Sūkta 91
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Aruṇa Vaitahavya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles virāḍjagatī (2, 4, 5, 7, 9, 10, 13); nicṛjjagatī (1, 3, 6); pādanicṛjjgatī (8, 11); jagatī (12, 14); pādanicṛttriṣṭup (15)
2nd set of styles jagatī (1-14); triṣṭubh (15)
-
Ṛk 1
सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे ।
विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ॥सं जागृवद्भिर् जरमाण इध्यते दमे दमूना इषयन्न् इऌअस् पदे |
विश्वस्य होता हविषो वरेण्यो विभुर् विभावा सुषखा सखीयते ||sám jāgṛvádbhirjáramāṇa idhyate dáme dámūnā iṣáyanniḷáspadé ǀ
víśvasya hótā havíṣo váreṇyo vibhúrvibhā́vā suṣákhā sakhīyaté ǁsaṃ jāgṛvadbhir jaramāṇa idhyate dame damūnā iṣayann iḷas pade |
viśvasya hotā haviṣo vareṇyo vibhur vibhāvā suṣakhā sakhīyate ||सम् । जा॒गृ॒वत्ऽभिः॑ । जर॑माणः । इ॒ध्य॒ते॒ । दमे॑ । दमू॑नाः । इ॒षय॑न् । इ॒ळः । प॒दे ।
विश्व॑स्य । होता॑ । ह॒विषः॑ । वरे॑ण्यः । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽसखा॑ । स॒खि॒ऽय॒ते ॥सम् । जागृवत्ऽभिः । जरमाणः । इध्यते । दमे । दमूनाः । इषयन् । इळः । पदे ।
विश्वस्य । होता । हविषः । वरेण्यः । विऽभुः । विभाऽवा । सुऽसखा । सखिऽयते ॥sám ǀ jāgṛvát-bhiḥ ǀ járamāṇaḥ ǀ idhyate ǀ dáme ǀ dámūnāḥ ǀ iṣáyan ǀ iḷáḥ ǀ padé ǀ
víśvasya ǀ hótā ǀ havíṣaḥ ǀ váreṇyaḥ ǀ vi-bhúḥ ǀ vibhā́-vā ǀ su-sákhā ǀ sakhi-yaté ǁsam ǀ jāgṛvat-bhiḥ ǀ jaramāṇaḥ ǀ idhyate ǀ dame ǀ damūnāḥ ǀ iṣayan ǀ iḷaḥ ǀ pade ǀ
viśvasya ǀ hotā ǀ haviṣaḥ ǀ vareṇyaḥ ǀ vi-bhuḥ ǀ vibhā-vā ǀ su-sakhā ǀ sakhi-yate ǁ10.91.1 Aṣṭaka 8.4.20.1Anuvāka 10.8.1
-
Ṛk 2
स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व ।
जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒३॒॑ विशं॑विशं ॥स दर्शतश्रीर् अतिथिर् गृहे-गृहे वने-वने शिश्रिये तक्ववीर् इव |
जनं-जनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशं-विशम् ||sá darśataśrī́rátithirgṛhégṛhe vánevane śiśriye takvavī́riva ǀ
jánaṃjanam jányo nā́ti manyate víśa ā́ kṣeti viśyó víśaṃviśam ǁsa darśataśrīr atithir gṛhe-gṛhe vane-vane śiśriye takvavīr iva |
janaṃ-janaṃ janyo nāti manyate viśa ā kṣeti viśyo viśaṃ-viśam ||सः । द॒र्श॒त॒ऽश्रीः । अति॑थिः । गृ॒हेऽगृ॑हे । वने॑ऽवने । शि॒श्रि॒ये॒ । त॒क्व॒वीःऽइ॑व ।
जन॑म्ऽजनम् । जन्यः॑ । न । अति॑ । म॒न्य॒ते॒ । विशः॑ । आ । क्षे॒ति॒ । वि॒श्यः॑ । विश॑म्ऽविशम् ॥सः । दर्शतऽश्रीः । अतिथिः । गृहेऽगृहे । वनेऽवने । शिश्रिये । तक्ववीःऽइव ।
जनम्ऽजनम् । जन्यः । न । अति । मन्यते । विशः । आ । क्षेति । विश्यः । विशम्ऽविशम् ॥sáḥ ǀ darśata-śrī́ḥ ǀ átithiḥ ǀ gṛhé-gṛhe ǀ váne-vane ǀ śiśriye ǀ takvavī́ḥ-iva ǀ
