Sūkta 72
- Devatā देवता
- Devāḥ
- Ṛṣi ऋषि
- Bṛhaspati Āṅgirasa Or Bṛhaspati Laukya Or Aditi Dākṣāyaṇī
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles anuṣṭup (1, 4, 6); nicṛdanuṣṭup (3, 5, 7); virāḍanuṣṭup (8, 9); pādanicṛdanuṣṭup (2)
2nd set of styles anuṣṭubh
-
Ṛk 1
दे॒वानां॒ नु व॒यं जाना॒ प्र वो॑चाम विप॒न्यया॑ ।
उ॒क्थेषु॑ श॒स्यमा॑नेषु॒ यः पश्या॒दुत्त॑रे यु॒गे ॥देवानां नु वयं जाना प्र वोचाम विपन्यया |
उक्थेषु शस्यमानेषु यः पश्याद् उत्तरे युगे ||devā́nām nú vayám jā́nā prá vocāma vipanyáyā ǀ
ukthéṣu śasyámāneṣu yáḥ páśyādúttare yugé ǁdevānāṃ nu vayaṃ jānā pra vocāma vipanyayā |
uktheṣu śasyamāneṣu yaḥ paśyād uttare yuge ||दे॒वाना॑म् । नु । व॒यम् । जाना॑ । प्र । वो॒चा॒म॒ । वि॒प॒न्यया॑ ।
उ॒क्थेषु॑ । श॒स्यमा॑नेषु । यः । पश्या॑त् । उत्ऽत॑रे । यु॒गे ॥देवानाम् । नु । वयम् । जाना । प्र । वोचाम । विपन्यया ।
उक्थेषु । शस्यमानेषु । यः । पश्यात् । उत्ऽतरे । युगे ॥devā́nām ǀ nú ǀ vayám ǀ jā́nā ǀ prá ǀ vocāma ǀ vipanyáyā ǀ
ukthéṣu ǀ śasyámāneṣu ǀ yáḥ ǀ páśyāt ǀ út-tare ǀ yugé ǁdevānām ǀ nu ǀ vayam ǀ jānā ǀ pra ǀ vocāma ǀ vipanyayā ǀ
uktheṣu ǀ śasyamāneṣu ǀ yaḥ ǀ paśyāt ǀ ut-tare ǀ yuge ǁ10.72.1 Aṣṭaka 8.3.1.1Anuvāka 10.6.35
-
Ṛk 2
ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् ।
दे॒वानां॑ पू॒र्व्ये यु॒गेऽस॑तः॒ सद॑जायत ॥ब्रह्मणस् पतिर् एता सं कर्मार इवाधमत् |
देवानाम् पूर्व्ये युगे ऽसतः सद् अजायत ||bráhmaṇaspátiretā́ sám karmā́ra ivādhamat ǀ
devā́nām pūrvyé yugé’sataḥ sádajāyata ǁbrahmaṇas patir etā saṃ karmāra ivādhamat |
devānām pūrvye yuge 'sataḥ sad ajāyata ||ब्रह्म॑णः । पतिः॑ । ए॒ता । सम् । क॒र्मारः॑ऽइव । अ॒ध॒म॒त् ।
दे॒वाना॑म् । पू॒र्व्ये । यु॒गे । अस॑तः । सत् । अ॒जा॒य॒त॒ ॥ब्रह्मणः । पतिः । एता । सम् । कर्मारःऽइव । अधमत् ।
देवानाम् । पूर्व्ये । युगे । असतः । सत् । अजायत ॥bráhmaṇaḥ ǀ pátiḥ ǀ etā́ ǀ sám ǀ karmā́raḥ-iva ǀ adhamat ǀ
devā́nām ǀ pūrvyé ǀ yugé ǀ ásataḥ ǀ sát ǀ ajāyata ǁbrahmaṇaḥ ǀ patiḥ ǀ etā ǀ sam ǀ karmāraḥ-iva ǀ adhamat ǀ
devānām ǀ pūrvye ǀ yuge ǀ asataḥ ǀ sat ǀ ajāyata ǁ10.72.2 Aṣṭaka 8.3.1.2Anuvāka 10.6.36
-
Ṛk 3
दे॒वानां॑ यु॒गे प्र॑थ॒मेऽस॑तः॒ सद॑जायत ।
तदाशा॒ अन्व॑जायंत॒ तदु॑त्ता॒नप॑द॒स्परि॑ ॥देवानां युगे प्रथमे ऽसतः सद् अजायत |
