Ṛgveda · Maṇḍala 10 · Sūkta 72

Ṛk 10.72.9

Devāḥ · Bṛhaspati Āṅgirasa Or Bṛhaspati Laukya Or Aditi Dākṣāyaṇī

The whole sūkta Link

Saṃhitā

स॒प्तभिः॑ पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गं ।
प्र॒जायै॑ मृ॒त्यवे॑ त्व॒त्पुन॑र्मार्तां॒डमाभ॑रत् ॥

सप्तभिः पुत्रैर् अदितिर् उप प्रैत् पूर्व्यं युगम् |
प्रजायै मृत्यवे त्वत् पुनर् मार्ताण्डम् आभरत् ||

saptábhiḥ putráiráditirúpa práitpūrvyám yugám ǀ
prajā́yai mṛtyáve tvatpúnarmārtāṇḍámā́bharat ǁ

saptabhiḥ putrair aditir upa prait pūrvyaṃ yugam |
prajāyai mṛtyave tvat punar mārtāṇḍam ābharat ||

Padapāṭha

स॒प्तऽभिः॑ । पु॒त्रैः । अदि॑तिः । उप॑ । प्र । ऐ॒त् । पू॒र्व्यम् । यु॒गम् ।
प्र॒ऽजायै॑ । मृ॒त्यवे॑ । त्व॒त् । पुनः॑ । मा॒र्ता॒ण्डम् । आ । अ॒भ॒र॒त् ॥

सप्तऽभिः । पुत्रैः । अदितिः । उप । प्र । ऐत् । पूर्व्यम् । युगम् ।
प्रऽजायै । मृत्यवे । त्वत् । पुनः । मार्ताण्डम् । आ । अभरत् ॥

saptá-bhiḥ ǀ putráiḥ ǀ áditiḥ ǀ úpa ǀ prá ǀ ait ǀ pūrvyám ǀ yugám ǀ
pra-jā́yai ǀ mṛtyáve ǀ tvat ǀ púnaḥ ǀ mārtāṇḍám ǀ ā́ ǀ abharat ǁ

sapta-bhiḥ ǀ putraiḥ ǀ aditiḥ ǀ upa ǀ pra ǀ ait ǀ pūrvyam ǀ yugam ǀ
pra-jāyai ǀ mṛtyave ǀ tvat ǀ punaḥ ǀ mārtāṇḍam ǀ ā ǀ abharat ǁ

References

Maṇḍala · Sūkta · Ṛk
10.072.09
Aṣṭaka · Adhyāya · Varga · Ṛk
8.3.02.04
Maṇḍala · Anuvāka · Ṛk
10.06.043
Devatā देवता
Devāḥ
Ṛṣi ऋषि
Bṛhaspati Āṅgirasa Or Bṛhaspati Laukya Or Aditi Dākṣāyaṇī
Chandas छन्दस्
Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.72.9

Interpretations

Sāyaṇa

पूर्वमन्त्रोक्त एवार्थह् पुनरत्रोच्यते। सप्तभिर्माताण्डव्यतिरिक्तैर्मित्रादिभिरदितिः पूर्व्यं पुराणम् युगमुपप्रैत्। उपगता। अथ प्रजायै प्रानिनामुत्पत्तये मृत्यवे तेषाम् मरणाय मार्ताण्डं म्रुताद्व्यृद्धादण्डाज्जातं मार्ताण्डनामानं सुर्यं पुनराभरत्। आहरत्। द्युलोकेऽधारयत्। प्राणिमरणजननादीनां सूर्योदयास्तमयायत्तता स्फुटा। तस्यै व्यृद्धमाण्डमजायतेत्यादि ब्राह्मणम्। तै. सं. ६-५-६-१। इति॥९॥