jánam-janam ǀ jányaḥ ǀ ná ǀ áti ǀ manyate ǀ víśaḥ ǀ ā́ ǀ kṣeti ǀ viśyáḥ ǀ víśam-viśam ǁsaḥ ǀ darśata-śrīḥ ǀ atithiḥ ǀ gṛhe-gṛhe ǀ vane-vane ǀ śiśriye ǀ takvavīḥ-iva ǀ
janam-janam ǀ janyaḥ ǀ na ǀ ati ǀ manyate ǀ viśaḥ ǀ ā ǀ kṣeti ǀ viśyaḥ ǀ viśam-viśam ǁ10.91.2 Aṣṭaka 8.4.20.2Anuvāka 10.8.2
-
Ṛk 3
सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् ।
वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ॥सुदक्षो दक्षैः क्रतुनासि सुक्रतुर् अग्ने कविः काव्येनासि विश्ववित् |
वसुर् वसूनां क्षयसि त्वम् एक इद् द्यावा च यानि पृथिवी च पुष्यतः ||sudákṣo dákṣaiḥ krátunāsi sukráturágne kavíḥ kā́vyenāsi viśvavít ǀ
vásurvásūnām kṣayasi tváméka íddyā́vā ca yā́ni pṛthivī́ ca púṣyataḥ ǁsudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit |
vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ ||सु॒ऽदक्षः॑ । दक्षः॑ । क्रतु॑ना । अ॒सि॒ । सु॒ऽक्रतुः॑ । अग्ने॑ । क॒विः । काव्ये॑न । अ॒सि॒ । वि॒श्व॒ऽवित् ।
वसुः॑ । वसू॑नाम् । क्ष॒य॒सि॒ । त्वम् । एकः॑ । इत् । द्यावा॑ । च॒ । यानि॑ । पृ॒थि॒वी इति॑ । च॒ । पुष्य॑तः ॥सुऽदक्षः । दक्षः । क्रतुना । असि । सुऽक्रतुः । अग्ने । कविः । काव्येन । असि । विश्वऽवित् ।
वसुः । वसूनाम् । क्षयसि । त्वम् । एकः । इत् । द्यावा । च । यानि । पृथिवी इति । च । पुष्यतः ॥su-dákṣaḥ ǀ dákṣaḥ ǀ krátunā ǀ asi ǀ su-krátuḥ ǀ ágne ǀ kavíḥ ǀ kā́vyena ǀ asi ǀ viśva-vít ǀ
vásuḥ ǀ vásūnām ǀ kṣayasi ǀ tvám ǀ ékaḥ ǀ ít ǀ dyā́vā ǀ ca ǀ yā́ni ǀ pṛthivī́ íti ǀ ca ǀ púṣyataḥ ǁsu-dakṣaḥ ǀ dakṣaḥ ǀ kratunā ǀ asi ǀ su-kratuḥ ǀ agne ǀ kaviḥ ǀ kāvyena ǀ asi ǀ viśva-vit ǀ
vasuḥ ǀ vasūnām ǀ kṣayasi ǀ tvam ǀ ekaḥ ǀ it ǀ dyāvā ǀ ca ǀ yāni ǀ pṛthivī iti ǀ ca ǀ puṣyataḥ ǁ10.91.3 Aṣṭaka 8.4.20.3Anuvāka 10.8.3
-
Ṛk 4
प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा॑यास्प॒दे घृ॒तवं॑त॒मास॑दः ।
आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑योऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ॥प्रजानन्न् अग्ने तव योनिम् ऋत्वियम् इऌआयास् पदे घृतवन्तम् आसदः |
आ ते चिकित्र उषसाम् इवेतयो ऽरेपसः सूर्यस्येव रश्मयः ||prajānánnagne táva yónimṛtvíyamíḷāyāspadé ghṛtávantamā́sadaḥ ǀ
ā́ te cikitra uṣásāmivétayo’repásaḥ sū́ryasyeva raśmáyaḥ ǁprajānann agne tava yonim ṛtviyam iḷāyās pade ghṛtavantam āsadaḥ |
ā te cikitra uṣasām ivetayo 'repasaḥ sūryasyeva raśmayaḥ ||प्र॒ऽजा॒नन् । अ॒ग्ने॒ । तव॑ । योनि॑म् । ऋ॒त्विय॑म् । इळा॑याः । प॒दे । घृ॒तऽव॑न्तम् । आ । अ॒स॒दः॒ ।
