Sūkta 166
- Devatā देवता
- Sapatnaghnam
- Ṛṣi ऋषि
- Ṛṣabha Vairāja Or Ṛṣabha Śākvara
- Chandas छन्दस्
- Anuṣṭubh, Mahāpaṅkti
Metres by ṛk
1st set of styles anuṣṭup (1, 2); nicṛdanuṣṭup (3, 4); mahāpaṅkti (5)
2nd set of styles anuṣṭubh (1-4); mahāpaṅkti (5)
-
Ṛk 1
ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिं ।
हं॒तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवां॑ ॥ऋषभम् मा समानानां सपत्नानां विषासहिम् |
हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ||ṛṣabhám mā samānā́nām sapátnānām viṣāsahím ǀ
hantā́ram śátrūṇām kṛdhi virā́jam gópatim gávām ǁṛṣabham mā samānānāṃ sapatnānāṃ viṣāsahim |
hantāraṃ śatrūṇāṃ kṛdhi virājaṃ gopatiṃ gavām ||ऋ॒ष॒भम् । मा॒ । स॒मा॒नाना॑म् । स॒ऽपत्ना॑नाम् । वि॒ऽस॒स॒हिम् ।
ह॒न्तार॑म् । शत्रू॑णाम् । कृ॒धि॒ । वि॒ऽराज॑म् । गोऽप॑तिम् । गवा॑म् ॥ऋषभम् । मा । समानानाम् । सऽपत्नानाम् । विऽससहिम् ।
हन्तारम् । शत्रूणाम् । कृधि । विऽराजम् । गोऽपतिम् । गवाम् ॥ṛṣabhám ǀ mā ǀ samānā́nām ǀ sa-pátnānām ǀ vi-sasahím ǀ
hantā́ram ǀ śátrūṇām ǀ kṛdhi ǀ vi-rā́jam ǀ gó-patim ǀ gávām ǁṛṣabham ǀ mā ǀ samānānām ǀ sa-patnānām ǀ vi-sasahim ǀ
hantāram ǀ śatrūṇām ǀ kṛdhi ǀ vi-rājam ǀ go-patim ǀ gavām ǁ10.166.1 Aṣṭaka 8.8.24.1Anuvāka 10.12.74
-
Ṛk 2
अ॒हम॑स्मि सपत्न॒हेंद्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः ।
अ॒धः स॒पत्ना॑ मे प॒दोरि॒मे सर्वे॑ अ॒भिष्ठि॑ताः ॥अहम् अस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः |
अधः सपत्ना मे पदोर् इमे सर्वे अभिष्ठिताः ||ahámasmi sapatnahéndra ivā́riṣṭo ákṣataḥ ǀ
adháḥ sapátnā me padórimé sárve abhíṣṭhitāḥ ǁaham asmi sapatnahendra ivāriṣṭo akṣataḥ |
adhaḥ sapatnā me pador ime sarve abhiṣṭhitāḥ ||अ॒हम् । अ॒स्मि॒ । स॒प॒त्न॒ऽहा । इन्द्रः॑ऽइव । अरि॑ष्टः । अक्ष॑तः ।
अ॒धः । स॒ऽपत्नाः॑ । मे॒ । प॒दोः । इ॒मे । सर्वे॑ । अ॒भिऽस्थि॑ताः ॥अहम् । अस्मि । सपत्नऽहा । इन्द्रःऽइव । अरिष्टः । अक्षतः ।
अधः । सऽपत्नाः । मे । पदोः । इमे । सर्वे । अभिऽस्थिताः ॥ahám ǀ asmi ǀ sapatna-hā́ ǀ índraḥ-iva ǀ áriṣṭaḥ ǀ ákṣataḥ ǀ
adháḥ ǀ sa-pátnāḥ ǀ me ǀ padóḥ ǀ imé ǀ sárve ǀ abhí-sthitāḥ ǁaham ǀ asmi ǀ sapatna-hā ǀ indraḥ-iva ǀ ariṣṭaḥ ǀ akṣataḥ ǀ
adhaḥ ǀ sa-patnāḥ ǀ me ǀ padoḥ ǀ ime ǀ sarve ǀ abhi-sthitāḥ ǁ10.166.2 Aṣṭaka 8.8.24.2Anuvāka 10.12.75
-
Ṛk 3
अत्रै॒व वोऽपि॑ नह्याम्यु॒भे आर्त्नी॑ इव॒ ज्यया॑ ।
वाच॑स्पते॒ नि षे॑धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ॥अत्रैव वो ऽपि नह्याम्य् उभे आर्त्नी इव ज्यया |
वाचस् पते नि षेधेमान् यथा मद् अधरं वदान् ||átraivá vó’pi nahyāmyubhé ā́rtnī iva jyáyā ǀ
vā́caspate ní ṣedhemā́nyáthā mádádharam vádān ǁatraiva vo 'pi nahyāmy ubhe ārtnī iva jyayā |
vācas pate ni ṣedhemān yathā mad adharaṃ vadān ||अत्र॑ । ए॒व । वः॒ । अपि॑ । न॒ह्या॒मि॒ । उ॒भे इति॑ । आर्त्नी॑ इ॒वेत्यार्त्नी॑ऽइव । ज्यया॑ ।
वाचः॑ । प॒ते॒ । नि । से॒ध॒ । इ॒मान् । यथा॑ । मत् । अध॑रम् । वदा॑न् ॥अत्र । एव । वः । अपि । नह्यामि । उभे इति । आर्त्नी इवेत्यार्त्नीऽइव । ज्यया ।
