Ṛgveda · Maṇḍala 10

Sūkta 75

Sindhu · Sindhukṣit Praiyamedha · 9 ṛks

Link
Devatā देवता
Sindhu
Ṛṣi ऋषि
Sindhukṣit Praiyamedha
Chandas छन्दस्
Jagatī
Metres by ṛk

1st set of styles virāḍjagatī (2, 3); svarāḍārcījagatī (5, 7); pādanicṛjjgatī (8, 9); nicṛjjagatī (1); jagatī (4); bhurigārcījagatī (6)

2nd set of styles jagatī

  1. Ṛk 1

    प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः ।
    प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिंधु॒रोज॑सा ॥

    प्र सु व आपो महिमानम् उत्तमं कारुर् वोचाति सदने विवस्वतः |
    प्र सप्त-सप्त त्रेधा हि चक्रमुः प्र सृत्वरीणाम् अति सिन्धुर् ओजसा ||

    prá sú va āpo mahimā́namuttamám kārúrvocāti sádane vivásvataḥ ǀ
    prá saptásapta tredhā́ hí cakramúḥ prá sṛ́tvarīṇāmáti síndhurójasā ǁ

    pra su va āpo mahimānam uttamaṃ kārur vocāti sadane vivasvataḥ |
    pra sapta-sapta tredhā hi cakramuḥ pra sṛtvarīṇām ati sindhur ojasā ||

    प्र । सु । वः॒ । आ॒पः॒ । म॒हि॒मान॑म् । उ॒त्ऽत॒मम् । का॒रुः । वो॒चा॒ति॒ । सद॑ने । वि॒वस्व॑तः ।
    प्र । स॒प्तऽस॑प्त । त्रे॒धा । हि । च॒क्र॒मुः । प्र । सृत्व॑रीणाम् । अति॑ । सिन्धुः॑ । ओज॑सा ॥

    प्र । सु । वः । आपः । महिमानम् । उत्ऽतमम् । कारुः । वोचाति । सदने । विवस्वतः ।
    प्र । सप्तऽसप्त । त्रेधा । हि । चक्रमुः । प्र । सृत्वरीणाम् । अति । सिन्धुः । ओजसा ॥

    prá ǀ sú ǀ vaḥ ǀ āpaḥ ǀ mahimā́nam ǀ ut-tamám ǀ kārúḥ ǀ vocāti ǀ sádane ǀ vivásvataḥ ǀ
    prá ǀ saptá-sapta ǀ tredhā́ ǀ hí ǀ cakramúḥ ǀ prá ǀ sṛ́tvarīṇām ǀ áti ǀ síndhuḥ ǀ ójasā ǁ

    pra ǀ su ǀ vaḥ ǀ āpaḥ ǀ mahimānam ǀ ut-tamam ǀ kāruḥ ǀ vocāti ǀ sadane ǀ vivasvataḥ ǀ
    pra ǀ sapta-sapta ǀ tredhā ǀ hi ǀ cakramuḥ ǀ pra ǀ sṛtvarīṇām ǀ ati ǀ sindhuḥ ǀ ojasā ǁ

    10.75.1 Aṣṭaka 8.3.6.1Anuvāka 10.6.61

  2. Ṛk 2

    प्र ते॑ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिंधो॒ यद्वाजाँ॑ अ॒भ्यद्र॑व॒स्त्वं ।
    भूम्या॒ अधि॑ प्र॒वता॑ यासि॒ सानु॑ना॒ यदे॑षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ॥

    प्र ते ऽरदद् वरुणो यातवे पथः सिन्धो यद् वाजां अभ्य् अद्रवस् त्वम् |
    भूम्या अधि प्रवता यासि सानुना यद् एषाम् अग्रं जगताम् इरज्यसि ||

    prá te’radadváruṇo yā́tave patháḥ síndho yádvā́jām̐ abhyádravastvám ǀ
    bhū́myā ádhi pravátā yāsi sā́nunā yádeṣāmágram jágatāmirajyási ǁ

    pra te 'radad varuṇo yātave pathaḥ sindho yad vājāṃ abhy adravas tvam |
    bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṃ jagatām irajyasi ||

