॒न्तु॒ । हरि॑ऽवर्पसम् । गिरः॑ ॥

    प्र । ते । महे । विदथे । शंसिषम् । हरी इति । प्र । ते । वन्वे । वनुषः । हर्यतम् । मदम् ।
    घृतम् । न । यः । हरिऽभिः । चारु । सेचते । आ । त्वा । विशन्तु । हरिऽवर्पसम् । गिरः ॥

    prá ǀ te ǀ mahé ǀ vidáthe ǀ śaṃsiṣam ǀ hárī íti ǀ prá ǀ te ǀ vanve ǀ vanúṣaḥ ǀ haryatám ǀ mádam ǀ
    ghṛtám ǀ ná ǀ yáḥ ǀ hári-bhiḥ ǀ cā́ru ǀ sécate ǀ ā́ ǀ tvā ǀ viśantu ǀ hári-varpasam ǀ gíraḥ ǁ

    pra ǀ te ǀ mahe ǀ vidathe ǀ śaṃsiṣam ǀ harī iti ǀ pra ǀ te ǀ vanve ǀ vanuṣaḥ ǀ haryatam ǀ madam ǀ
    ghṛtam ǀ na ǀ yaḥ ǀ hari-bhiḥ ǀ cāru ǀ secate ǀ ā ǀ tvā ǀ viśantu ǀ hari-varpasam ǀ giraḥ ǁ

    10.96.1 Aṣṭaka 8.5.5.1Anuvāka 10.8.78

  2. Ṛk 2

    हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वंतो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ ।
    आ यं पृ॒णंति॒ हरि॑भि॒र्न धे॒नव॒ इंद्रा॑य शू॒षं हरि॑वंतमर्चत ॥

    हरिं हि योनिम् अभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः |
    आ यम् पृणन्ति हरिभिर् न धेनव इन्द्राय शूषं हरिवन्तम् अर्चत ||

    hárim hí yónimabhí yé samásvaranhinvánto hárī divyám yáthā sádaḥ ǀ
    ā́ yám pṛṇánti háribhirná dhenáva índrāya śūṣám hárivantamarcata ǁ

    hariṃ hi yonim abhi ye samasvaran hinvanto harī divyaṃ yathā sadaḥ |
    ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṃ harivantam arcata ||

    हरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्तः॑ । हरी॒ इति॑ । दि॒व्यम् । यथा॑ । सदः॑ ।
    आ । यम् । पृ॒णन्ति॑ । हरि॑ऽभिः । न । धे॒नवः॑ । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् । अ॒र्च॒त॒ ॥

    हरिम् । हि । योनिम् । अभि । ये । सम्ऽअस्वरन् । हिन्वन्तः । हरी इति । दिव्यम् । यथा । सदः ।
    आ । यम् । पृणन्ति । हरिऽभिः । न । धेनवः । इन्द्राय । शूषम् । हरिऽवन्तम् । अर्चत ॥

    hárim ǀ hí ǀ yónim ǀ abhí ǀ yé ǀ sam-ásvaran ǀ hinvántaḥ ǀ hárī íti ǀ divyám ǀ yáthā ǀ sádaḥ ǀ
    ā́ ǀ yám ǀ pṛṇánti ǀ hári-bhiḥ ǀ ná ǀ dhenávaḥ ǀ índrāya ǀ śūṣám ǀ hári-vantam ǀ arcata ǁ

    harim ǀ hi ǀ yonim ǀ abhi ǀ ye ǀ sam-asvaran ǀ hinvantaḥ ǀ harī iti ǀ divyam ǀ yathā ǀ sadaḥ ǀ
    ā ǀ yam ǀ pṛṇanti ǀ hari-bhiḥ ǀ na ǀ dhenavaḥ ǀ indrāya ǀ śūṣam ǀ hari-vantam ǀ arcata ǁ

    10.96.2 Aṣṭaka 8.5.5.2Anuvāka 10.8.79

  3. Ṛk 3

    सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः ।
    द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इंद्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥

