Sūkta 139
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Viśvāvasu Devagandharva
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 2, 4-6); virāṭtrisṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रं ।
तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्सं॒पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयां अजस्रम् |
तस्य पूषा प्रसवे याति विद्वान् सम्पश्यन् विश्वा भुवनानि गोपाः ||sū́ryaraśmirhárikeśaḥ purástātsavitā́ jyótirúdayām̐ ájasram ǀ
tásya pūṣā́ prasavé yāti vidvā́ntsampáśyanvíśvā bhúvanāni gopā́ḥ ǁsūryaraśmir harikeśaḥ purastāt savitā jyotir ud ayāṃ ajasram |
tasya pūṣā prasave yāti vidvān sampaśyan viśvā bhuvanāni gopāḥ ||सू॒र्य॑ऽरश्मिः । हरि॑ऽकेशः । पु॒रस्ता॑त् । स॒वि॒ता । ज्योतिः॑ । उत् । अ॒या॒न् । अज॑स्रम् ।
तस्य॑ । पू॒षा । प्र॒ऽस॒वे । या॒ति॒ । वि॒द्वान् । स॒म्ऽपश्य॑न् । विश्वा॑ । भुव॑नानि । गो॒पाः ॥सूर्यऽरश्मिः । हरिऽकेशः । पुरस्तात् । सविता । ज्योतिः । उत् । अयान् । अजस्रम् ।
तस्य । पूषा । प्रऽसवे । याति । विद्वान् । सम्ऽपश्यन् । विश्वा । भुवनानि । गोपाः ॥sūryá-raśmiḥ ǀ hári-keśaḥ ǀ purástāt ǀ savitā́ ǀ jyótiḥ ǀ út ǀ ayān ǀ ájasram ǀ
tásya ǀ pūṣā́ ǀ pra-savé ǀ yāti ǀ vidvā́n ǀ sam-páśyan ǀ víśvā ǀ bhúvanāni ǀ gopā́ḥ ǁsūrya-raśmiḥ ǀ hari-keśaḥ ǀ purastāt ǀ savitā ǀ jyotiḥ ǀ ut ǀ ayān ǀ ajasram ǀ
tasya ǀ pūṣā ǀ pra-save ǀ yāti ǀ vidvān ǀ sam-paśyan ǀ viśvā ǀ bhuvanāni ǀ gopāḥ ǁ10.139.1 Aṣṭaka 8.7.27.1Anuvāka 10.11.70
-
Ṛk 2
नृ॒चक्षा॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अं॒तरि॑क्षं ।
स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रंत॒रा पूर्व॒मप॑रं च के॒तुं ॥नृचक्षा एष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षम् |
स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ||nṛcákṣā eṣá divó mádhya āsta āpaprivā́nródasī antárikṣam ǀ
sá viśvā́cīrabhí caṣṭe ghṛtā́cīrantarā́ pū́rvamáparam ca ketúm ǁnṛcakṣā eṣa divo madhya āsta āpaprivān rodasī antarikṣam |
sa viśvācīr abhi caṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum ||नृ॒ऽचक्षाः॑ । ए॒षः । दि॒वः । मध्ये॑ । आ॒स्ते॒ । आ॒प॒प्रि॒ऽवान् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ।
सः । वि॒श्वाचीः॑ । अ॒भि । च॒ष्टे॒ । घृ॒ताचीः॑ । अ॒न्त॒रा । पूर्व॑म् । अप॑रम् । च॒ । के॒तुम् ॥नृऽचक्षाः । एषः । दिवः । मध्ये । आस्ते । आपप्रिऽवान् । रोदसी इति । अन्तरिक्षम् ।
सः । विश्वाचीः । अभि । चष्टे । घृताचीः । अन्तरा । पूर्वम् । अपरम् । च । केतुम् ॥nṛ-cákṣāḥ ǀ eṣáḥ ǀ diváḥ ǀ mádhye ǀ āste ǀ āpapri-vā́n ǀ ródasī íti ǀ antárikṣam ǀ
sáḥ ǀ viśvā́cīḥ ǀ abhí ǀ caṣṭe ǀ ghṛtā́cīḥ ǀ antarā́ ǀ pū́rvam ǀ áparam ǀ ca ǀ ketúm ǁnṛ-cakṣāḥ ǀ eṣaḥ ǀ divaḥ ǀ madhye ǀ āste ǀ āpapri-vān ǀ rodasī iti ǀ antarikṣam ǀ