    प्र । ते॒ । अ॒र॒द॒त् । वरु॑णः । यात॑वे । प॒थः । सिन्धो॒ इति॑ । यत् । वाजा॑न् । अ॒भि । अद्र॑वः । त्वम् ।
    भूम्याः॑ । अधि॑ । प्र॒ऽवता॑ । या॒सि॒ । सानु॑ना । यत् । ए॒षा॒म् । अग्र॑म् । जग॑ताम् । इ॒र॒ज्यसि॑ ॥

    प्र । ते । अरदत् । वरुणः । यातवे । पथः । सिन्धो इति । यत् । वाजान् । अभि । अद्रवः । त्वम् ।
    भूम्याः । अधि । प्रऽवता । यासि । सानुना । यत् । एषाम् । अग्रम् । जगताम् । इरज्यसि ॥

    prá ǀ te ǀ aradat ǀ váruṇaḥ ǀ yā́tave ǀ patháḥ ǀ síndho íti ǀ yát ǀ vā́jān ǀ abhí ǀ ádravaḥ ǀ tvám ǀ
    bhū́myāḥ ǀ ádhi ǀ pra-vátā ǀ yāsi ǀ sā́nunā ǀ yát ǀ eṣām ǀ ágram ǀ jágatām ǀ irajyási ǁ

    pra ǀ te ǀ aradat ǀ varuṇaḥ ǀ yātave ǀ pathaḥ ǀ sindho iti ǀ yat ǀ vājān ǀ abhi ǀ adravaḥ ǀ tvam ǀ
    bhūmyāḥ ǀ adhi ǀ pra-vatā ǀ yāsi ǀ sānunā ǀ yat ǀ eṣām ǀ agram ǀ jagatām ǀ irajyasi ǁ

    10.75.2 Aṣṭaka 8.3.6.2Anuvāka 10.6.62

  3. Ṛk 3

    दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑नं॒तं शुष्म॒मुदि॑यर्ति भा॒नुना॑ ।
    अ॒भ्रादि॑व॒ प्र स्त॑नयंति वृ॒ष्टयः॒ सिंधु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ॥

    दिवि स्वनो यतते भूम्योपर्य् अनन्तं शुष्मम् उद् इयर्ति भानुना |
    अभ्राद् इव प्र स्तनयन्ति वृष्टयः सिन्धुर् यद् एति वृषभो न रोरुवत् ||

    diví svanó yatate bhū́myopáryanantám śúṣmamúdiyarti bhānúnā ǀ
    abhrā́diva prá stanayanti vṛṣṭáyaḥ síndhuryádéti vṛṣabhó ná róruvat ǁ

    divi svano yatate bhūmyopary anantaṃ śuṣmam ud iyarti bhānunā |
    abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat ||

    दि॒वि । स्व॒नः । य॒त॒ते॒ । भूम्या॑ । उ॒परि॑ । अ॒न॒न्तम् । शुष्म॑म् । उत् । इ॒य॒र्ति॒ । भा॒नुना॑ ।
    अ॒भ्रात्ऽइ॑व । प्र । स्त॒न॒य॒न्ति॒ । वृ॒ष्टयः॑ । सिन्धुः॑ । यत् । एति॑ । वृ॒ष॒भः । न । रोरु॑वत् ॥