    सो अस्य वज्रो हरितो य आयसो हरिर् निकामो हरिर् आ गभस्त्योः |
    द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ||

    só asya vájro hárito yá āyasó hárirníkāmo hárirā́ gábhastyoḥ ǀ
    dyumnī́ suśipró hárimanyusāyaka índre ní rūpā́ háritā mimikṣire ǁ

    so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ |
    dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire ||

    सः । अ॒स्य॒ । वज्रः॑ । हरि॑तः । यः । आ॒य॒सः । हरिः॑ । निऽका॑मः । हरिः॑ । आ । गभ॑स्त्योः ।
    द्यु॒म्नी । सु॒ऽशि॒प्रः । हरि॑मन्युऽसायकः । इन्द्रे॑ । नि । रू॒पा । हरि॑ता । मि॒मि॒क्षि॒रे॒ ॥

    सः । अस्य । वज्रः । हरितः । यः । आयसः । हरिः । निऽकामः । हरिः । आ । गभस्त्योः ।
    द्युम्नी । सुऽशिप्रः । हरिमन्युऽसायकः । इन्द्रे । नि । रूपा । हरिता । मिमिक्षिरे ॥

    sáḥ ǀ asya ǀ vájraḥ ǀ háritaḥ ǀ yáḥ ǀ āyasáḥ ǀ háriḥ ǀ ní-kāmaḥ ǀ háriḥ ǀ ā́ ǀ gábhastyoḥ ǀ
    dyumnī́ ǀ su-śipráḥ ǀ hárimanyu-sāyakaḥ ǀ índre ǀ ní ǀ rūpā́ ǀ háritā ǀ mimikṣire ǁ

    saḥ ǀ asya ǀ vajraḥ ǀ haritaḥ ǀ yaḥ ǀ āyasaḥ ǀ hariḥ ǀ ni-kāmaḥ ǀ hariḥ ǀ ā ǀ gabhastyoḥ ǀ
    dyumnī ǀ su-śipraḥ ǀ harimanyu-sāyakaḥ ǀ indre ǀ ni ǀ rūpā ǀ haritā ǀ mimikṣire ǁ

    10.96.3 Aṣṭaka 8.5.5.3Anuvāka 10.8.80

  4. Ṛk 4

    दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ ।
    तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिंभ॒रः ॥

    दिवि न केतुर् अधि धायि हर्यतो विव्यचद् वज्रो हरितो न रंह्या |
    तुदद् अहिं हरिशिप्रो य आयसः सहस्रशोका अभवद् धरिम्भरः ||

    diví ná ketúrádhi dhāyi haryató vivyácadvájro hárito ná ráṃhyā ǀ
    tudádáhim háriśipro yá āyasáḥ sahásraśokā abhavaddharimbharáḥ ǁ

    divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā |
    tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavad dharimbharaḥ ||

    दि॒वि । न । के॒तुः । अधि॑ । धा॒यि॒ । ह॒र्य॒तः । वि॒व्यच॑त् । वज्रः॑ । हरि॑तः । न । रंह्या॑ ।
    तु॒दत् । अहि॑म् । हरि॑ऽशिप्रः । यः । आ॒य॒सः । स॒हस्र॑ऽशोकाः । अ॒भ॒व॒त् । ह॒रि॒म्ऽभ॒रः ॥

    दिवि । न । केतुः । अधि । धायि । हर्यतः । विव्यचत् । वज्रः । हरितः । न । रंह्या ।
    तुदत् । अहिम् । हरिऽशिप्रः । यः । आयसः । सहस्रऽशोकाः । अभवत् । हरिम्ऽभरः ॥

    diví ǀ ná ǀ ketúḥ ǀ ádhi ǀ dhāyi ǀ haryatáḥ ǀ vivyácat ǀ vájraḥ ǀ háritaḥ ǀ ná ǀ ráṃhyā ǀ
    tudát ǀ áhim ǀ hári-śipraḥ ǀ yáḥ ǀ āyasáḥ ǀ sahásra-śokāḥ ǀ abhavat ǀ harim-bharáḥ ǁ

    divi ǀ na ǀ ketuḥ ǀ adhi ǀ dhāyi ǀ haryataḥ ǀ vivyacat ǀ vajraḥ ǀ haritaḥ ǀ na ǀ raṃhyā ǀ
    tudat ǀ ahim ǀ hari-śipraḥ ǀ yaḥ ǀ āyasaḥ ǀ sahasra-śokāḥ ǀ abhavat ǀ harim-bharaḥ ǁ