आ । ते॒ । चि॒कि॒त्रे॒ । उ॒षसा॑म्ऽइव । एत॑यः । अ॒रे॒पसः॑ । सूर्य॑स्यऽइव । र॒श्मयः॑ ॥प्रऽजानन् । अग्ने । तव । योनिम् । ऋत्वियम् । इळायाः । पदे । घृतऽवन्तम् । आ । असदः ।
आ । ते । चिकित्रे । उषसाम्ऽइव । एतयः । अरेपसः । सूर्यस्यऽइव । रश्मयः ॥pra-jānán ǀ agne ǀ táva ǀ yónim ǀ ṛtvíyam ǀ íḷāyāḥ ǀ padé ǀ ghṛtá-vantam ǀ ā́ ǀ asadaḥ ǀ
ā́ ǀ te ǀ cikitre ǀ uṣásām-iva ǀ étayaḥ ǀ arepásaḥ ǀ sū́ryasya-iva ǀ raśmáyaḥ ǁpra-jānan ǀ agne ǀ tava ǀ yonim ǀ ṛtviyam ǀ iḷāyāḥ ǀ pade ǀ ghṛta-vantam ǀ ā ǀ asadaḥ ǀ
ā ǀ te ǀ cikitre ǀ uṣasām-iva ǀ etayaḥ ǀ arepasaḥ ǀ sūryasya-iva ǀ raśmayaḥ ǁ10.91.4 Aṣṭaka 8.4.20.4Anuvāka 10.8.4
-
Ṛk 5
तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ ।
यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ॥तव श्रियो वर्ष्यस्येव विद्युतश् चित्राश् चिकित्र उषसां न केतवः |
यद् ओषधीर् अभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नम् आस्ये ||táva śríyo varṣyásyeva vidyútaścitrā́ścikitra uṣásām ná ketávaḥ ǀ
yádóṣadhīrabhísṛṣṭo vánāni ca pári svayám cinuṣé ánnamāsyé ǁtava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṃ na ketavaḥ |
yad oṣadhīr abhisṛṣṭo vanāni ca pari svayaṃ cinuṣe annam āsye ||तव॑ । श्रियः॑ । व॒र्ष्य॑स्यऽइव । वि॒ऽद्युतः॑ । चि॒त्राः । चि॒कि॒त्रे॒ । उ॒षसा॑म् । न । के॒तवः॑ ।
यत् । ओष॑धीः । अ॒भिऽसृ॑ष्टः । वना॑नि । च॒ । परि॑ । स्व॒यम् । चि॒नु॒षे । अन्न॑म् । आ॒स्ये॑ ॥तव । श्रियः । वर्ष्यस्यऽइव । विऽद्युतः । चित्राः । चिकित्रे । उषसाम् । न । केतवः ।
यत् । ओषधीः । अभिऽसृष्टः । वनानि । च । परि । स्वयम् । चिनुषे । अन्नम् । आस्ये ॥táva ǀ śríyaḥ ǀ varṣyásya-iva ǀ vi-dyútaḥ ǀ citrā́ḥ ǀ cikitre ǀ uṣásām ǀ ná ǀ ketávaḥ ǀ
yát ǀ óṣadhīḥ ǀ abhí-sṛṣṭaḥ ǀ vánāni ǀ ca ǀ pári ǀ svayám ǀ cinuṣé ǀ ánnam ǀ āsyé ǁtava ǀ śriyaḥ ǀ varṣyasya-iva ǀ vi-dyutaḥ ǀ citrāḥ ǀ cikitre ǀ uṣasām ǀ na ǀ ketavaḥ ǀ
yat ǀ oṣadhīḥ ǀ abhi-sṛṣṭaḥ ǀ vanāni ǀ ca ǀ pari ǀ svayam ǀ cinuṣe ǀ annam ǀ āsye ǁ10.91.5 Aṣṭaka 8.4.20.5Anuvāka 10.8.5
-
Ṛk 6
तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो॑ अ॒ग्निं ज॑नयंत मा॒तरः॑ ।
तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽंतर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ॥तम् ओषधीर् दधिरे गर्भम् ऋत्वियं तम् आपो अग्निं जनयन्त मातरः |
तम् इत् समानं वनिनश् च वीरुधो ऽन्तर्वतीश् च सुवते च विश्वहा ||támóṣadhīrdadhire gárbhamṛtvíyam támā́po agním janayanta mātáraḥ ǀ
támítsamānám vanínaśca vīrúdho’ntárvatīśca súvate ca viśváhā ǁtam oṣadhīr dadhire garbham ṛtviyaṃ tam āpo agniṃ janayanta mātaraḥ |
tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā ||तम् । ओष॑धीः । द॒धि॒रे॒ । गर्भ॑म् । ऋ॒त्विय॑म् । तम् । आपः॑ । अ॒ग्निम् । ज॒न॒य॒न्त॒ । मा॒तरः॑ ।