तद् आशा अन्व् अजायन्त तद् उत्तानपदस् परि ||devā́nām yugé prathamé’sataḥ sádajāyata ǀ
tádā́śā ánvajāyanta táduttānápadaspári ǁdevānāṃ yuge prathame 'sataḥ sad ajāyata |
tad āśā anv ajāyanta tad uttānapadas pari ||दे॒वाना॑म् । पू॒र्व्ये । यु॒गे । अस॑तः । सत् । अ॒जा॒य॒त॒ ।
तत् । आशाः॑ । अनु॑ । अ॒जा॒य॒न्त॒ । तत् । उ॒त्ता॒नऽप॑दः । परि॑ ॥देवानाम् । पूर्व्ये । युगे । असतः । सत् । अजायत ।
तत् । आशाः । अनु । अजायन्त । तत् । उत्तानऽपदः । परि ॥devā́nām ǀ pūrvyé ǀ yugé ǀ ásataḥ ǀ sát ǀ ajāyata ǀ
tát ǀ ā́śāḥ ǀ ánu ǀ ajāyanta ǀ tát ǀ uttāná-padaḥ ǀ pári ǁdevānām ǀ pūrvye ǀ yuge ǀ asataḥ ǀ sat ǀ ajāyata ǀ
tat ǀ āśāḥ ǀ anu ǀ ajāyanta ǀ tat ǀ uttāna-padaḥ ǀ pari ǁ10.72.3 Aṣṭaka 8.3.1.3Anuvāka 10.6.37
-
Ṛk 4
भूर्ज॑ज्ञ उत्ता॒नप॑दो भु॒व आशा॑ अजायंत ।
अदि॑ते॒र्दक्षो॑ अजायत॒ दक्षा॒द्वदि॑तिः॒ परि॑ ॥भूर् जज्ञ उत्तानपदो भुव आशा अजायन्त |
अदितेर् दक्षो अजायत दक्षाद् व् अदितिः परि ||bhū́rjajña uttānápado bhuvá ā́śā ajāyanta ǀ
áditerdákṣo ajāyata dákṣādváditiḥ pári ǁbhūr jajña uttānapado bhuva āśā ajāyanta |
aditer dakṣo ajāyata dakṣād v aditiḥ pari ||भूः । ज॒ज्ञे॒ । उ॒त्ता॒नऽप॑दः । भु॒वः । आशाः॑ । अ॒जा॒य॒न्त॒ ।
अदि॑तेः । दक्षः॑ । अ॒जा॒य॒त॒ । दक्षा॑त् । ऊं॒ इति॑ । अदि॑तिः । परि॑ ॥भूः । जज्ञे । उत्तानऽपदः । भुवः । आशाः । अजायन्त ।
अदितेः । दक्षः । अजायत । दक्षात् । ऊं इति । अदितिः । परि ॥bhū́ḥ ǀ jajñe ǀ uttāná-padaḥ ǀ bhuváḥ ǀ ā́śāḥ ǀ ajāyanta ǀ
áditeḥ ǀ dákṣaḥ ǀ ajāyata ǀ dákṣāt ǀ ūṃ íti ǀ áditiḥ ǀ pári ǁbhūḥ ǀ jajñe ǀ uttāna-padaḥ ǀ bhuvaḥ ǀ āśāḥ ǀ ajāyanta ǀ
aditeḥ ǀ dakṣaḥ ǀ ajāyata ǀ dakṣāt ǀ ūṃ iti ǀ aditiḥ ǀ pari ǁ10.72.4 Aṣṭaka 8.3.1.4Anuvāka 10.6.38
-
Ṛk 5
अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ ।
तां दे॒वा अन्व॑जायंत भ॒द्रा अ॒मृत॑बंधवः ॥अदितिर् ह्य् अजनिष्ट दक्ष या दुहिता तव |
तां देवा अन्व् अजायन्त भद्रा अमृतबन्धवः ||áditirhyájaniṣṭa dákṣa yā́ duhitā́ táva ǀ
tā́m devā́ ánvajāyanta bhadrā́ amṛ́tabandhavaḥ ǁaditir hy ajaniṣṭa dakṣa yā duhitā tava |
tāṃ devā anv ajāyanta bhadrā amṛtabandhavaḥ ||अदि॑तिः । हि । अज॑निष्ट । दक्ष॑ । या । दु॒हि॒ता । तव॑ ।
