Sūkta 4
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1-4); triṣṭup (5, 6); virāṭtrisṭup (7)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र ते॑ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वंद्यो॑ नो॒ हवे॑षु ।
धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे॑ प्रत्न राजन् ॥प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु |
धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न राजन् ||prá te yakṣi prá ta iyarmi mánma bhúvo yáthā vándyo no háveṣu ǀ
dhánvanniva prapā́ asi tvámagna iyakṣáve pūráve pratna rājan ǁpra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu |
dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan ||प्र । ते॒ । य॒क्षि॒ । प्र । ते॒ । इ॒य॒र्मि॒ । मन्म॑ । भुवः॑ । यथा॑ । वन्द्यः॑ । नः॒ । हवे॑षु ।
धन्व॑न्ऽइव । प्र॒ऽपा । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । इ॒य॒क्षवे॑ । पू॒रवे॑ । प्र॒त्न॒ । रा॒ज॒न् ॥प्र । ते । यक्षि । प्र । ते । इयर्मि । मन्म । भुवः । यथा । वन्द्यः । नः । हवेषु ।
धन्वन्ऽइव । प्रऽपा । असि । त्वम् । अग्ने । इयक्षवे । पूरवे । प्रत्न । राजन् ॥prá ǀ te ǀ yakṣi ǀ prá ǀ te ǀ iyarmi ǀ mánma ǀ bhúvaḥ ǀ yáthā ǀ vándyaḥ ǀ naḥ ǀ háveṣu ǀ
dhánvan-iva ǀ pra-pā́ ǀ asi ǀ tvám ǀ agne ǀ iyakṣáve ǀ pūráve ǀ pratna ǀ rājan ǁpra ǀ te ǀ yakṣi ǀ pra ǀ te ǀ iyarmi ǀ manma ǀ bhuvaḥ ǀ yathā ǀ vandyaḥ ǀ naḥ ǀ haveṣu ǀ
dhanvan-iva ǀ pra-pā ǀ asi ǀ tvam ǀ agne ǀ iyakṣave ǀ pūrave ǀ pratna ǀ rājan ǁ10.4.1 Aṣṭaka 7.5.32.1Anuvāka 10.1.22
-
Ṛk 2
यं त्वा॒ जना॑सो अ॒भि सं॒चरं॑ति॒ गाव॑ उ॒ष्णमि॑व व्र॒जं य॑विष्ठ ।
दू॒तो दे॒वाना॑मसि॒ मर्त्या॑नामं॒तर्म॒हाँश्च॑रसि रोच॒नेन॑ ॥यं त्वा जनासो अभि संचरन्ति गाव उष्णम् इव व्रजं यविष्ठ |
दूतो देवानाम् असि मर्त्यानाम् अन्तर् महांश् चरसि रोचनेन ||yám tvā jánāso abhí saṃcáranti gā́va uṣṇámiva vrajám yaviṣṭha ǀ
dūtó devā́nāmasi mártyānāmantármahā́m̐ścarasi rocanéna ǁyaṃ tvā janāso abhi saṃcaranti gāva uṣṇam iva vrajaṃ yaviṣṭha |
dūto devānām asi martyānām antar mahāṃś carasi rocanena ||यम् । त्वा॒ । जना॑सः । अ॒भि । स॒म्ऽचर॑न्ति । गावः॑ । उ॒ष्णम्ऽइ॑व । व्र॒जम् । य॒वि॒ष्ठ॒ ।
दू॒तः । दे॒वाना॑म् । अ॒सि॒ । मर्त्या॑नाम् । अ॒न्तः । म॒हान् । च॒र॒सि॒ । रो॒च॒नेन॑ ॥यम् । त्वा । जनासः । अभि । सम्ऽचरन्ति । गावः । उष्णम्ऽइव । व्रजम् । यविष्ठ ।