तम् । इत् । स॒मा॒नम् । व॒निनः॑ । च॒ । वी॒रुधः॑ । अ॒न्तःऽव॑तीः । च॒ । सुव॑ते । च॒ । वि॒श्वहा॑ ॥तम् । ओषधीः । दधिरे । गर्भम् । ऋत्वियम् । तम् । आपः । अग्निम् । जनयन्त । मातरः ।
तम् । इत् । समानम् । वनिनः । च । वीरुधः । अन्तःऽवतीः । च । सुवते । च । विश्वहा ॥tám ǀ óṣadhīḥ ǀ dadhire ǀ gárbham ǀ ṛtvíyam ǀ tám ǀ ā́paḥ ǀ agním ǀ janayanta ǀ mātáraḥ ǀ
tám ǀ ít ǀ samānám ǀ vanínaḥ ǀ ca ǀ vīrúdhaḥ ǀ antáḥ-vatīḥ ǀ ca ǀ súvate ǀ ca ǀ viśváhā ǁtam ǀ oṣadhīḥ ǀ dadhire ǀ garbham ǀ ṛtviyam ǀ tam ǀ āpaḥ ǀ agnim ǀ janayanta ǀ mātaraḥ ǀ
tam ǀ it ǀ samānam ǀ vaninaḥ ǀ ca ǀ vīrudhaḥ ǀ antaḥ-vatīḥ ǀ ca ǀ suvate ǀ ca ǀ viśvahā ǁ10.91.6 Aṣṭaka 8.4.21.1Anuvāka 10.8.6
-
Ṛk 7
वातो॑पधूत इषि॒तो वशाँ॒ अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से ।
आ ते॑ यतंते र॒थ्यो॒३॒॑ यथा॒ पृथ॒क्छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ॥वातोपधूत इषितो वशां अनु तृषु यद् अन्ना वेविषद् वितिष्ठसे |
आ ते यतन्ते रथ्यो यथा पृथक् छर्धांस्य् अग्ने अजराणि धक्षतः ||vā́topadhūta iṣitó váśām̐ ánu tṛṣú yádánnā véviṣadvitíṣṭhase ǀ
ā́ te yatante rathyó yáthā pṛ́thakchárdhāṃsyagne ajárāṇi dhákṣataḥ ǁvātopadhūta iṣito vaśāṃ anu tṛṣu yad annā veviṣad vitiṣṭhase |
ā te yatante rathyo yathā pṛthak chardhāṃsy agne ajarāṇi dhakṣataḥ ||वात॑ऽउपधूतः । इ॒षि॒तः । वशा॑न् । अनु॑ । तृ॒षु । यत् । अन्ना॑ । वेवि॑षत् । वि॒ऽतिष्ठ॑से ।
आ । ते॒ । य॒त॒न्ते॒ । र॒थ्यः॑ । यथा॑ । पृथ॑क् । शर्धां॑सि । अ॒ग्ने॒ । अ॒जरा॑णि । धक्ष॑तः ॥वातऽउपधूतः । इषितः । वशान् । अनु । तृषु । यत् । अन्ना । वेविषत् । विऽतिष्ठसे ।
आ । ते । यतन्ते । रथ्यः । यथा । पृथक् । शर्धांसि । अग्ने । अजराणि । धक्षतः ॥vā́ta-upadhūtaḥ ǀ iṣitáḥ ǀ váśān ǀ ánu ǀ tṛṣú ǀ yát ǀ ánnā ǀ véviṣat ǀ vi-tíṣṭhase ǀ
ā́ ǀ te ǀ yatante ǀ rathyáḥ ǀ yáthā ǀ pṛ́thak ǀ śárdhāṃsi ǀ agne ǀ ajárāṇi ǀ dhákṣataḥ ǁvāta-upadhūtaḥ ǀ iṣitaḥ ǀ vaśān ǀ anu ǀ tṛṣu ǀ yat ǀ annā ǀ veviṣat ǀ vi-tiṣṭhase ǀ
ā ǀ te ǀ yatante ǀ rathyaḥ ǀ yathā ǀ pṛthak ǀ śardhāṃsi ǀ agne ǀ ajarāṇi ǀ dhakṣataḥ ǁ10.91.7 Aṣṭaka 8.4.21.2Anuvāka 10.8.7
-
Ṛk 8
मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता॑रं परि॒भूत॑मं म॒तिं ।
तमिदर्भे॑ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ॥मेधाकारं विदथस्य प्रसाधनम् अग्निं होतारम् परिभूतमम् मतिम् |
तम् इद् अर्भे हविष्य् आ समानम् इत् तम् इन् महे वृणते नान्यं त्वत् ||medhākārám vidáthasya prasā́dhanamagním hótāram paribhū́tamam matím ǀ
támídárbhe havíṣyā́ samānámíttámínmahé vṛṇate nā́nyám tvát ǁmedhākāraṃ vidathasya prasādhanam agniṃ hotāram paribhūtamam matim |
tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat ||मे॒धा॒ऽका॒रम् । वि॒दथ॑स्य । प्र॒ऽसाध॑नम् । अ॒ग्निम् । होता॑रम् । प॒रि॒ऽभूत॑मम् । म॒तिम् ।
तम् । इत् । अर्भे॑ । ह॒विषि॑ । आ । स॒मा॒नम् । इत् । तम् । इत् । म॒हे । वृ॒ण॒ते॒ । न । अ॒न्यम् । त्वत् ॥मेधाऽकारम् । विदथस्य । प्रऽसाधनम् । अग्निम् । होतारम् । परिऽभूतमम् । मतिम् ।
तम् । इत् । अर्भे । हविषि । आ । समानम् । इत् । तम् । इत् । महे । वृणते । न । अन्यम् । त्वत् ॥medhā-kārám ǀ vidáthasya ǀ pra-sā́dhanam ǀ agním ǀ hótāram ǀ pari-bhū́tamam ǀ matím ǀ
tám ǀ ít ǀ árbhe ǀ havíṣi ǀ ā́ ǀ samānám ǀ ít ǀ tám ǀ ít ǀ mahé ǀ vṛṇate ǀ ná ǀ anyám ǀ tvát ǁmedhā-kāram ǀ vidathasya ǀ pra-sādhanam ǀ agnim ǀ hotāram ǀ pari-bhūtamam ǀ matim ǀ
tam ǀ it ǀ arbhe ǀ haviṣi ǀ ā ǀ samānam ǀ it ǀ tam ǀ it ǀ mahe ǀ vṛṇate ǀ na ǀ anyam ǀ tvat ǁ10.91.8 Aṣṭaka 8.4.21.3Anuvāka 10.8.8
-
Ṛk 9
त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता॑रमग्ने वि॒दथे॑षु वे॒धसः॑ ।
यद्दे॑व॒यंतो॒ दध॑ति॒ प्रयां॑सि ते ह॒विष्मं॑तो॒ मन॑वो वृ॒क्तब॑र्हिषः ॥त्वाम् इद् अत्र वृणते त्वायवो होतारम् अग्ने विदथेषु वेधसः |
यद् देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ||tvā́mídátra vṛṇate tvāyávo hótāramagne vidátheṣu vedhásaḥ ǀ
yáddevayánto dádhati práyāṃsi te havíṣmanto mánavo vṛktábarhiṣaḥ ǁtvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ |
yad devayanto dadhati prayāṃsi te haviṣmanto manavo vṛktabarhiṣaḥ ||त्वाम् । इत् । अत्र॑ । वृ॒ण॒ते॒ । त्वा॒ऽयवः॑ । होता॑रम् । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ ।
यत् । दे॒व॒ऽयन्तः॑ । दध॑ति । प्रयां॑सि । ते॒ । ह॒विष्म॑न्तः । मन॑वः । वृ॒क्तऽब॑र्हिषः ॥त्वाम् । इत् । अत्र । वृणते । त्वाऽयवः । होतारम् । अग्ने । विदथेषु । वेधसः ।
यत् । देवऽयन्तः । दधति । प्रयांसि । ते । हविष्मन्तः । मनवः । वृक्तऽबर्हिषः ॥tvā́m ǀ ít ǀ átra ǀ vṛṇate ǀ tvā-yávaḥ ǀ hótāram ǀ agne ǀ vidátheṣu ǀ vedhásaḥ ǀ
yát ǀ deva-yántaḥ ǀ dádhati ǀ práyāṃsi ǀ te ǀ havíṣmantaḥ ǀ mánavaḥ ǀ vṛktá-barhiṣaḥ ǁtvām ǀ it ǀ atra ǀ vṛṇate ǀ tvā-yavaḥ ǀ hotāram ǀ agne ǀ vidatheṣu ǀ vedhasaḥ ǀ
yat ǀ deva-yantaḥ ǀ dadhati ǀ prayāṃsi ǀ te ǀ haviṣmantaḥ ǀ manavaḥ ǀ vṛkta-barhiṣaḥ ǁ10.91.9 Aṣṭaka 8.4.21.4Anuvāka 10.8.9
-
Ṛk 10
तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।
तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम् अग्निद् ऋतायतः |
तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे ||távāgne hotrám táva potrámṛtvíyam táva neṣṭrám tvámagnídṛtāyatáḥ ǀ