वाचः । पते । नि । सेध । इमान् । यथा । मत् । अधरम् । वदान् ॥átra ǀ evá ǀ vaḥ ǀ ápi ǀ nahyāmi ǀ ubhé íti ǀ ā́rtnī ivetyā́rtnī-iva ǀ jyáyā ǀ
vā́caḥ ǀ pate ǀ ní ǀ sedha ǀ imā́n ǀ yáthā ǀ mát ǀ ádharam ǀ vádān ǁatra ǀ eva ǀ vaḥ ǀ api ǀ nahyāmi ǀ ubhe iti ǀ ārtnī ivetyārtnī-iva ǀ jyayā ǀ
vācaḥ ǀ pate ǀ ni ǀ sedha ǀ imān ǀ yathā ǀ mat ǀ adharam ǀ vadān ǁ10.166.3 Aṣṭaka 8.8.24.3Anuvāka 10.12.76
-
Ṛk 4
अ॒भि॒भूर॒हमाग॑मं वि॒श्वक॑र्मेण॒ धाम्ना॑ ।
आ व॑श्चि॒त्तमा वो॑ व्र॒तमा वो॒ऽहं समि॑तिं ददे ॥अभिभूर् अहम् आगमं विश्वकर्मेण धाम्ना |
आ वश् चित्तम् आ वो व्रतम् आ वो ऽहं समितिं ददे ||abhibhū́rahámā́gamam viśvákarmeṇa dhā́mnā ǀ
ā́ vaścittámā́ vo vratámā́ vo’hám sámitim dade ǁabhibhūr aham āgamaṃ viśvakarmeṇa dhāmnā |
ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade ||अ॒भि॒ऽभूः । अ॒हम् । आ । अ॒ग॒म॒म् । वि॒श्वऽक॑र्मेण । धाम्ना॑ ।
आ । वः॒ । चि॒त्तम् । आ । वः॒ । व्र॒तम् । आ । वः॒ । अ॒हम् । सम्ऽइ॑तिम् । द॒दे॒ ॥अभिऽभूः । अहम् । आ । अगमम् । विश्वऽकर्मेण । धाम्ना ।
आ । वः । चित्तम् । आ । वः । व्रतम् । आ । वः । अहम् । सम्ऽइतिम् । ददे ॥abhi-bhū́ḥ ǀ ahám ǀ ā́ ǀ agamam ǀ viśvá-karmeṇa ǀ dhā́mnā ǀ
ā́ ǀ vaḥ ǀ cittám ǀ ā́ ǀ vaḥ ǀ vratám ǀ ā́ ǀ vaḥ ǀ ahám ǀ sám-itim ǀ dade ǁabhi-bhūḥ ǀ aham ǀ ā ǀ agamam ǀ viśva-karmeṇa ǀ dhāmnā ǀ
ā ǀ vaḥ ǀ cittam ǀ ā ǀ vaḥ ǀ vratam ǀ ā ǀ vaḥ ǀ aham ǀ sam-itim ǀ dade ǁ10.166.4 Aṣṭaka 8.8.24.4Anuvāka 10.12.77
-
Ṛk 5
यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू॑यासमुत्त॒म आ वो॑ मू॒र्धान॑मक्रमीं ।
अ॒ध॒स्प॒दान्म॒ उद्व॑दत मं॒डूका॑ इवोद॒कान्मं॒डूका॑ उद॒कादि॑व ॥योगक्षेमं व आदायाहम् भूयासम् उत्तम आ वो मूर्धानम् अक्रमीम् |
अधस्पदान् म उद् वदत मण्डूका इवोदकान् मण्डूका उदकाद् इव ||yogakṣemám va ādā́yāhám bhūyāsamuttamá ā́ vo mūrdhā́namakramīm ǀ
adhaspadā́nma údvadata maṇḍū́kā ivodakā́nmaṇḍū́kā udakā́diva ǁyogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm |
adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva ||यो॒ग॒ऽक्षे॒मम् । वः॒ । आ॒ऽदाय॑ । अ॒हम् । भू॒या॒स॒म् । उ॒त्ऽत॒मः । आ । वः॒ । मू॒र्धान॑म् । अ॒क्र॒मी॒म् ।
अ॒धः॒ऽप॒दात् । मे॒ । उत् । व॒द॒त॒ । म॒ण्डूकाः॑ऽइव । उ॒द॒कात् । म॒ण्डूकाः॑ । उ॒द॒कात्ऽइ॑व ॥योगऽक्षेमम् । वः । आऽदाय । अहम् । भूयासम् । उत्ऽतमः । आ । वः । मूर्धानम् । अक्रमीम् ।
अधःऽपदात् । मे । उत् । वदत । मण्डूकाःऽइव । उदकात् । मण्डूकाः । उदकात्ऽइव ॥yoga-kṣemám ǀ vaḥ ǀ ā-dā́ya ǀ ahám ǀ bhūyāsam ǀ ut-tamáḥ ǀ ā́ ǀ vaḥ ǀ mūrdhā́nam ǀ akramīm ǀ
adhaḥ-padā́t ǀ me ǀ út ǀ vadata ǀ maṇḍū́kāḥ-iva ǀ udakā́t ǀ maṇḍū́kāḥ ǀ udakā́t-iva ǁyoga-kṣemam ǀ vaḥ ǀ ā-dāya ǀ aham ǀ bhūyāsam ǀ ut-tamaḥ ǀ ā ǀ vaḥ ǀ mūrdhānam ǀ akramīm ǀ
adhaḥ-padāt ǀ me ǀ ut ǀ vadata ǀ maṇḍūkāḥ-iva ǀ udakāt ǀ maṇḍūkāḥ ǀ udakāt-iva ǁ10.166.5 Aṣṭaka 8.8.24.5Anuvāka 10.12.78
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.