दूतः । देवानाम् । असि । मर्त्यानाम् । अन्तः । महान् । चरसि । रोचनेन ॥yám ǀ tvā ǀ jánāsaḥ ǀ abhí ǀ sam-cáranti ǀ gā́vaḥ ǀ uṣṇám-iva ǀ vrajám ǀ yaviṣṭha ǀ
dūtáḥ ǀ devā́nām ǀ asi ǀ mártyānām ǀ antáḥ ǀ mahā́n ǀ carasi ǀ rocanéna ǁyam ǀ tvā ǀ janāsaḥ ǀ abhi ǀ sam-caranti ǀ gāvaḥ ǀ uṣṇam-iva ǀ vrajam ǀ yaviṣṭha ǀ
dūtaḥ ǀ devānām ǀ asi ǀ martyānām ǀ antaḥ ǀ mahān ǀ carasi ǀ rocanena ǁ10.4.2 Aṣṭaka 7.5.32.2Anuvāka 10.1.23
-
Ṛk 3
शिशुं॒ न त्वा॒ जेन्यं॑ व॒र्धयं॑ती मा॒ता बि॑भर्ति सचन॒स्यमा॑ना ।
धनो॒रधि॑ प्र॒वता॑ यासि॒ हर्यं॒जिगी॑षसे प॒शुरि॒वाव॑सृष्टः ॥शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना |
धनोर् अधि प्रवता यासि हर्यञ् जिगीषसे पशुर् इवावसृष्टः ||śíśum ná tvā jényam vardháyantī mātā́ bibharti sacanasyámānā ǀ
dhánorádhi pravátā yāsi háryañjígīṣase paśúrivā́vasṛṣṭaḥ ǁśiśuṃ na tvā jenyaṃ vardhayantī mātā bibharti sacanasyamānā |
dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ ||शिशु॑म् । न । त्वा॒ । जेन्य॑म् । व॒र्धय॑न्ती । मा॒ता । बि॒भ॒र्ति॒ । स॒च॒न॒स्यमा॑ना ।
धनोः॑ । अधि॑ । प्र॒ऽवता॑ । या॒सि॒ । हर्य॑न् । जिगी॑षसे । प॒शुःऽइ॑व । अव॑ऽसृष्टः ॥शिशुम् । न । त्वा । जेन्यम् । वर्धयन्ती । माता । बिभर्ति । सचनस्यमाना ।
धनोः । अधि । प्रऽवता । यासि । हर्यन् । जिगीषसे । पशुःऽइव । अवऽसृष्टः ॥śíśum ǀ ná ǀ tvā ǀ jényam ǀ vardháyantī ǀ mātā́ ǀ bibharti ǀ sacanasyámānā ǀ
dhánoḥ ǀ ádhi ǀ pra-vátā ǀ yāsi ǀ háryan ǀ jígīṣase ǀ paśúḥ-iva ǀ áva-sṛṣṭaḥ ǁśiśum ǀ na ǀ tvā ǀ jenyam ǀ vardhayantī ǀ mātā ǀ bibharti ǀ sacanasyamānā ǀ
dhanoḥ ǀ adhi ǀ pra-vatā ǀ yāsi ǀ haryan ǀ jigīṣase ǀ paśuḥ-iva ǀ ava-sṛṣṭaḥ ǁ10.4.3 Aṣṭaka 7.5.32.3Anuvāka 10.1.24
-
Ṛk 4
मू॒रा अ॑मूर॒ न व॒यं चि॑कित्वो महि॒त्वम॑ग्ने॒ त्वमं॒ग वि॑त्से ।
शये॑ व॒व्रिश्चर॑ति जि॒ह्वया॒दन्रे॑रि॒ह्यते॑ युव॒तिं वि॒श्पतिः॒ सन् ॥मूरा अमूर न वयं चिकित्वो महित्वम् अग्ने त्वम् अङ्ग वित्से |
शये वव्रिश् चरति जिह्वयादन् रेरिह्यते युवतिं विश्पतिः सन् ||mūrā́ amūra ná vayám cikitvo mahitvámagne tvámaṅgá vitse ǀ
śáye vavríścárati jihváyādánrerihyáte yuvatím viśpátiḥ sán ǁmūrā amūra na vayaṃ cikitvo mahitvam agne tvam aṅga vitse |
śaye vavriś carati jihvayādan rerihyate yuvatiṃ viśpatiḥ san ||मू॒राः । अ॒मू॒र॒ । न । व॒यम् । चि॒कि॒त्वः॒ । म॒हि॒ऽत्वम् । अ॒ग्ने॒ । त्वम् । अ॒ङ्ग । वि॒त्से॒ ।