táva praśāstrám tvámadhvarīyasi brahmā́ cā́si gṛhápatiśca no dáme ǁtavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ |
tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame ||तव॑ । अ॒ग्ने॒ । हो॒त्रम् । तव॑ । पो॒त्रम् । ऋ॒त्विय॑म् । तव॑ । ने॒ष्ट्रम् । त्वम् । अ॒ग्नित् । ऋ॒त॒ऽय॒तः ।
तव॑ । प्र॒ऽशा॒स्त्रम् । त्वम् । अ॒ध्व॒रि॒ऽय॒सि॒ । ब्र॒ह्मा । च॒ । असि॑ । गृ॒हऽप॑तिः । च॒ । नः॒ । दमे॑ ॥तव । अग्ने । होत्रम् । तव । पोत्रम् । ऋत्वियम् । तव । नेष्ट्रम् । त्वम् । अग्नित् । ऋतऽयतः ।
तव । प्रऽशास्त्रम् । त्वम् । अध्वरिऽयसि । ब्रह्मा । च । असि । गृहऽपतिः । च । नः । दमे ॥táva ǀ agne ǀ hotrám ǀ táva ǀ potrám ǀ ṛtvíyam ǀ táva ǀ neṣṭrám ǀ tvám ǀ agnít ǀ ṛta-yatáḥ ǀ
táva ǀ pra-śāstrám ǀ tvám ǀ adhvari-yasi ǀ brahmā́ ǀ ca ǀ ási ǀ gṛhá-patiḥ ǀ ca ǀ naḥ ǀ dáme ǁtava ǀ agne ǀ hotram ǀ tava ǀ potram ǀ ṛtviyam ǀ tava ǀ neṣṭram ǀ tvam ǀ agnit ǀ ṛta-yataḥ ǀ
tava ǀ pra-śāstram ǀ tvam ǀ adhvari-yasi ǀ brahmā ǀ ca ǀ asi ǀ gṛha-patiḥ ǀ ca ǀ naḥ ǀ dame ǁ10.91.10 Aṣṭaka 8.4.21.5Anuvāka 10.8.10
-
Ṛk 11
यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मर्त्यः॑ स॒मिधा॒ दाश॑दु॒त वा॑ ह॒विष्कृ॑ति ।
तस्य॒ होता॑ भवसि॒ यासि॑ दू॒त्य१॒॑मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ॥यस् तुभ्यम् अग्ने अमृताय मर्त्यः समिधा दाशद् उत वा हविष्कृति |
तस्य होता भवसि यासि दूत्यम् उप ब्रूषे यजस्य् अध्वरीयसि ||yástúbhyamagne amṛ́tāya mártyaḥ samídhā dā́śadutá vā havíṣkṛti ǀ
tásya hótā bhavasi yā́si dūtyámúpa brūṣe yájasyadhvarīyási ǁyas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti |
tasya hotā bhavasi yāsi dūtyam upa brūṣe yajasy adhvarīyasi ||यः । तुभ्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । मर्त्यः॑ । स॒म्ऽइधा॑ । दाश॑त् । उ॒त । वा॒ । ह॒विःऽकृ॑ति ।
तस्य॑ । होता॑ । भ॒व॒सि॒ । यासि॑ । दू॒त्य॑म् । उप॑ । ब्रू॒षे॒ । यज॑सि । अ॒ध्व॒रि॒ऽयसि॑ ॥यः । तुभ्यम् । अग्ने । अमृताय । मर्त्यः । सम्ऽइधा । दाशत् । उत । वा । हविःऽकृति ।
तस्य । होता । भवसि । यासि । दूत्यम् । उप । ब्रूषे । यजसि । अध्वरिऽयसि ॥yáḥ ǀ túbhyam ǀ agne ǀ amṛ́tāya ǀ mártyaḥ ǀ sam-ídhā ǀ dā́śat ǀ utá ǀ vā ǀ havíḥ-kṛti ǀ
tásya ǀ hótā ǀ bhavasi ǀ yā́si ǀ dūtyám ǀ úpa ǀ brūṣe ǀ yájasi ǀ adhvari-yási ǁyaḥ ǀ tubhyam ǀ agne ǀ amṛtāya ǀ martyaḥ ǀ sam-idhā ǀ dāśat ǀ uta ǀ vā ǀ haviḥ-kṛti ǀ
tasya ǀ hotā ǀ bhavasi ǀ yāsi ǀ dūtyam ǀ upa ǀ brūṣe ǀ yajasi ǀ adhvari-yasi ǁ10.91.11 Aṣṭaka 8.4.22.1Anuvāka 10.8.11
-
Ṛk 12
इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत ।
व॒सू॒यवो॒ वस॑वे जा॒तवे॑दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ॥इमा अस्मै मतयो वाचो अस्मद् आं ऋचो गिरः सुष्टुतयः सम् अग्मत |
