Ṛgveda · Maṇḍala 10 · Sūkta 139
Ṛk 10.139.2
Saṃhitā
नृ॒चक्षा॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अं॒तरि॑क्षं ।
स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रंत॒रा पूर्व॒मप॑रं च के॒तुं ॥
नृचक्षा एष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षम् |
स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ||
nṛcákṣā eṣá divó mádhya āsta āpaprivā́nródasī antárikṣam ǀ
sá viśvā́cīrabhí caṣṭe ghṛtā́cīrantarā́ pū́rvamáparam ca ketúm ǁ
nṛcakṣā eṣa divo madhya āsta āpaprivān rodasī antarikṣam |
sa viśvācīr abhi caṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum ||
Padapāṭha
नृ॒ऽचक्षाः॑ । ए॒षः । दि॒वः । मध्ये॑ । आ॒स्ते॒ । आ॒प॒प्रि॒ऽवान् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ।
सः । वि॒श्वाचीः॑ । अ॒भि । च॒ष्टे॒ । घृ॒ताचीः॑ । अ॒न्त॒रा । पूर्व॑म् । अप॑रम् । च॒ । के॒तुम् ॥
नृऽचक्षाः । एषः । दिवः । मध्ये । आस्ते । आपप्रिऽवान् । रोदसी इति । अन्तरिक्षम् ।
सः । विश्वाचीः । अभि । चष्टे । घृताचीः । अन्तरा । पूर्वम् । अपरम् । च । केतुम् ॥
nṛ-cákṣāḥ ǀ eṣáḥ ǀ diváḥ ǀ mádhye ǀ āste ǀ āpapri-vā́n ǀ ródasī íti ǀ antárikṣam ǀ
sáḥ ǀ viśvā́cīḥ ǀ abhí ǀ caṣṭe ǀ ghṛtā́cīḥ ǀ antarā́ ǀ pū́rvam ǀ áparam ǀ ca ǀ ketúm ǁ
nṛ-cakṣāḥ ǀ eṣaḥ ǀ divaḥ ǀ madhye ǀ āste ǀ āpapri-vān ǀ rodasī iti ǀ antarikṣam ǀ
saḥ ǀ viśvācīḥ ǀ abhi ǀ caṣṭe ǀ ghṛtācīḥ ǀ antarā ǀ pūrvam ǀ aparam ǀ ca ǀ ketum ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.139.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.27.02
- Maṇḍala · Anuvāka · Ṛk
- 10.11.071
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Viśvāvasu Devagandharva
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.