saḥ ǀ viśvācīḥ ǀ abhi ǀ caṣṭe ǀ ghṛtācīḥ ǀ antarā ǀ pūrvam ǀ aparam ǀ ca ǀ ketum ǁ10.139.2 Aṣṭaka 8.7.27.2Anuvāka 10.11.71
-
Ṛk 3
रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः ।
दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेंद्रो॒ न त॑स्थौ सम॒रे धना॑नां ॥रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः |
देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ||rāyó budhnáḥ saṃgámano vásūnām víśvā rūpā́bhí caṣṭe śácībhiḥ ǀ
devá iva savitā́ satyádharméndro ná tasthau samaré dhánānām ǁrāyo budhnaḥ saṃgamano vasūnāṃ viśvā rūpābhi caṣṭe śacībhiḥ |
deva iva savitā satyadharmendro na tasthau samare dhanānām ||रा॒यः । बु॒ध्नः । स॒म्ऽगम॑नः । वसू॑नाम् । विश्वा॑ । रू॒पा । अ॒भि । च॒ष्टे॒ । शची॑भिः ।
दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । इन्द्रः॑ । न । त॒स्थौ॒ । स॒म्ऽअ॒रे । धना॑नाम् ॥रायः । बुध्नः । सम्ऽगमनः । वसूनाम् । विश्वा । रूपा । अभि । चष्टे । शचीभिः ।
देवःऽइव । सविता । सत्यऽधर्मा । इन्द्रः । न । तस्थौ । सम्ऽअरे । धनानाम् ॥rāyáḥ ǀ budhnáḥ ǀ sam-gámanaḥ ǀ vásūnām ǀ víśvā ǀ rūpā́ ǀ abhí ǀ caṣṭe ǀ śácībhiḥ ǀ
deváḥ-iva ǀ savitā́ ǀ satyá-dharmā ǀ índraḥ ǀ ná ǀ tasthau ǀ sam-aré ǀ dhánānām ǁrāyaḥ ǀ budhnaḥ ǀ sam-gamanaḥ ǀ vasūnām ǀ viśvā ǀ rūpā ǀ abhi ǀ caṣṭe ǀ śacībhiḥ ǀ
devaḥ-iva ǀ savitā ǀ satya-dharmā ǀ indraḥ ǀ na ǀ tasthau ǀ sam-are ǀ dhanānām ǁ10.139.3 Aṣṭaka 8.7.27.3Anuvāka 10.11.72
-
Ṛk 4
वि॒श्वाव॑सुं सोम गंध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् ।
तद॒न्ववै॒दिंद्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥विश्वावसुं सोम गन्धर्वम् आपो ददृशुषीस् तद् ऋतेना व्य् आयन् |
तद् अन्ववैद् इन्द्रो रारहाण आसाम् परि सूर्यस्य परिधींर् अपश्यत् ||viśvā́vasum soma gandharvámā́po dadṛśúṣīstádṛténā vyā́yan ǀ
tádanvávaidíndro rārahāṇá āsām pári sū́ryasya paridhī́m̐rapaśyat ǁviśvāvasuṃ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan |
tad anvavaid indro rārahāṇa āsām pari sūryasya paridhīṃr apaśyat ||वि॒श्वऽव॑सुम् । सो॒म॒ । ग॒न्ध॒र्वम् । आपः॑ । द॒दृ॒शुषीः॑ । तत् । ऋ॒तेन॑ । वि । आ॒य॒न् ।
तत् । अ॒नु॒ऽअवै॑त् । इन्द्रः॑ । र॒र॒हा॒णः । आ॒सा॒म् । परि॑ । सूर्य॑स्य । प॒रि॒ऽधीन् । अ॒प॒श्य॒त् ॥विश्वऽवसुम् । सोम । गन्धर्वम् । आपः । ददृशुषीः । तत् । ऋतेन । वि । आयन् ।
तत् । अनुऽअवैत् । इन्द्रः । ररहाणः । आसाम् । परि । सूर्यस्य । परिऽधीन् । अपश्यत् ॥viśvá-vasum ǀ soma ǀ gandharvám ǀ ā́paḥ ǀ dadṛśúṣīḥ ǀ tát ǀ ṛténa ǀ ví ǀ āyan ǀ
tát ǀ anu-ávait ǀ índraḥ ǀ rarahāṇáḥ ǀ āsām ǀ pári ǀ sū́ryasya ǀ pari-dhī́n ǀ apaśyat ǁviśva-vasum ǀ soma ǀ gandharvam ǀ āpaḥ ǀ dadṛśuṣīḥ ǀ tat ǀ ṛtena ǀ vi ǀ āyan ǀ
tat ǀ anu-avait ǀ indraḥ ǀ rarahāṇaḥ ǀ āsām ǀ pari ǀ sūryasya ǀ pari-dhīn ǀ apaśyat ǁ10.139.4 Aṣṭaka 8.7.27.4Anuvāka 10.11.73