ताम् । दे॒वाः । अनु॑ । अ॒जा॒य॒न्त॒ । भ॒द्राः । अ॒मृत॑ऽबन्धवः ॥अदितिः । हि । अजनिष्ट । दक्ष । या । दुहिता । तव ।
ताम् । देवाः । अनु । अजायन्त । भद्राः । अमृतऽबन्धवः ॥áditiḥ ǀ hí ǀ ájaniṣṭa ǀ dákṣa ǀ yā́ ǀ duhitā́ ǀ táva ǀ
tā́m ǀ devā́ḥ ǀ ánu ǀ ajāyanta ǀ bhadrā́ḥ ǀ amṛ́ta-bandhavaḥ ǁaditiḥ ǀ hi ǀ ajaniṣṭa ǀ dakṣa ǀ yā ǀ duhitā ǀ tava ǀ
tām ǀ devāḥ ǀ anu ǀ ajāyanta ǀ bhadrāḥ ǀ amṛta-bandhavaḥ ǁ10.72.5 Aṣṭaka 8.3.1.5Anuvāka 10.6.39
-
Ṛk 6
यद्दे॑वा अ॒दः स॑लि॒ले सुसं॑रब्धा॒ अति॑ष्ठत ।
अत्रा॑ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा॑यत ॥यद् देवा अदः सलिले सुसंरब्धा अतिष्ठत |
अत्रा वो नृत्यताम् इव तीव्रो रेणुर् अपायत ||yáddevā adáḥ salilé súsaṃrabdhā átiṣṭhata ǀ
átrā vo nṛ́tyatāmiva tīvró reṇúrápāyata ǁyad devā adaḥ salile susaṃrabdhā atiṣṭhata |
atrā vo nṛtyatām iva tīvro reṇur apāyata ||यत् । दे॒वाः॒ । अ॒दः । स॒लि॒ले । सुऽसं॑रब्धाः । अति॑ष्ठत ।
अत्र॑ । वः॒ । नृत्य॑ताम्ऽइव । ती॒व्रः । रे॒णुः । अप॑ । आ॒य॒त॒ ॥यत् । देवाः । अदः । सलिले । सुऽसंरब्धाः । अतिष्ठत ।
अत्र । वः । नृत्यताम्ऽइव । तीव्रः । रेणुः । अप । आयत ॥yát ǀ devāḥ ǀ adáḥ ǀ salilé ǀ sú-saṃrabdhāḥ ǀ átiṣṭhata ǀ
átra ǀ vaḥ ǀ nṛ́tyatām-iva ǀ tīvráḥ ǀ reṇúḥ ǀ ápa ǀ āyata ǁyat ǀ devāḥ ǀ adaḥ ǀ salile ǀ su-saṃrabdhāḥ ǀ atiṣṭhata ǀ
atra ǀ vaḥ ǀ nṛtyatām-iva ǀ tīvraḥ ǀ reṇuḥ ǀ apa ǀ āyata ǁ10.72.6 Aṣṭaka 8.3.2.1Anuvāka 10.6.40
-
Ṛk 7
यद्दे॑वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि॑न्वत ।
अत्रा॑ समु॒द्र आ गू॒ळ्हमा सूर्य॑मजभर्तन ॥यद् देवा यतयो यथा भुवनान्य् अपिन्वत |
अत्रा समुद्र आ गूऌहम् आ सूर्यम् अजभर्तन ||yáddevā yátayo yathā bhúvanānyápinvata ǀ
átrā samudrá ā́ gūḷhámā́ sū́ryamajabhartana ǁyad devā yatayo yathā bhuvanāny apinvata |
atrā samudra ā gūḷham ā sūryam ajabhartana ||यत् । दे॒वाः॒ । यत॑यः । य॒था॒ । भुव॑नानि । अपि॑न्वत ।
अत्र॑ । स॒मु॒द्रे । आ । गू॒ळ्हम् । आ । सूर्य॑म् । अ॒ज॒भ॒र्त॒न॒ ॥यत् । देवाः । यतयः । यथा । भुवनानि । अपिन्वत ।
अत्र । समुद्रे । आ । गूळ्हम् । आ । सूर्यम् । अजभर्तन ॥yát ǀ devāḥ ǀ yátayaḥ ǀ yathā ǀ bhúvanāni ǀ ápinvata ǀ
átra ǀ samudré ǀ ā́ ǀ gūḷhám ǀ ā́ ǀ sū́ryam ǀ ajabhartana ǁyat ǀ devāḥ ǀ yatayaḥ ǀ yathā ǀ bhuvanāni ǀ apinvata ǀ
