Ṛgveda · Maṇḍala 10 · Sūkta 4
Ṛk 10.4.7
Saṃhitā
ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् ।
रक्षा॑ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥
ब्रह्म च ते जातवेदो नमश् चेयं च गीः सदम् इद् वर्धनी भूत् |
रक्षा णो अग्ने तनयानि तोका रक्षोत नस् तन्वो अप्रयुच्छन् ||
bráhma ca te jātavedo námaśceyám ca gī́ḥ sádamídvárdhanī bhūt ǀ
rákṣā ṇo agne tánayāni tokā́ rákṣotá nastanvó áprayucchan ǁ
brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt |
rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan ||
Padapāṭha
ब्रह्म॑ । च॒ । ते॒ । जा॒त॒ऽवे॒दः॒ । नमः॑ । च॒ । इ॒यम् । च॒ । गीः । सद॑म् । इत् । वर्ध॑नी । भू॒त् ।
रक्ष॑ । नः॒ । अ॒ग्ने॒ । तन॑यानि । तो॒का । रक्ष॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥
ब्रह्म । च । ते । जातऽवेदः । नमः । च । इयम् । च । गीः । सदम् । इत् । वर्धनी । भूत् ।
रक्ष । नः । अग्ने । तनयानि । तोका । रक्ष । उत । नः । तन्वः । अप्रऽयुच्छन् ॥
bráhma ǀ ca ǀ te ǀ jāta-vedaḥ ǀ námaḥ ǀ ca ǀ iyám ǀ ca ǀ gī́ḥ ǀ sádam ǀ ít ǀ várdhanī ǀ bhūt ǀ
rákṣa ǀ naḥ ǀ agne ǀ tánayāni ǀ tokā́ ǀ rákṣa ǀ utá ǀ naḥ ǀ tanváḥ ǀ ápra-yucchan ǁ
brahma ǀ ca ǀ te ǀ jāta-vedaḥ ǀ namaḥ ǀ ca ǀ iyam ǀ ca ǀ gīḥ ǀ sadam ǀ it ǀ vardhanī ǀ bhūt ǀ
rakṣa ǀ naḥ ǀ agne ǀ tanayāni ǀ tokā ǀ rakṣa ǀ uta ǀ naḥ ǀ tanvaḥ ǀ apra-yucchan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.004.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.32.07
- Maṇḍala · Anuvāka · Ṛk
- 10.01.028
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.