वसूयवो वसवे जातवेदसे वृद्धासु चिद् वर्धनो यासु चाकनत् ||imā́ asmai matáyo vā́co asmádā́m̐ ṛ́co gíraḥ suṣṭutáyaḥ sámagmata ǀ
vasūyávo vásave jātávedase vṛddhā́su cidvárdhano yā́su cākánat ǁimā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata |
vasūyavo vasave jātavedase vṛddhāsu cid vardhano yāsu cākanat ||इ॒माः । अ॒स्मै॒ । म॒तयः॑ । वाचः॑ । अ॒स्मत् । आ । ऋचः॑ । गिरः॑ । सु॒ऽस्तु॒तयः॑ । सम् । अ॒ग्म॒त॒ ।
व॒सु॒ऽयवः॑ । वस॑वे । जा॒तऽवे॑दसे । वृ॒द्धासु॑ । चि॒त् । वर्ध॑नः । यासु॑ । चा॒कन॑त् ॥इमाः । अस्मै । मतयः । वाचः । अस्मत् । आ । ऋचः । गिरः । सुऽस्तुतयः । सम् । अग्मत ।
वसुऽयवः । वसवे । जातऽवेदसे । वृद्धासु । चित् । वर्धनः । यासु । चाकनत् ॥imā́ḥ ǀ asmai ǀ matáyaḥ ǀ vā́caḥ ǀ asmát ǀ ā́ ǀ ṛ́caḥ ǀ gíraḥ ǀ su-stutáyaḥ ǀ sám ǀ agmata ǀ
vasu-yávaḥ ǀ vásave ǀ jātá-vedase ǀ vṛddhā́su ǀ cit ǀ várdhanaḥ ǀ yā́su ǀ cākánat ǁimāḥ ǀ asmai ǀ matayaḥ ǀ vācaḥ ǀ asmat ǀ ā ǀ ṛcaḥ ǀ giraḥ ǀ su-stutayaḥ ǀ sam ǀ agmata ǀ
vasu-yavaḥ ǀ vasave ǀ jāta-vedase ǀ vṛddhāsu ǀ cit ǀ vardhanaḥ ǀ yāsu ǀ cākanat ǁ10.91.12 Aṣṭaka 8.4.22.2Anuvāka 10.8.12
-
Ṛk 13
इ॒मां प्र॒त्नाय॑ सुष्टु॒तिं नवी॑यसीं वो॒चेय॑मस्मा उश॒ते शृ॒णोतु॑ नः ।
भू॒या अंत॑रा हृ॒द्य॑स्य नि॒स्पृशे॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ॥इमाम् प्रत्नाय सुष्टुतिं नवीयसीं वोचेयम् अस्मा उशते शृणोतु नः |
भूया अन्तरा हृद्य् अस्य निस्पृशे जायेव पत्य उशती सुवासाः ||imā́m pratnā́ya suṣṭutím návīyasīm vocéyamasmā uśaté śṛṇótu naḥ ǀ
bhūyā́ ántarā hṛdyásya nispṛ́śe jāyéva pátya uśatī́ suvā́sāḥ ǁimām pratnāya suṣṭutiṃ navīyasīṃ voceyam asmā uśate śṛṇotu naḥ |
bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ ||इ॒माम् । प्र॒त्नाय॑ । सु॒ऽस्तु॒तिम् । नवी॑यसीम् । वो॒चेय॑म् । अ॒स्मै॒ । उ॒श॒ते । शृ॒णोतु॑ । नः॒ ।
भू॒याः । अन्त॑रा । हृ॒दि । अ॒स्य॒ । नि॒ऽस्पृशे॑ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ॥इमाम् । प्रत्नाय । सुऽस्तुतिम् । नवीयसीम् । वोचेयम् । अस्मै । उशते । शृणोतु । नः ।
भूयाः । अन्तरा । हृदि । अस्य । निऽस्पृशे । जायाऽइव । पत्ये । उशती । सुऽवासाः ॥imā́m ǀ pratnā́ya ǀ su-stutím ǀ návīyasīm ǀ vocéyam ǀ asmai ǀ uśaté ǀ śṛṇótu ǀ naḥ ǀ
bhūyā́ḥ ǀ ántarā ǀ hṛdí ǀ asya ǀ ni-spṛ́śe ǀ jāyā́-iva ǀ pátye ǀ uśatī́ ǀ su-vā́sāḥ ǁimām ǀ pratnāya ǀ su-stutim ǀ navīyasīm ǀ voceyam ǀ asmai ǀ uśate ǀ śṛṇotu ǀ naḥ ǀ
bhūyāḥ ǀ antarā ǀ hṛdi ǀ asya ǀ ni-spṛśe ǀ jāyā-iva ǀ patye ǀ uśatī ǀ su-vāsāḥ ǁ10.91.13 Aṣṭaka 8.4.22.3Anuvāka 10.8.13
-
Ṛk 14
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।