    10.96.4 Aṣṭaka 8.5.5.4Anuvāka 10.8.81

  5. Ṛk 5

    त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिंद्र हरिकेश॒ यज्व॑भिः ।
    त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तं ॥

    त्वं-त्वम् अहर्यथा उपस्तुतः पूर्वेभिर् इन्द्र हरिकेश यज्वभिः |
    त्वं हर्यसि तव विश्वम् उक्थ्यम् असामि राधो हरिजात हर्यतम् ||

    tváṃtvamaharyathā úpastutaḥ pū́rvebhirindra harikeśa yájvabhiḥ ǀ
    tvám haryasi táva víśvamukthyámásāmi rā́dho harijāta haryatám ǁ

    tvaṃ-tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ |
    tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam ||

    त्वम्ऽत्व॑म् । अ॒ह॒र्य॒थाः॒ । उप॑ऽस्तुतः । पूर्वे॑भिः । इ॒न्द्र॒ । ह॒रि॒ऽके॒श॒ । यज्व॑ऽभिः ।
    त्वम् । ह॒र्य॒सि॒ । तव॑ । विश्व॑म् । उ॒क्थ्य॑म् । असा॑मि । राधः॑ । ह॒रि॒ऽजा॒त॒ । ह॒र्य॒तम् ॥

    त्वम्ऽत्वम् । अहर्यथाः । उपऽस्तुतः । पूर्वेभिः । इन्द्र । हरिऽकेश । यज्वऽभिः ।
    त्वम् । हर्यसि । तव । विश्वम् । उक्थ्यम् । असामि । राधः । हरिऽजात । हर्यतम् ॥

    tvám-tvam ǀ aharyathāḥ ǀ úpa-stutaḥ ǀ pū́rvebhiḥ ǀ indra ǀ hari-keśa ǀ yájva-bhiḥ ǀ
    tvám ǀ haryasi ǀ táva ǀ víśvam ǀ ukthyám ǀ ásāmi ǀ rā́dhaḥ ǀ hari-jāta ǀ haryatám ǁ

    tvam-tvam ǀ aharyathāḥ ǀ upa-stutaḥ ǀ pūrvebhiḥ ǀ indra ǀ hari-keśa ǀ yajva-bhiḥ ǀ
    tvam ǀ haryasi ǀ tava ǀ viśvam ǀ ukthyam ǀ asāmi ǀ rādhaḥ ǀ hari-jāta ǀ haryatam ǁ

    10.96.5 Aṣṭaka 8.5.5.5Anuvāka 10.8.82

  6. Ṛk 6

    ता व॒ज्रिणं॑ मं॒दिनं॒ स्तोम्यं॒ मद॒ इंद्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ ।
    पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इंद्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥

    ता वज्रिणम् मन्दिनं स्तोम्यम् मद इन्द्रं रथे वहतो हर्यता हरी |
    पुरूण्य् अस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ||

    tā́ vajríṇam mandínam stómyam máda índram ráthe vahato haryatā́ hárī ǀ
    purū́ṇyasmai sávanāni háryata índrāya sómā hárayo dadhanvire ǁ

    tā vajriṇam mandinaṃ stomyam mada indraṃ rathe vahato haryatā harī |
    purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire ||

    ता । व॒ज्रिण॑म् । म॒न्दिन॑म् । स्तोम्य॑म् । मदे॑ । इन्द्र॑म् । रथे॑ । व॒ह॒तः॒ । ह॒र्य॒ता । हरी॒ इति॑ ।
    पु॒रूणि॑ । अ॒स्मै॒ । सव॑नानि । हर्य॑ते । इन्द्रा॑य । सोमाः॑ । हर॑यः । द॒ध॒न्वि॒रे॒ ॥

