Ṛgveda · Maṇḍala 10 · Sūkta 73
Ṛk 10.73.1
Saṃhitā
जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ मं॒द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।
अव॑र्ध॒न्निंद्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥
जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः |
अवर्धन्न् इन्द्रम् मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा ||
jániṣṭhā ugráḥ sáhase turā́ya mandrá ójiṣṭho bahulā́bhimānaḥ ǀ
ávardhanníndram marútaścidátra mātā́ yádvīrám dadhánaddhániṣṭhā ǁ
janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ |
avardhann indram marutaś cid atra mātā yad vīraṃ dadhanad dhaniṣṭhā ||
Padapāṭha
जनि॑ष्ठाः । उ॒ग्रः । सह॑से । तु॒राय॑ । म॒न्द्रः । ओजि॑ष्ठः । ब॒हु॒लऽअ॑भिमानः ।
अव॑र्धन् । इन्द्र॑म् । म॒रुतः॑ । चि॒त् । अत्र॑ । मा॒ता । यत् । वी॒रम् । द॒धन॑त् । धनि॑ष्ठा ॥
जनिष्ठाः । उग्रः । सहसे । तुराय । मन्द्रः । ओजिष्ठः । बहुलऽअभिमानः ।
अवर्धन् । इन्द्रम् । मरुतः । चित् । अत्र । माता । यत् । वीरम् । दधनत् । धनिष्ठा ॥
jániṣṭhāḥ ǀ ugráḥ ǀ sáhase ǀ turā́ya ǀ mandráḥ ǀ ójiṣṭhaḥ ǀ bahulá-abhimānaḥ ǀ
ávardhan ǀ índram ǀ marútaḥ ǀ cit ǀ átra ǀ mātā́ ǀ yát ǀ vīrám ǀ dadhánat ǀ dhániṣṭhā ǁ
janiṣṭhāḥ ǀ ugraḥ ǀ sahase ǀ turāya ǀ mandraḥ ǀ ojiṣṭhaḥ ǀ bahula-abhimānaḥ ǀ
avardhan ǀ indram ǀ marutaḥ ǀ cit ǀ atra ǀ mātā ǀ yat ǀ vīram ǀ dadhanat ǀ dhaniṣṭhā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.073.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.03.01
- Maṇḍala · Anuvāka · Ṛk
- 10.06.044
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.