Sūkta 157
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Bhuvana Āptya Or Sādhana Bhauvana
- Chandas छन्दस्
- Dvipadā Triṣṭubh
Metres by ṛk
1st set of styles dvipadātriṣṭup
2nd set of styles dvipadā triṣṭubh
-
Ṛk 1
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेंद्र॑श्च॒ विश्वे॑ च दे॒वाः ॥
इमा नु कम् भुवना सीषधामेन्द्रश् च विश्वे च देवाः ||
imā́ nú kam bhúvanā sīṣadhāméndraśca víśve ca devā́ḥ ǁ
imā nu kam bhuvanā sīṣadhāmendraś ca viśve ca devāḥ ||
इ॒मा । नु । क॒म् । भुव॑ना । सी॒स॒धा॒म॒ । इन्द्रः॑ । च॒ । विश्वे॑ । च॒ । दे॒वाः ॥
इमा । नु । कम् । भुवना । सीसधाम । इन्द्रः । च । विश्वे । च । देवाः ॥
imā́ ǀ nú ǀ kam ǀ bhúvanā ǀ sīsadhāma ǀ índraḥ ǀ ca ǀ víśve ǀ ca ǀ devā́ḥ ǁ
imā ǀ nu ǀ kam ǀ bhuvanā ǀ sīsadhāma ǀ indraḥ ǀ ca ǀ viśve ǀ ca ǀ devāḥ ǁ
10.157.1 Aṣṭaka 8.8.15.1Anuvāka 10.12.26
-
Ṛk 2
य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरिंद्रः॑ स॒ह ची॑कॢपाति ॥
यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह चीकॢपाति ||
yajñám ca nastanvám ca prajā́m cādityáiríndraḥ sahá cīkḽpāti ǁ
yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha cīkḷpāti ||
य॒ज्ञम् । च॒ । नः॒ । त॒न्व॑म् । च॒ । प्र॒ऽजाम् । च॒ । आ॒दि॒त्यैः । इन्द्रः॑ । स॒ह । ची॒कॢ॒पा॒ति॒ ॥
यज्ञम् । च । नः । तन्वम् । च । प्रऽजाम् । च । आदित्यैः । इन्द्रः । सह । चीकॢपाति ॥
yajñám ǀ ca ǀ naḥ ǀ tanvám ǀ ca ǀ pra-jā́m ǀ ca ǀ ādityáiḥ ǀ índraḥ ǀ sahá ǀ cīkḽpāti ǁ
yajñam ǀ ca ǀ naḥ ǀ tanvam ǀ ca ǀ pra-jām ǀ ca ǀ ādityaiḥ ǀ indraḥ ǀ saha ǀ cīkḽpāti ǁ
10.157.2 Aṣṭaka 8.8.15.2Anuvāka 10.12.27
-
Ṛk 3
आ॒दि॒त्यैरिंद्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूनां॑ ॥
आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्माकम् भूत्व् अविता तनूनाम् ||
ādityáiríndraḥ ságaṇo marúdbhirasmā́kam bhūtvavitā́ tanū́nām ǁ
ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām ||
आ॒दि॒त्यैः । इन्द्रः॑ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्माक॑म् । भू॒तु॒ । अ॒वि॒ता । त॒नूना॑म् ॥
आदित्यैः । इन्द्रः । सऽगणः । मरुत्ऽभिः । अस्माकम् । भूतु । अविता । तनूनाम् ॥
ādityáiḥ ǀ índraḥ ǀ sá-gaṇaḥ ǀ marút-bhiḥ ǀ asmā́kam ǀ bhūtu ǀ avitā́ ǀ tanū́nām ǁ
ādityaiḥ ǀ indraḥ ǀ sa-gaṇaḥ ǀ marut-bhiḥ ǀ asmākam ǀ bhūtu ǀ avitā ǀ tanūnām ǁ
10.157.3 Aṣṭaka 8.8.15.3Anuvāka 10.12.28
-
Ṛk 4
ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदायं॑दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥
हत्वाय देवा असुरान् यद् आयन् देवा देवत्वम् अभिरक्षमाणाः ||
hatvā́ya devā́ ásurānyádā́yandevā́ devatvámabhirákṣamāṇāḥ ǁ
hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ ||
ह॒त्वाय॑ । दे॒वाः । असु॑रान् । यत् । आय॑न् । दे॒वाः । दे॒व॒ऽत्वम् । अ॒भि॒ऽरक्ष॑माणाः ॥
हत्वाय । देवाः । असुरान् । यत् । आयन् । देवाः । देवऽत्वम् । अभिऽरक्षमाणाः ॥
hatvā́ya ǀ devā́ḥ ǀ ásurān ǀ yát ǀ ā́yan ǀ devā́ḥ ǀ deva-tvám ǀ abhi-rákṣamāṇāḥ ǁ
hatvāya ǀ devāḥ ǀ asurān ǀ yat ǀ āyan ǀ devāḥ ǀ deva-tvam ǀ abhi-rakṣamāṇāḥ ǁ
10.157.4 Aṣṭaka 8.8.15.4Anuvāka 10.12.29
-
Ṛk 5
प्र॒त्यंच॑म॒र्कम॑नयं॒छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥
प्रत्यञ्चम् अर्कम् अनयञ् छचीभिर् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ||
pratyáñcamarkámanayañchácībhirā́dítsvadhā́miṣirā́m páryapaśyan ǁ
pratyañcam arkam anayañ chacībhir ād it svadhām iṣirām pary apaśyan ||
प्र॒त्यञ्च॑म् । अ॒र्कम् । अ॒न॒य॒न् । शची॑भिः । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥
प्रत्यञ्चम् । अर्कम् । अनयन् । शचीभिः । आत् । इत् । स्वधाम् । इषिराम् । परि । अपश्यन् ॥
pratyáñcam ǀ arkám ǀ anayan ǀ śácībhiḥ ǀ ā́t ǀ ít ǀ svadhā́m ǀ iṣirā́m ǀ pári ǀ apaśyan ǁ
pratyañcam ǀ arkam ǀ anayan ǀ śacībhiḥ ǀ āt ǀ it ǀ svadhām ǀ iṣirām ǀ pari ǀ apaśyan ǁ
10.157.5 Aṣṭaka 8.8.15.5Anuvāka 10.12.30
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.