atra ǀ samudre ǀ ā ǀ gūḷham ǀ ā ǀ sūryam ǀ ajabhartana ǁ10.72.7 Aṣṭaka 8.3.2.2Anuvāka 10.6.41
-
Ṛk 8
अ॒ष्टौ पु॒त्रासो॒ अदि॑ते॒र्ये जा॒तास्त॒न्व१॒॑स्परि॑ ।
दे॒वाँ उप॒ प्रैत्स॒प्तभिः॒ परा॑ मार्तां॒डमा॑स्यत् ॥अष्टौ पुत्रासो अदितेर् ये जातास् तन्वस् परि |
देवां उप प्रैत् सप्तभिः परा मार्ताण्डम् आस्यत् ||aṣṭáu putrā́so áditeryé jātā́stanváspári ǀ
devā́m̐ úpa práitsaptábhiḥ párā mārtāṇḍámāsyat ǁaṣṭau putrāso aditer ye jātās tanvas pari |
devāṃ upa prait saptabhiḥ parā mārtāṇḍam āsyat ||अ॒ष्टौ । पु॒त्रासः॑ । अदि॑तेः । ये । जा॒ताः । त॒न्वः॑ । परि॑ ।
दे॒वान् । उप॑ । प्र । ऐ॒त् । स॒प्तऽभिः॑ । परा॑ । मा॒र्ता॒ण्डम् । आ॒स्य॒त् ॥अष्टौ । पुत्रासः । अदितेः । ये । जाताः । तन्वः । परि ।
देवान् । उप । प्र । ऐत् । सप्तऽभिः । परा । मार्ताण्डम् । आस्यत् ॥aṣṭáu ǀ putrā́saḥ ǀ áditeḥ ǀ yé ǀ jātā́ḥ ǀ tanváḥ ǀ pári ǀ
devā́n ǀ úpa ǀ prá ǀ ait ǀ saptá-bhiḥ ǀ párā ǀ mārtāṇḍám ǀ āsyat ǁaṣṭau ǀ putrāsaḥ ǀ aditeḥ ǀ ye ǀ jātāḥ ǀ tanvaḥ ǀ pari ǀ
devān ǀ upa ǀ pra ǀ ait ǀ sapta-bhiḥ ǀ parā ǀ mārtāṇḍam ǀ āsyat ǁ10.72.8 Aṣṭaka 8.3.2.3Anuvāka 10.6.42
-
Ṛk 9
स॒प्तभिः॑ पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गं ।
प्र॒जायै॑ मृ॒त्यवे॑ त्व॒त्पुन॑र्मार्तां॒डमाभ॑रत् ॥सप्तभिः पुत्रैर् अदितिर् उप प्रैत् पूर्व्यं युगम् |
प्रजायै मृत्यवे त्वत् पुनर् मार्ताण्डम् आभरत् ||saptábhiḥ putráiráditirúpa práitpūrvyám yugám ǀ
prajā́yai mṛtyáve tvatpúnarmārtāṇḍámā́bharat ǁsaptabhiḥ putrair aditir upa prait pūrvyaṃ yugam |
prajāyai mṛtyave tvat punar mārtāṇḍam ābharat ||स॒प्तऽभिः॑ । पु॒त्रैः । अदि॑तिः । उप॑ । प्र । ऐ॒त् । पू॒र्व्यम् । यु॒गम् ।
प्र॒ऽजायै॑ । मृ॒त्यवे॑ । त्व॒त् । पुनः॑ । मा॒र्ता॒ण्डम् । आ । अ॒भ॒र॒त् ॥सप्तऽभिः । पुत्रैः । अदितिः । उप । प्र । ऐत् । पूर्व्यम् । युगम् ।
प्रऽजायै । मृत्यवे । त्वत् । पुनः । मार्ताण्डम् । आ । अभरत् ॥saptá-bhiḥ ǀ putráiḥ ǀ áditiḥ ǀ úpa ǀ prá ǀ ait ǀ pūrvyám ǀ yugám ǀ
pra-jā́yai ǀ mṛtyáve ǀ tvat ǀ púnaḥ ǀ mārtāṇḍám ǀ ā́ ǀ abharat ǁsapta-bhiḥ ǀ putraiḥ ǀ aditiḥ ǀ upa ǀ pra ǀ ait ǀ pūrvyam ǀ yugam ǀ
pra-jāyai ǀ mṛtyave ǀ tvat ǀ punaḥ ǀ mārtāṇḍam ǀ ā ǀ abharat ǁ10.72.9 Aṣṭaka 8.3.2.4Anuvāka 10.6.43
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.