Ṛgveda · Maṇḍala 10 · Sūkta 73
Ṛk 10.73.3
Saṃhitā
ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा॑ उ॒त ये चि॒दत्र॑ ।
त्वमिं॑द्र सालावृ॒कान्त्स॒हस्र॑मा॒संद॑धिषे अ॒श्विना व॑वृत्याः ॥
ऋष्वा ते पादा प्र यज् जिगास्य् अवर्धन् वाजा उत ये चिद् अत्र |
त्वम् इन्द्र सालावृकान् सहस्रम् आसन् दधिषे अश्विना ववृत्याः ||
ṛṣvā́ te pā́dā prá yájjígāsyávardhanvā́jā utá yé cidátra ǀ
tvámindra sālāvṛkā́ntsahásramāsándadhiṣe aśvínā́ vavṛtyāḥ ǁ
ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra |
tvam indra sālāvṛkān sahasram āsan dadhiṣe aśvinā vavṛtyāḥ ||
Padapāṭha
ऋ॒ष्वा । ते॒ । पादा॑ । प्र । यत् । जिगा॑सि । अव॑र्धन् । वाजाः॑ । उ॒त । ये । चि॒त् । अत्र॑ ।
त्वम् । इ॒न्द्र॒ । सा॒ला॒वृ॒कान् । स॒हस्र॑म् । आ॒सन् । द॒धि॒षे॒ । अ॒श्विना॑ । आ । व॒वृ॒त्याः॒ ॥
ऋष्वा । ते । पादा । प्र । यत् । जिगासि । अवर्धन् । वाजाः । उत । ये । चित् । अत्र ।
त्वम् । इन्द्र । सालावृकान् । सहस्रम् । आसन् । दधिषे । अश्विना । आ । ववृत्याः ॥
ṛṣvā́ ǀ te ǀ pā́dā ǀ prá ǀ yát ǀ jígāsi ǀ ávardhan ǀ vā́jāḥ ǀ utá ǀ yé ǀ cit ǀ átra ǀ
tvám ǀ indra ǀ sālāvṛkā́n ǀ sahásram ǀ āsán ǀ dadhiṣe ǀ aśvínā ǀ ā́ ǀ vavṛtyāḥ ǁ
ṛṣvā ǀ te ǀ pādā ǀ pra ǀ yat ǀ jigāsi ǀ avardhan ǀ vājāḥ ǀ uta ǀ ye ǀ cit ǀ atra ǀ
tvam ǀ indra ǀ sālāvṛkān ǀ sahasram ǀ āsan ǀ dadhiṣe ǀ aśvinā ǀ ā ǀ vavṛtyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.073.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.03.03
- Maṇḍala · Anuvāka · Ṛk
- 10.06.046
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.