    दिवि । स्वनः । यतते । भूम्या । उपरि । अनन्तम् । शुष्मम् । उत् । इयर्ति । भानुना ।
    अभ्रात्ऽइव । प्र । स्तनयन्ति । वृष्टयः । सिन्धुः । यत् । एति । वृषभः । न । रोरुवत् ॥

    diví ǀ svanáḥ ǀ yatate ǀ bhū́myā ǀ upári ǀ anantám ǀ śúṣmam ǀ út ǀ iyarti ǀ bhānúnā ǀ
    abhrā́t-iva ǀ prá ǀ stanayanti ǀ vṛṣṭáyaḥ ǀ síndhuḥ ǀ yát ǀ éti ǀ vṛṣabháḥ ǀ ná ǀ róruvat ǁ

    divi ǀ svanaḥ ǀ yatate ǀ bhūmyā ǀ upari ǀ anantam ǀ śuṣmam ǀ ut ǀ iyarti ǀ bhānunā ǀ
    abhrāt-iva ǀ pra ǀ stanayanti ǀ vṛṣṭayaḥ ǀ sindhuḥ ǀ yat ǀ eti ǀ vṛṣabhaḥ ǀ na ǀ roruvat ǁ

    10.75.3 Aṣṭaka 8.3.6.3Anuvāka 10.6.63

  4. Ṛk 4

    अ॒भि त्वा॑ सिंधो॒ शिशु॒मिन्न मा॒तरो॑ वा॒श्रा अ॑र्षंति॒ पय॑सेव धे॒नवः॑ ।
    राजे॑व॒ युध्वा॑ नयसि॒ त्वमित्सिचौ॒ यदा॑सा॒मग्रं॑ प्र॒वता॒मिन॑क्षसि ॥

    अभि त्वा सिन्धो शिशुम् इन् न मातरो वाश्रा अर्षन्ति पयसेव धेनवः |
    राजेव युध्वा नयसि त्वम् इत् सिचौ यद् आसाम् अग्रम् प्रवताम् इनक्षसि ||

    abhí tvā sindho śíśumínná mātáro vāśrā́ arṣanti páyaseva dhenávaḥ ǀ
    rā́jeva yúdhvā nayasi tvámítsícau yádāsāmágram pravátāmínakṣasi ǁ

    abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ |
    rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi ||

    अ॒भि । त्वा॒ । सि॒न्धो॒ इति॑ । शिशु॑म् । इत् । न । मा॒तरः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ ।
    राजा॑ऽइव । युध्वा॑ । न॒य॒सि॒ । त्वम् । इत् । सिचौ॑ । यत् । आ॒सा॒म् । अग्र॑म् । प्र॒ऽवता॑म् । इन॑क्षसि ॥

    अभि । त्वा । सिन्धो इति । शिशुम् । इत् । न । मातरः । वाश्राः । अर्षन्ति । पयसाऽइव । धेनवः ।
    राजाऽइव । युध्वा । नयसि । त्वम् । इत् । सिचौ । यत् । आसाम् । अग्रम् । प्रऽवताम् । इनक्षसि ॥

    abhí ǀ tvā ǀ sindho íti ǀ śíśum ǀ ít ǀ ná ǀ mātáraḥ ǀ vāśrā́ḥ ǀ arṣanti ǀ páyasā-iva ǀ dhenávaḥ ǀ
    rā́jā-iva ǀ yúdhvā ǀ nayasi ǀ tvám ǀ ít ǀ sícau ǀ yát ǀ āsām ǀ ágram ǀ pra-vátām ǀ ínakṣasi ǁ

    abhi ǀ tvā ǀ sindho iti ǀ śiśum ǀ it ǀ na ǀ mātaraḥ ǀ vāśrāḥ ǀ arṣanti ǀ payasā-iva ǀ dhenavaḥ ǀ
    rājā-iva ǀ yudhvā ǀ nayasi ǀ tvam ǀ it ǀ sicau ǀ yat ǀ āsām ǀ agram ǀ pra-vatām ǀ inakṣasi ǁ

    10.75.4 Aṣṭaka 8.3.6.4Anuvāka 10.6.64

  5. Ṛk 5

    इ॒मं मे॑ गंगे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या ।
    अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या ॥

    इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्य् आ |
    असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्य् आ सुषोमया ||

    imám me gaṅge yamune sarasvati śútudri stómam sacatā páruṣṇyā́ ǀ
    asiknyā́ marudvṛdhe vitástayā́rjīkīye śṛṇuhyā́ suṣómayā ǁ

    imam me gaṅge yamune sarasvati śutudri stomaṃ sacatā paruṣṇy ā |
    asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhy ā suṣomayā ||