    ता । वज्रिणम् । मन्दिनम् । स्तोम्यम् । मदे । इन्द्रम् । रथे । वहतः । हर्यता । हरी इति ।
    पुरूणि । अस्मै । सवनानि । हर्यते । इन्द्राय । सोमाः । हरयः । दधन्विरे ॥

    tā́ ǀ vajríṇam ǀ mandínam ǀ stómyam ǀ máde ǀ índram ǀ ráthe ǀ vahataḥ ǀ haryatā́ ǀ hárī íti ǀ
    purū́ṇi ǀ asmai ǀ sávanāni ǀ háryate ǀ índrāya ǀ sómāḥ ǀ hárayaḥ ǀ dadhanvire ǁ

    tā ǀ vajriṇam ǀ mandinam ǀ stomyam ǀ made ǀ indram ǀ rathe ǀ vahataḥ ǀ haryatā ǀ harī iti ǀ
    purūṇi ǀ asmai ǀ savanāni ǀ haryate ǀ indrāya ǀ somāḥ ǀ harayaḥ ǀ dadhanvire ǁ

    10.96.6 Aṣṭaka 8.5.6.1Anuvāka 10.8.83

  7. Ṛk 7

    अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा ।
    अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वंतमानशे ॥

    अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरी तुरा |
    अर्वद्भिर् यो हरिभिर् जोषम् ईयते सो अस्य कामं हरिवन्तम् आनशे ||

    áram kā́māya hárayo dadhanvire sthirā́ya hinvanhárayo hárī turā́ ǀ
    árvadbhiryó háribhirjóṣamī́yate só asya kā́mam hárivantamānaśe ǁ

    araṃ kāmāya harayo dadhanvire sthirāya hinvan harayo harī turā |
    arvadbhir yo haribhir joṣam īyate so asya kāmaṃ harivantam ānaśe ||

    अर॑म् । कामा॑य । हर॑यः । द॒ध॒न्वि॒रे॒ । स्थि॒राय॑ । हि॒न्व॒न् । हर॑यः । हरी॒ इति॑ । तु॒रा ।
    अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । जोष॑म् । ईय॑ते । सः । अ॒स्य॒ । काम॑म् । हरि॑ऽवन्तम् । आ॒न॒शे॒ ॥

    अरम् । कामाय । हरयः । दधन्विरे । स्थिराय । हिन्वन् । हरयः । हरी इति । तुरा ।
    अर्वत्ऽभिः । यः । हरिऽभिः । जोषम् । ईयते । सः । अस्य । कामम् । हरिऽवन्तम् । आनशे ॥

    áram ǀ kā́māya ǀ hárayaḥ ǀ dadhanvire ǀ sthirā́ya ǀ hinvan ǀ hárayaḥ ǀ hárī íti ǀ turā́ ǀ
    árvat-bhiḥ ǀ yáḥ ǀ hári-bhiḥ ǀ jóṣam ǀ ī́yate ǀ sáḥ ǀ asya ǀ kā́mam ǀ hári-vantam ǀ ānaśe ǁ

    aram ǀ kāmāya ǀ harayaḥ ǀ dadhanvire ǀ sthirāya ǀ hinvan ǀ harayaḥ ǀ harī iti ǀ turā ǀ
    arvat-bhiḥ ǀ yaḥ ǀ hari-bhiḥ ǀ joṣam ǀ īyate ǀ saḥ ǀ asya ǀ kāmam ǀ hari-vantam ǀ ānaśe ǁ

    10.96.7 Aṣṭaka 8.5.6.2Anuvāka 10.8.84

  8. Ṛk 8

    हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत ।
    अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥

    हरिश्मशारुर् हरिकेश आयसस् तुरस्पेये यो हरिपा अवर्धत |
    अर्वद्भिर् यो हरिभिर् वाजिनीवसुर् अति विश्वा दुरिता पारिषद् धरी ||

    háriśmaśārurhárikeśa āyasásturaspéye yó haripā́ ávardhata ǀ
    árvadbhiryó háribhirvājínīvasuráti víśvā duritā́ pā́riṣaddhárī ǁ

    hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata |
    arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣad dharī ||