की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ॥यस्मिन्न् अश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः |
कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये ||yásminnáśvāsa ṛṣabhā́sa ukṣáṇo vaśā́ meṣā́ avasṛṣṭā́sa ā́hutāḥ ǀ
kīlālapé sómapṛṣṭhāya vedháse hṛdā́ matím janaye cā́rumagnáye ǁyasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ |
kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye ||यस्मि॑न् । अश्वा॑सः । ऋ॒ष॒भासः॑ । उ॒क्षणः॑ । व॒शाः । मे॒षाः । अ॒व॒ऽसृ॒ष्टासः॑ । आऽहु॑ताः ।
की॒ला॒ल॒ऽपे । सोम॑ऽपृष्ठाय । वे॒धसे॑ । हृ॒दा । म॒तिम् । ज॒न॒ये॒ । चारु॑म् । अ॒ग्नये॑ ॥यस्मिन् । अश्वासः । ऋषभासः । उक्षणः । वशाः । मेषाः । अवऽसृष्टासः । आऽहुताः ।
कीलालऽपे । सोमऽपृष्ठाय । वेधसे । हृदा । मतिम् । जनये । चारुम् । अग्नये ॥yásmin ǀ áśvāsaḥ ǀ ṛṣabhā́saḥ ǀ ukṣáṇaḥ ǀ vaśā́ḥ ǀ meṣā́ḥ ǀ ava-sṛṣṭā́saḥ ǀ ā́-hutāḥ ǀ
kīlāla-pé ǀ sóma-pṛṣṭhāya ǀ vedháse ǀ hṛdā́ ǀ matím ǀ janaye ǀ cā́rum ǀ agnáye ǁyasmin ǀ aśvāsaḥ ǀ ṛṣabhāsaḥ ǀ ukṣaṇaḥ ǀ vaśāḥ ǀ meṣāḥ ǀ ava-sṛṣṭāsaḥ ǀ ā-hutāḥ ǀ
kīlāla-pe ǀ soma-pṛṣṭhāya ǀ vedhase ǀ hṛdā ǀ matim ǀ janaye ǀ cārum ǀ agnaye ǁ10.91.14 Aṣṭaka 8.4.22.4Anuvāka 10.8.14
-
Ṛk 15
अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोमः॑ ।
वा॒ज॒सनिं॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हंतं॑ ॥अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः |
वाजसनिं रयिम् अस्मे सुवीरम् प्रशस्तं धेहि यशसम् बृहन्तम् ||áhāvyagne havírāsyé te srucī́va ghṛtám camvī́va sómaḥ ǀ
vājasánim rayímasmé suvī́ram praśastám dhehi yaśásam bṛhántam ǁahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ |
vājasaniṃ rayim asme suvīram praśastaṃ dhehi yaśasam bṛhantam ||अहा॑वि । अ॒ग्ने॒ । ह॒विः । आ॒स्ये॑ । ते॒ । स्रु॒चिऽइ॑व । घृ॒तम् । च॒म्वि॑ऽइव । सोमः॑ ।
वा॒ज॒ऽसनि॑म् । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् । प्र॒ऽश॒स्तम् । धे॒हि॒ । य॒शस॑म् । बृ॒हन्त॑म् ॥अहावि । अग्ने । हविः । आस्ये । ते । स्रुचिऽइव । घृतम् । चम्विऽइव । सोमः ।
वाजऽसनिम् । रयिम् । अस्मे इति । सुऽवीरम् । प्रऽशस्तम् । धेहि । यशसम् । बृहन्तम् ॥áhāvi ǀ agne ǀ havíḥ ǀ āsyé ǀ te ǀ srucí-iva ǀ ghṛtám ǀ camví-iva ǀ sómaḥ ǀ
vāja-sánim ǀ rayím ǀ asmé íti ǀ su-vī́ram ǀ pra-śastám ǀ dhehi ǀ yaśásam ǀ bṛhántam ǁahāvi ǀ agne ǀ haviḥ ǀ āsye ǀ te ǀ sruci-iva ǀ ghṛtam ǀ camvi-iva ǀ somaḥ ǀ
vāja-sanim ǀ rayim ǀ asme iti ǀ su-vīram ǀ pra-śastam ǀ dhehi ǀ yaśasam ǀ bṛhantam ǁ10.91.15 Aṣṭaka 8.4.22.5Anuvāka 10.8.15
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.