Ṛgveda · Maṇḍala 10 · Sūkta 96
Ṛk 10.96.9
Saṃhitā
स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः ।
प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यांध॑सः ॥
स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः |
प्र यत् कृते चमसे मर्मृजद् धरी पीत्वा मदस्य हर्यतस्यान्धसः ||
srúveva yásya háriṇī vipetátuḥ śípre vā́jāya háriṇī dávidhvataḥ ǀ
prá yátkṛté camasé mármṛjaddhárī pītvā́ mádasya haryatásyā́ndhasaḥ ǁ
sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ |
pra yat kṛte camase marmṛjad dharī pītvā madasya haryatasyāndhasaḥ ||
Padapāṭha
स्रुवा॑ऽइव । यस्य॑ । हरि॑णी॒ इति॑ । वि॒ऽपे॒ततुः॑ । शिप्रे॒ इति॑ । वाजा॑य । हरि॑णी॒ इति॑ । दवि॑ध्वतः ।
प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ॑जत् । हरी॒ इति॑ । पी॒त्वा । मद॑स्य । ह॒र्य॒तस्य॑ । अन्ध॑सः ॥
स्रुवाऽइव । यस्य । हरिणी इति । विऽपेततुः । शिप्रे इति । वाजाय । हरिणी इति । दविध्वतः ।
प्र । यत् । कृते । चमसे । मर्मृजत् । हरी इति । पीत्वा । मदस्य । हर्यतस्य । अन्धसः ॥
srúvā-iva ǀ yásya ǀ háriṇī íti ǀ vi-petátuḥ ǀ śípre íti ǀ vā́jāya ǀ háriṇī íti ǀ dávidhvataḥ ǀ
prá ǀ yát ǀ kṛté ǀ camasé ǀ mármṛjat ǀ hárī íti ǀ pītvā́ ǀ mádasya ǀ haryatásya ǀ ándhasaḥ ǁ
sruvā-iva ǀ yasya ǀ hariṇī iti ǀ vi-petatuḥ ǀ śipre iti ǀ vājāya ǀ hariṇī iti ǀ davidhvataḥ ǀ
pra ǀ yat ǀ kṛte ǀ camase ǀ marmṛjat ǀ harī iti ǀ pītvā ǀ madasya ǀ haryatasya ǀ andhasaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.096.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.06.04
- Maṇḍala · Anuvāka · Ṛk
- 10.08.086
- Devatā देवता
- Haristutiḥ
- Ṛṣi ऋषि
- Baru Āṅgirasa Or Sarvahari Aindra
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.