    हरि॑ऽश्मशारुः । हरि॑ऽकेशः । आ॒य॒सः । तु॒रः॒ऽपेये॑ । यः । ह॒रि॒ऽपाः । अव॑र्धत ।
    अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । वा॒जिनी॑ऽवसुः । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । पारि॑षत् । हरी॒ इति॑ ॥

    हरिऽश्मशारुः । हरिऽकेशः । आयसः । तुरःऽपेये । यः । हरिऽपाः । अवर्धत ।
    अर्वत्ऽभिः । यः । हरिऽभिः । वाजिनीऽवसुः । अति । विश्वा । दुःऽइता । पारिषत् । हरी इति ॥

    hári-śmaśāruḥ ǀ hári-keśaḥ ǀ āyasáḥ ǀ turaḥ-péye ǀ yáḥ ǀ hari-pā́ḥ ǀ ávardhata ǀ
    árvat-bhiḥ ǀ yáḥ ǀ hári-bhiḥ ǀ vājínī-vasuḥ ǀ áti ǀ víśvā ǀ duḥ-itā́ ǀ pā́riṣat ǀ hárī íti ǁ

    hari-śmaśāruḥ ǀ hari-keśaḥ ǀ āyasaḥ ǀ turaḥ-peye ǀ yaḥ ǀ hari-pāḥ ǀ avardhata ǀ
    arvat-bhiḥ ǀ yaḥ ǀ hari-bhiḥ ǀ vājinī-vasuḥ ǀ ati ǀ viśvā ǀ duḥ-itā ǀ pāriṣat ǀ harī iti ǁ

    10.96.8 Aṣṭaka 8.5.6.3Anuvāka 10.8.85

  9. Ṛk 9

    स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः ।
    प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यांध॑सः ॥

    स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः |
    प्र यत् कृते चमसे मर्मृजद् धरी पीत्वा मदस्य हर्यतस्यान्धसः ||

    srúveva yásya háriṇī vipetátuḥ śípre vā́jāya háriṇī dávidhvataḥ ǀ
    prá yátkṛté camasé mármṛjaddhárī pītvā́ mádasya haryatásyā́ndhasaḥ ǁ

    sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ |
    pra yat kṛte camase marmṛjad dharī pītvā madasya haryatasyāndhasaḥ ||

    स्रुवा॑ऽइव । यस्य॑ । हरि॑णी॒ इति॑ । वि॒ऽपे॒ततुः॑ । शिप्रे॒ इति॑ । वाजा॑य । हरि॑णी॒ इति॑ । दवि॑ध्वतः ।
    प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ॑जत् । हरी॒ इति॑ । पी॒त्वा । मद॑स्य । ह॒र्य॒तस्य॑ । अन्ध॑सः ॥

    स्रुवाऽइव । यस्य । हरिणी इति । विऽपेततुः । शिप्रे इति । वाजाय । हरिणी इति । दविध्वतः ।
    प्र । यत् । कृते । चमसे । मर्मृजत् । हरी इति । पीत्वा । मदस्य । हर्यतस्य । अन्धसः ॥

    srúvā-iva ǀ yásya ǀ háriṇī íti ǀ vi-petátuḥ ǀ śípre íti ǀ vā́jāya ǀ háriṇī íti ǀ dávidhvataḥ ǀ
    prá ǀ yát ǀ kṛté ǀ camasé ǀ mármṛjat ǀ hárī íti ǀ pītvā́ ǀ mádasya ǀ haryatásya ǀ ándhasaḥ ǁ

    sruvā-iva ǀ yasya ǀ hariṇī iti ǀ vi-petatuḥ ǀ śipre iti ǀ vājāya ǀ hariṇī iti ǀ davidhvataḥ ǀ
    pra ǀ yat ǀ kṛte ǀ camase ǀ marmṛjat ǀ harī iti ǀ pītvā ǀ madasya ǀ haryatasya ǀ andhasaḥ ǁ

    10.96.9 Aṣṭaka 8.5.6.4Anuvāka 10.8.86

  10. Ṛk 10

    उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॒॑रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् ।
    म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ॥