    इ॒मम् । मे॒ । ग॒ङ्गे॒ । य॒मु॒ने॒ । स॒र॒स्व॒ति॒ । शुतु॑द्रि । स्तोम॑म् । स॒च॒त॒ । परु॑ष्णि । आ ।
    अ॒सि॒क्न्या । म॒रु॒त्ऽवृ॒धे॒ । वि॒तस्त॑या । आर्जी॑कीये । शृ॒णु॒हि । आ । सु॒ऽसोम॑या ॥

    इमम् । मे । गङ्गे । यमुने । सरस्वति । शुतुद्रि । स्तोमम् । सचत । परुष्णि । आ ।
    असिक्न्या । मरुत्ऽवृधे । वितस्तया । आर्जीकीये । शृणुहि । आ । सुऽसोमया ॥

    imám ǀ me ǀ gaṅge ǀ yamune ǀ sarasvati ǀ śútudri ǀ stómam ǀ sacata ǀ páruṣṇi ǀ ā́ ǀ
    asiknyā́ ǀ marut-vṛdhe ǀ vitástayā ǀ ā́rjīkīye ǀ śṛṇuhí ǀ ā́ ǀ su-sómayā ǁ

    imam ǀ me ǀ gaṅge ǀ yamune ǀ sarasvati ǀ śutudri ǀ stomam ǀ sacata ǀ paruṣṇi ǀ ā ǀ
    asiknyā ǀ marut-vṛdhe ǀ vitastayā ǀ ārjīkīye ǀ śṛṇuhi ǀ ā ǀ su-somayā ǁ

    10.75.5 Aṣṭaka 8.3.6.5Anuvāka 10.6.65

  6. Ṛk 6

    तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा॑ र॒सया॑ श्वे॒त्या त्या ।
    त्वं सिं॑धो॒ कुभ॑या गोम॒तीं क्रुमुं॑ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ॥

    तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या |
    त्वं सिन्धो कुभया गोमतीं क्रुमुम् मेहत्न्वा सरथं याभिर् ईयसे ||

    tṛṣṭā́mayā prathamám yā́tave sajū́ḥ susártvā rasáyā śvetyā́ tyā́ ǀ
    tvám sindho kúbhayā gomatī́m krúmum mehatnvā́ sarátham yā́bhirī́yase ǁ

    tṛṣṭāmayā prathamaṃ yātave sajūḥ susartvā rasayā śvetyā tyā |
    tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase ||

    तृ॒ष्टऽअ॑मया । प्र॒थ॒मम् । यात॑वे । स॒ऽजूः । सु॒ऽसर्त्वा॑ । र॒सया॑ । श्वे॒त्या । त्या ।
    त्वम् । सि॒न्धो॒ इति॑ । कुभ॑या । गो॒ऽम॒तीम् । क्रुमु॑म् । मे॒ह॒त्न्वा । स॒ऽरथ॑म् । याभिः॑ । ईय॑से ॥

    तृष्टऽअमया । प्रथमम् । यातवे । सऽजूः । सुऽसर्त्वा । रसया । श्वेत्या । त्या ।
    त्वम् । सिन्धो इति । कुभया । गोऽमतीम् । क्रुमुम् । मेहत्न्वा । सऽरथम् । याभिः । ईयसे ॥

    tṛṣṭá-amayā ǀ prathamám ǀ yā́tave ǀ sa-jū́ḥ ǀ su-sártvā ǀ rasáyā ǀ śvetyā́ ǀ tyā́ ǀ
    tvám ǀ sindho íti ǀ kúbhayā ǀ go-matī́m ǀ krúmum ǀ mehatnvā́ ǀ sa-rátham ǀ yā́bhiḥ ǀ ī́yase ǁ

    tṛṣṭa-amayā ǀ prathamam ǀ yātave ǀ sa-jūḥ ǀ su-sartvā ǀ rasayā ǀ śvetyā ǀ tyā ǀ
    tvam ǀ sindho iti ǀ kubhayā ǀ go-matīm ǀ krumum ǀ mehatnvā ǀ sa-ratham ǀ yābhiḥ ǀ īyase ǁ

