Ṛgveda · Maṇḍala 10 · Sūkta 96
Ṛk 10.96.3
Saṃhitā
सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः ।
द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इंद्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥
सो अस्य वज्रो हरितो य आयसो हरिर् निकामो हरिर् आ गभस्त्योः |
द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ||
só asya vájro hárito yá āyasó hárirníkāmo hárirā́ gábhastyoḥ ǀ
dyumnī́ suśipró hárimanyusāyaka índre ní rūpā́ háritā mimikṣire ǁ
so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ |
dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire ||
Padapāṭha
सः । अ॒स्य॒ । वज्रः॑ । हरि॑तः । यः । आ॒य॒सः । हरिः॑ । निऽका॑मः । हरिः॑ । आ । गभ॑स्त्योः ।
द्यु॒म्नी । सु॒ऽशि॒प्रः । हरि॑मन्युऽसायकः । इन्द्रे॑ । नि । रू॒पा । हरि॑ता । मि॒मि॒क्षि॒रे॒ ॥
सः । अस्य । वज्रः । हरितः । यः । आयसः । हरिः । निऽकामः । हरिः । आ । गभस्त्योः ।
द्युम्नी । सुऽशिप्रः । हरिमन्युऽसायकः । इन्द्रे । नि । रूपा । हरिता । मिमिक्षिरे ॥
sáḥ ǀ asya ǀ vájraḥ ǀ háritaḥ ǀ yáḥ ǀ āyasáḥ ǀ háriḥ ǀ ní-kāmaḥ ǀ háriḥ ǀ ā́ ǀ gábhastyoḥ ǀ
dyumnī́ ǀ su-śipráḥ ǀ hárimanyu-sāyakaḥ ǀ índre ǀ ní ǀ rūpā́ ǀ háritā ǀ mimikṣire ǁ
saḥ ǀ asya ǀ vajraḥ ǀ haritaḥ ǀ yaḥ ǀ āyasaḥ ǀ hariḥ ǀ ni-kāmaḥ ǀ hariḥ ǀ ā ǀ gabhastyoḥ ǀ
dyumnī ǀ su-śipraḥ ǀ harimanyu-sāyakaḥ ǀ indre ǀ ni ǀ rūpā ǀ haritā ǀ mimikṣire ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.096.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.05.03
- Maṇḍala · Anuvāka · Ṛk
- 10.08.080
- Devatā देवता
- Haristutiḥ
- Ṛṣi ऋषि
- Baru Āṅgirasa Or Sarvahari Aindra
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.