    उत स्म सद्म हर्यतस्य पस्त्योर् अत्यो न वाजं हरिवां अचिक्रदत् |
    मही चिद् धि धिषणाहर्यद् ओजसा बृहद् वयो दधिषे हर्यतश् चिद् आ ||

    utá sma sádma haryatásya pastyórátyo ná vā́jam hárivām̐ acikradat ǀ
    mahī́ ciddhí dhiṣáṇā́haryadójasā bṛhádváyo dadhiṣe haryatáścidā́ ǁ

    uta sma sadma haryatasya pastyor atyo na vājaṃ harivāṃ acikradat |
    mahī cid dhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā ||

    उ॒त । स्म॒ । सद्म॑ । ह॒र्य॒तस्य॑ । प॒स्त्योः॑ । अत्यः॑ । न । वाज॑म् । हरि॑ऽवान् । अ॒चि॒क्र॒द॒त् ।
    म॒ही । चि॒त् । हि । धि॒षणा॑ । अह॑र्यत् । ओज॑सा । बृ॒हत् । वयः॑ । द॒धि॒षे॒ । ह॒र्य॒तः । चि॒त् । आ ॥

    उत । स्म । सद्म । हर्यतस्य । पस्त्योः । अत्यः । न । वाजम् । हरिऽवान् । अचिक्रदत् ।
    मही । चित् । हि । धिषणा । अहर्यत् । ओजसा । बृहत् । वयः । दधिषे । हर्यतः । चित् । आ ॥

    utá ǀ sma ǀ sádma ǀ haryatásya ǀ pastyóḥ ǀ átyaḥ ǀ ná ǀ vā́jam ǀ hári-vān ǀ acikradat ǀ
    mahī́ ǀ cit ǀ hí ǀ dhiṣáṇā ǀ áharyat ǀ ójasā ǀ bṛhát ǀ váyaḥ ǀ dadhiṣe ǀ haryatáḥ ǀ cit ǀ ā́ ǁ

    uta ǀ sma ǀ sadma ǀ haryatasya ǀ pastyoḥ ǀ atyaḥ ǀ na ǀ vājam ǀ hari-vān ǀ acikradat ǀ
    mahī ǀ cit ǀ hi ǀ dhiṣaṇā ǀ aharyat ǀ ojasā ǀ bṛhat ǀ vayaḥ ǀ dadhiṣe ǀ haryataḥ ǀ cit ǀ ā ǁ

    10.96.10 Aṣṭaka 8.5.6.5Anuvāka 10.8.87

  11. Ṛk 11

    आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यं ।
    प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥

    आ रोदसी हर्यमाणो महित्वा नव्यं-नव्यं हर्यसि मन्म नु प्रियम् |
    प्र पस्त्यम् असुर हर्यतं गोर् आविष् कृधि हरये सूर्याय ||

    ā́ ródasī háryamāṇo mahitvā́ návyaṃnavyam haryasi mánma nú priyám ǀ
    prá pastyámasura haryatám górāvíṣkṛdhi háraye sū́ryāya ǁ

    ā rodasī haryamāṇo mahitvā navyaṃ-navyaṃ haryasi manma nu priyam |
    pra pastyam asura haryataṃ gor āviṣ kṛdhi haraye sūryāya ||

    आ । रोद॑सी॒ इति॑ । हर्य॑माणः । म॒हि॒ऽत्वा । नव्य॑म्ऽनव्यम् । ह॒र्य॒सि॒ । मन्म॑ । नु । प्रि॒यम् ।
    प्र । प॒स्त्य॑म् । अ॒सु॒र॒ । ह॒र्य॒तम् । गोः । आ॒विः । कृ॒धि॒ । हर॑ये । सूर्या॑य ॥

    आ । रोदसी इति । हर्यमाणः । महिऽत्वा । नव्यम्ऽनव्यम् । हर्यसि । मन्म । नु । प्रियम् ।
    प्र । पस्त्यम् । असुर । हर्यतम् । गोः । आविः । कृधि । हरये । सूर्याय ॥