शये॑ । व॒व्रिः । चर॑ति । जि॒ह्वया॑ । अ॒दन् । रे॒रि॒ह्यते॑ । यु॒व॒तिम् । वि॒श्पतिः॑ । सन् ॥मूराः । अमूर । न । वयम् । चिकित्वः । महिऽत्वम् । अग्ने । त्वम् । अङ्ग । वित्से ।
शये । वव्रिः । चरति । जिह्वया । अदन् । रेरिह्यते । युवतिम् । विश्पतिः । सन् ॥mūrā́ḥ ǀ amūra ǀ ná ǀ vayám ǀ cikitvaḥ ǀ mahi-tvám ǀ agne ǀ tvám ǀ aṅgá ǀ vitse ǀ
śáye ǀ vavríḥ ǀ cárati ǀ jihváyā ǀ adán ǀ rerihyáte ǀ yuvatím ǀ viśpátiḥ ǀ sán ǁmūrāḥ ǀ amūra ǀ na ǀ vayam ǀ cikitvaḥ ǀ mahi-tvam ǀ agne ǀ tvam ǀ aṅga ǀ vitse ǀ
śaye ǀ vavriḥ ǀ carati ǀ jihvayā ǀ adan ǀ rerihyate ǀ yuvatim ǀ viśpatiḥ ǀ san ǁ10.4.4 Aṣṭaka 7.5.32.4Anuvāka 10.1.25
-
Ṛk 5
कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने॑ तस्थौ पलि॒तो धू॒मके॑तुः ।
अ॒स्ना॒तापो॑ वृष॒भो न प्र वे॑ति॒ सचे॑तसो॒ यं प्र॒णयं॑त॒ मर्ताः॑ ॥कूचिज् जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः |
अस्नातापो वृषभो न प्र वेति सचेतसो यम् प्रणयन्त मर्ताः ||kū́cijjāyate sánayāsu návyo váne tasthau palitó dhūmáketuḥ ǀ
asnātā́po vṛṣabhó ná prá veti sácetaso yám praṇáyanta mártāḥ ǁkūcij jāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ |
asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ ||कूऽचि॑त् । जा॒य॒ते॒ । सन॑यासु । नव्यः॑ । वने॑ । त॒स्थौ॒ । प॒लि॒तः । धू॒मऽके॑तुः ।
अ॒स्ना॒ता । आपः॑ । वृ॒ष॒भः । न । प्र । वे॒ति॒ । सऽचे॑तसः । यम् । प्र॒ऽनय॑न्त । मर्ताः॑ ॥कूऽचित् । जायते । सनयासु । नव्यः । वने । तस्थौ । पलितः । धूमऽकेतुः ।
अस्नाता । आपः । वृषभः । न । प्र । वेति । सऽचेतसः । यम् । प्रऽनयन्त । मर्ताः ॥kū́-cit ǀ jāyate ǀ sánayāsu ǀ návyaḥ ǀ váne ǀ tasthau ǀ palitáḥ ǀ dhūmá-ketuḥ ǀ
asnātā́ ǀ ā́paḥ ǀ vṛṣabháḥ ǀ ná ǀ prá ǀ veti ǀ sá-cetasaḥ ǀ yám ǀ pra-náyanta ǀ mártāḥ ǁkū-cit ǀ jāyate ǀ sanayāsu ǀ navyaḥ ǀ vane ǀ tasthau ǀ palitaḥ ǀ dhūma-ketuḥ ǀ
asnātā ǀ āpaḥ ǀ vṛṣabhaḥ ǀ na ǀ pra ǀ veti ǀ sa-cetasaḥ ǀ yam ǀ pra-nayanta ǀ martāḥ ǁ10.4.5 Aṣṭaka 7.5.32.5Anuvāka 10.1.26
-
Ṛk 6
त॒नू॒त्यजे॑व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीतां ।
इ॒यं ते॑ अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रंगैः॑ ॥तनूत्यजेव तस्करा वनर्गू रशनाभिर् दशभिर् अभ्य् अधीताम् |
इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिर् अङ्गैः ||tanūtyájeva táskarā vanargū́ raśanā́bhirdaśábhirabhyádhītām ǀ
