Ṛgveda · Maṇḍala 10 · Sūkta 91
Ṛk 10.91.6
Saṃhitā
तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो॑ अ॒ग्निं ज॑नयंत मा॒तरः॑ ।
तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽंतर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ॥
तम् ओषधीर् दधिरे गर्भम् ऋत्वियं तम् आपो अग्निं जनयन्त मातरः |
तम् इत् समानं वनिनश् च वीरुधो ऽन्तर्वतीश् च सुवते च विश्वहा ||
támóṣadhīrdadhire gárbhamṛtvíyam támā́po agním janayanta mātáraḥ ǀ
támítsamānám vanínaśca vīrúdho’ntárvatīśca súvate ca viśváhā ǁ
tam oṣadhīr dadhire garbham ṛtviyaṃ tam āpo agniṃ janayanta mātaraḥ |
tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā ||
Padapāṭha
तम् । ओष॑धीः । द॒धि॒रे॒ । गर्भ॑म् । ऋ॒त्विय॑म् । तम् । आपः॑ । अ॒ग्निम् । ज॒न॒य॒न्त॒ । मा॒तरः॑ ।
तम् । इत् । स॒मा॒नम् । व॒निनः॑ । च॒ । वी॒रुधः॑ । अ॒न्तःऽव॑तीः । च॒ । सुव॑ते । च॒ । वि॒श्वहा॑ ॥
तम् । ओषधीः । दधिरे । गर्भम् । ऋत्वियम् । तम् । आपः । अग्निम् । जनयन्त । मातरः ।
तम् । इत् । समानम् । वनिनः । च । वीरुधः । अन्तःऽवतीः । च । सुवते । च । विश्वहा ॥
tám ǀ óṣadhīḥ ǀ dadhire ǀ gárbham ǀ ṛtvíyam ǀ tám ǀ ā́paḥ ǀ agním ǀ janayanta ǀ mātáraḥ ǀ
tám ǀ ít ǀ samānám ǀ vanínaḥ ǀ ca ǀ vīrúdhaḥ ǀ antáḥ-vatīḥ ǀ ca ǀ súvate ǀ ca ǀ viśváhā ǁ
tam ǀ oṣadhīḥ ǀ dadhire ǀ garbham ǀ ṛtviyam ǀ tam ǀ āpaḥ ǀ agnim ǀ janayanta ǀ mātaraḥ ǀ
tam ǀ it ǀ samānam ǀ vaninaḥ ǀ ca ǀ vīrudhaḥ ǀ antaḥ-vatīḥ ǀ ca ǀ suvate ǀ ca ǀ viśvahā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.091.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.21.01
- Maṇḍala · Anuvāka · Ṛk
- 10.08.006
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Aruṇa Vaitahavya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.