    ā́ ǀ ródasī íti ǀ háryamāṇaḥ ǀ mahi-tvā́ ǀ návyam-navyam ǀ haryasi ǀ mánma ǀ nú ǀ priyám ǀ
    prá ǀ pastyám ǀ asura ǀ haryatám ǀ góḥ ǀ āvíḥ ǀ kṛdhi ǀ háraye ǀ sū́ryāya ǁ

    ā ǀ rodasī iti ǀ haryamāṇaḥ ǀ mahi-tvā ǀ navyam-navyam ǀ haryasi ǀ manma ǀ nu ǀ priyam ǀ
    pra ǀ pastyam ǀ asura ǀ haryatam ǀ goḥ ǀ āviḥ ǀ kṛdhi ǀ haraye ǀ sūryāya ǁ

    10.96.11 Aṣṭaka 8.5.7.1Anuvāka 10.8.88

  12. Ṛk 12

    आ त्वा॑ ह॒र्यंतं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहंतु॒ हरि॑शिप्रमिंद्र ।
    पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिं ॥

    आ त्वा हर्यन्तम् प्रयुजो जनानां रथे वहन्तु हरिशिप्रम् इन्द्र |
    पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ||

    ā́ tvā haryántam prayújo jánānām ráthe vahantu háriśipramindra ǀ
    píbā yáthā prátibhṛtasya mádhvo háryanyajñám sadhamā́de dáśoṇim ǁ

    ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra |
    pibā yathā pratibhṛtasya madhvo haryan yajñaṃ sadhamāde daśoṇim ||

    आ । त्वा॒ । ह॒र्यन्त॑म् । प्र॒ऽयुजः॑ । जना॑नाम् । रथे॑ । व॒ह॒न्तु॒ । हरि॑ऽशिप्रम् । इ॒न्द्र॒ ।
    पिब॑ । यथा॑ । प्रति॑ऽभृतस्य । मध्वः॑ । हर्य॑न् । य॒ज्ञम् । स॒ध॒ऽमादे॑ । दश॑ऽओणिम् ॥

    आ । त्वा । हर्यन्तम् । प्रऽयुजः । जनानाम् । रथे । वहन्तु । हरिऽशिप्रम् । इन्द्र ।
    पिब । यथा । प्रतिऽभृतस्य । मध्वः । हर्यन् । यज्ञम् । सधऽमादे । दशऽओणिम् ॥

    ā́ ǀ tvā ǀ haryántam ǀ pra-yújaḥ ǀ jánānām ǀ ráthe ǀ vahantu ǀ hári-śipram ǀ indra ǀ
    píba ǀ yáthā ǀ práti-bhṛtasya ǀ mádhvaḥ ǀ háryan ǀ yajñám ǀ sadha-mā́de ǀ dáśa-oṇim ǁ

    ā ǀ tvā ǀ haryantam ǀ pra-yujaḥ ǀ janānām ǀ rathe ǀ vahantu ǀ hari-śipram ǀ indra ǀ
    piba ǀ yathā ǀ prati-bhṛtasya ǀ madhvaḥ ǀ haryan ǀ yajñam ǀ sadha-māde ǀ daśa-oṇim ǁ

    10.96.12 Aṣṭaka 8.5.7.2Anuvāka 10.8.89

  13. Ṛk 13

    अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते ।
    म॒म॒द्धि सोमं॒ मधु॑मंतमिंद्र स॒त्रा वृ॑षंज॒ठर॒ आ वृ॑षस्व ॥

    अपाः पूर्वेषां हरिवः सुतानाम् अथो इदं सवनं केवलं ते |
    ममद्धि सोमम् मधुमन्तम् इन्द्र सत्रा वृषञ् जठर आ वृषस्व ||

    ápāḥ pū́rveṣām harivaḥ sutā́nāmátho idám sávanam kévalam te ǀ
    mamaddhí sómam mádhumantamindra satrā́ vṛṣañjaṭhára ā́ vṛṣasva ǁ

    apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te |
    mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva ||

    अपाः॑ । पूर्वे॑षाम् । ह॒रि॒ऽवः॒ । सु॒ताना॑म् । अथो॒ इति॑ । इ॒दम् । सव॑नम् । केव॑लम् । ते॒ ।
    म॒म॒द्धि । सोम॑म् । मधु॑ऽमन्तम् । इ॒न्द्र॒ । स॒त्रा । वृ॒ष॒न् । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ ॥