-
Ṛk 5
वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो गं॑ध॒र्वो रज॑सो वि॒मानः॑ ।
यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥विश्वावसुर् अभि तन् नो गृणातु दिव्यो गन्धर्वो रजसो विमानः |
यद् वा घा सत्यम् उत यन् न विद्म धियो हिन्वानो धिय इन् नो अव्याः ||viśvā́vasurabhí tánno gṛṇātu divyó gandharvó rájaso vimā́naḥ ǀ
yádvā ghā satyámutá yánná vidmá dhíyo hinvānó dhíya ínno avyāḥ ǁviśvāvasur abhi tan no gṛṇātu divyo gandharvo rajaso vimānaḥ |
yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ ||वि॒श्वऽव॑सुः । अ॒भि । तत् । नः॒ । गृ॒णा॒तु॒ । दि॒व्यः । ग॒न्ध॒र्वः । रज॑सः । वि॒ऽमानः॑ ।
यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म । धियः॑ । हि॒न्वा॒नः । धियः॑ । इत् । नः॒ । अ॒व्याः॒ ॥विश्वऽवसुः । अभि । तत् । नः । गृणातु । दिव्यः । गन्धर्वः । रजसः । विऽमानः ।
यत् । वा । घ । सत्यम् । उत । यत् । न । विद्म । धियः । हिन्वानः । धियः । इत् । नः । अव्याः ॥viśvá-vasuḥ ǀ abhí ǀ tát ǀ naḥ ǀ gṛṇātu ǀ divyáḥ ǀ gandharváḥ ǀ rájasaḥ ǀ vi-mā́naḥ ǀ
yát ǀ vā ǀ gha ǀ satyám ǀ utá ǀ yát ǀ ná ǀ vidmá ǀ dhíyaḥ ǀ hinvānáḥ ǀ dhíyaḥ ǀ ít ǀ naḥ ǀ avyāḥ ǁviśva-vasuḥ ǀ abhi ǀ tat ǀ naḥ ǀ gṛṇātu ǀ divyaḥ ǀ gandharvaḥ ǀ rajasaḥ ǀ vi-mānaḥ ǀ
yat ǀ vā ǀ gha ǀ satyam ǀ uta ǀ yat ǀ na ǀ vidma ǀ dhiyaḥ ǀ hinvānaḥ ǀ dhiyaḥ ǀ it ǀ naḥ ǀ avyāḥ ǁ10.139.5 Aṣṭaka 8.7.27.5Anuvāka 10.11.74
-
Ṛk 6
सस्नि॑मविंद॒च्चर॑णे न॒दीना॒मपा॑वृणो॒द्दुरो॒ अश्म॑व्रजानां ।
प्रासां॑ गंध॒र्वो अ॒मृता॑नि वोच॒दिंद्रो॒ दक्षं॒ परि॑ जानाद॒हीनां॑ ॥सस्निम् अविन्दच् चरणे नदीनाम् अपावृणोद् दुरो अश्मव्रजानाम् |
प्रासां गन्धर्वो अमृतानि वोचद् इन्द्रो दक्षम् परि जानाद् अहीनाम् ||sásnimavindaccáraṇe nadī́nāmápāvṛṇoddúro áśmavrajānām ǀ
prā́sām gandharvó amṛ́tāni vocadíndro dákṣam pári jānādahī́nām ǁsasnim avindac caraṇe nadīnām apāvṛṇod duro aśmavrajānām |
prāsāṃ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām ||सस्नि॑म् । अ॒वि॒न्द॒त् । चर॑णे । न॒दीना॑म् । अप॑ । अ॒वृ॒णो॒त् । दुरः॑ । अश्म॑ऽव्रजानाम् ।
प्र । आ॒सा॒म् । ग॒न्ध॒र्वः । अ॒मृता॑नि । वो॒च॒त् । इन्द्रः॑ । दक्ष॑म् । परि॑ । जा॒ना॒त् । अ॒हीना॑म् ॥सस्निम् । अविन्दत् । चरणे । नदीनाम् । अप । अवृणोत् । दुरः । अश्मऽव्रजानाम् ।
प्र । आसाम् । गन्धर्वः । अमृतानि । वोचत् । इन्द्रः । दक्षम् । परि । जानात् । अहीनाम् ॥sásnim ǀ avindat ǀ cáraṇe ǀ nadī́nām ǀ ápa ǀ avṛṇot ǀ dúraḥ ǀ áśma-vrajānām ǀ
prá ǀ āsām ǀ gandharváḥ ǀ amṛ́tāni ǀ vocat ǀ índraḥ ǀ dákṣam ǀ pári ǀ jānāt ǀ ahī́nām ǁsasnim ǀ avindat ǀ caraṇe ǀ nadīnām ǀ apa ǀ avṛṇot ǀ duraḥ ǀ aśma-vrajānām ǀ
pra ǀ āsām ǀ gandharvaḥ ǀ amṛtāni ǀ vocat ǀ indraḥ ǀ dakṣam ǀ pari ǀ jānāt ǀ ahīnām ǁ10.139.6 Aṣṭaka 8.7.27.6Anuvāka 10.11.75
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.