iyám te agne návyasī manīṣā́ yukṣvā́ rátham ná śucáyadbhiráṅgaiḥ ǁtanūtyajeva taskarā vanargū raśanābhir daśabhir abhy adhītām |
iyaṃ te agne navyasī manīṣā yukṣvā rathaṃ na śucayadbhir aṅgaiḥ ||त॒नू॒त्यजा॑ऽइव । तस्क॑रा । व॒न॒र्गू इति॑ । र॒श॒नाभिः॑ । द॒शऽभिः॑ । अ॒भि । अ॒धी॒ता॒म् ।
इ॒यम् । ते॒ । अ॒ग्ने॒ । नव्य॑सी । म॒नी॒षा । यु॒क्ष्व । रथ॑म् । न । शु॒चय॑त्ऽभिः । अङ्गैः॑ ॥तनूत्यजाऽइव । तस्करा । वनर्गू इति । रशनाभिः । दशऽभिः । अभि । अधीताम् ।
इयम् । ते । अग्ने । नव्यसी । मनीषा । युक्ष्व । रथम् । न । शुचयत्ऽभिः । अङ्गैः ॥tanūtyájā-iva ǀ táskarā ǀ vanargū́ íti ǀ raśanā́bhiḥ ǀ daśá-bhiḥ ǀ abhí ǀ adhītām ǀ
iyám ǀ te ǀ agne ǀ návyasī ǀ manīṣā́ ǀ yukṣvá ǀ rátham ǀ ná ǀ śucáyat-bhiḥ ǀ áṅgaiḥ ǁtanūtyajā-iva ǀ taskarā ǀ vanargū iti ǀ raśanābhiḥ ǀ daśa-bhiḥ ǀ abhi ǀ adhītām ǀ
iyam ǀ te ǀ agne ǀ navyasī ǀ manīṣā ǀ yukṣva ǀ ratham ǀ na ǀ śucayat-bhiḥ ǀ aṅgaiḥ ǁ10.4.6 Aṣṭaka 7.5.32.6Anuvāka 10.1.27
-
Ṛk 7
ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् ।
रक्षा॑ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥ब्रह्म च ते जातवेदो नमश् चेयं च गीः सदम् इद् वर्धनी भूत् |
रक्षा णो अग्ने तनयानि तोका रक्षोत नस् तन्वो अप्रयुच्छन् ||bráhma ca te jātavedo námaśceyám ca gī́ḥ sádamídvárdhanī bhūt ǀ
rákṣā ṇo agne tánayāni tokā́ rákṣotá nastanvó áprayucchan ǁbrahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt |
rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan ||ब्रह्म॑ । च॒ । ते॒ । जा॒त॒ऽवे॒दः॒ । नमः॑ । च॒ । इ॒यम् । च॒ । गीः । सद॑म् । इत् । वर्ध॑नी । भू॒त् ।
रक्ष॑ । नः॒ । अ॒ग्ने॒ । तन॑यानि । तो॒का । रक्ष॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥ब्रह्म । च । ते । जातऽवेदः । नमः । च । इयम् । च । गीः । सदम् । इत् । वर्धनी । भूत् ।
रक्ष । नः । अग्ने । तनयानि । तोका । रक्ष । उत । नः । तन्वः । अप्रऽयुच्छन् ॥bráhma ǀ ca ǀ te ǀ jāta-vedaḥ ǀ námaḥ ǀ ca ǀ iyám ǀ ca ǀ gī́ḥ ǀ sádam ǀ ít ǀ várdhanī ǀ bhūt ǀ
rákṣa ǀ naḥ ǀ agne ǀ tánayāni ǀ tokā́ ǀ rákṣa ǀ utá ǀ naḥ ǀ tanváḥ ǀ ápra-yucchan ǁbrahma ǀ ca ǀ te ǀ jāta-vedaḥ ǀ namaḥ ǀ ca ǀ iyam ǀ ca ǀ gīḥ ǀ sadam ǀ it ǀ vardhanī ǀ bhūt ǀ
rakṣa ǀ naḥ ǀ agne ǀ tanayāni ǀ tokā ǀ rakṣa ǀ uta ǀ naḥ ǀ tanvaḥ ǀ apra-yucchan ǁ10.4.7 Aṣṭaka 7.5.32.7Anuvāka 10.1.28
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.