    अपाः । पूर्वेषाम् । हरिऽवः । सुतानाम् । अथो इति । इदम् । सवनम् । केवलम् । ते ।
    ममद्धि । सोमम् । मधुऽमन्तम् । इन्द्र । सत्रा । वृषन् । जठरे । आ । वृषस्व ॥

    ápāḥ ǀ pū́rveṣām ǀ hari-vaḥ ǀ sutā́nām ǀ átho íti ǀ idám ǀ sávanam ǀ kévalam ǀ te ǀ
    mamaddhí ǀ sómam ǀ mádhu-mantam ǀ indra ǀ satrā́ ǀ vṛṣan ǀ jaṭháre ǀ ā́ ǀ vṛṣasva ǁ

    apāḥ ǀ pūrveṣām ǀ hari-vaḥ ǀ sutānām ǀ atho iti ǀ idam ǀ savanam ǀ kevalam ǀ te ǀ
    mamaddhi ǀ somam ǀ madhu-mantam ǀ indra ǀ satrā ǀ vṛṣan ǀ jaṭhare ǀ ā ǀ vṛṣasva ǁ

    10.96.13 Aṣṭaka 8.5.7.3Anuvāka 10.8.90

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.96 · Haristutiḥ

Interpretations

Ralph T. H. Griffith

Ṛk 1

In the great synod will I laud thy two Bay Steeds: I prize the sweet strong drink of thee the Warrior-God, His who pours lovely oil as ’twere with yellow drops. Let my songs enter thee whose form hath golden tints.

Ṛk 2

Ye who in concert sing unto the goldhued place, like Bay Steeds driving onward to the heavenly seat, For Indra laud ye strength allied with Tawny Steeds, laud him whom cows content as ’twere with yellow drops.

Ṛk 3

His is that thunderbolt, of iron, goldenhued, gold-coloured, very dear, and yellow in his arms; Bright with strong teeth, destroying with its tawny rage. In Indra are set fast all forms of golden hue.

Ṛk 4

As if a lovely ray were laid upon the sky, the golden thunderbolt spread out as in a race. That iron bolt with yellow jaw smote Ahi down. A thousand flames had he who bore the tawny-hued.

Ṛk 5

Thou, thou, when praised by men who sacrificed of old. hadst pleasure in their lauds, O Indra golden-haired. All that befits thy song of praise thou welcornest, the perfect pleasant gift, O Golden-hued from birth.

Ṛk 6

These two dear Bays bring hither Indra on his car, Thunder-armed, joyous, meet for laud, to drink his fill. Many libations flow for him who loveth them: to Indra have the gold-hued Soma juices run.

Ṛk 7

Tle gold-hued drops have flowed to gratify his wish: the yellow dro s have urged the swift Bays to the Strong. He who speeds on with Bay Steeds even as he lists hath satisfied his longing for the golden drops.

Ṛk 8

At the swift draught the Soma-drinker waxed in might, the Iron One with yellow beard and yellow hair. He, Lord of Tawny Coursers, Lord of fleet-foot Mares, will bear his Bay Steeds safely over all distress.

Ṛk 9

His yellow-coloured jaws, like ladles move apart, what time, for strength, he makes the yellow-tinted stir, When, while the bowl stands there, he grooms his Tawny Steeds, when he hath drunk strong drink, the sweet juice that he loves.

Ṛk 10

Yea, to the Dear One's seat in homes of heaven and earth the Bay Steeds' Lord hath whinnied like a horse for food. Then the great wish hath seized upon him mightily, and the Beloved One hath gained high power of life,

Ṛk 11

Thou, comprehending with thy might the earth and heaven, acceptest the dear hymn for ever new and new. O Asura, disclose thou and make visible the Cow's beloved home to the bright golden Sun.

Ṛk 12

O Indra, let the eager wishes of the folk bring thee, delightful, golden-visored, on thy car, That, pleased with sacrifice wherein ten fingers toil, thou mayest, at the feast, drink of our offered meath.