    10.75.6 Aṣṭaka 8.3.7.1Anuvāka 10.6.66

  7. Ṛk 7

    ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां॑सि भरते॒ रजां॑सि ।
    अद॑ब्धा॒ सिंधु॑र॒पसा॑म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ॥

    ऋजीत्य् एनी रुशती महित्वा परि ज्रयांसि भरते रजांसि |
    अदब्धा सिन्धुर् अपसाम् अपस्तमाश्वा न चित्रा वपुषीव दर्शता ||

    ṛ́jītyénī rúśatī mahitvā́ pári jráyāṃsi bharate rájāṃsi ǀ
    ádabdhā síndhurapásāmapástamā́śvā ná citrā́ vápuṣīva darśatā́ ǁ

    ṛjīty enī ruśatī mahitvā pari jrayāṃsi bharate rajāṃsi |
    adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā ||

    ऋजी॑ती । एनी॑ । रुश॑ती । म॒हि॒ऽत्वा । परि॑ । ज्रयां॑सि । भ॒र॒ते॒ । रजां॑सि ।
    अद॑ब्धा । सिन्धुः॑ । अ॒पसा॑म् । अ॒पःऽत॑मा । अश्वा॑ । न । चि॒त्रा । वपु॑षीऽइव । द॒र्श॒ता ॥

    ऋजीती । एनी । रुशती । महिऽत्वा । परि । ज्रयांसि । भरते । रजांसि ।
    अदब्धा । सिन्धुः । अपसाम् । अपःऽतमा । अश्वा । न । चित्रा । वपुषीऽइव । दर्शता ॥

    ṛ́jītī ǀ énī ǀ rúśatī ǀ mahi-tvā́ ǀ pári ǀ jráyāṃsi ǀ bharate ǀ rájāṃsi ǀ
    ádabdhā ǀ síndhuḥ ǀ apásām ǀ apáḥ-tamā ǀ áśvā ǀ ná ǀ citrā́ ǀ vápuṣī-iva ǀ darśatā́ ǁ

    ṛjītī ǀ enī ǀ ruśatī ǀ mahi-tvā ǀ pari ǀ jrayāṃsi ǀ bharate ǀ rajāṃsi ǀ
    adabdhā ǀ sindhuḥ ǀ apasām ǀ apaḥ-tamā ǀ aśvā ǀ na ǀ citrā ǀ vapuṣī-iva ǀ darśatā ǁ

    10.75.7 Aṣṭaka 8.3.7.2Anuvāka 10.6.67

  8. Ṛk 8

    स्वश्वा॒ सिंधुः॑ सु॒रथा॑ सु॒वासा॑ हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी॑वती ।
    ऊर्णा॑वती युव॒तिः सी॒लमा॑वत्यु॒ताधि॑ वस्ते सु॒भगा॑ मधु॒वृधं॑ ॥

    स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती |
    ऊर्णावती युवतिः सीलमावत्य् उताधि वस्ते सुभगा मधुवृधम् ||

    sváśvā síndhuḥ suráthā suvā́sā hiraṇyáyī súkṛtā vājínīvatī ǀ
    ū́rṇāvatī yuvatíḥ sīlámāvatyutā́dhi vaste subhágā madhuvṛ́dham ǁ

    svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī |
    ūrṇāvatī yuvatiḥ sīlamāvaty utādhi vaste subhagā madhuvṛdham ||

    सु॒ऽअश्वा॑ । सिन्धुः॑ । सु॒ऽरथा॑ । सु॒ऽवासाः॑ । हि॒र॒ण्ययी॑ । सुऽकृ॑ता । वा॒जिनी॑ऽवती ।
    ऊर्णा॑ऽवती । यु॒व॒तिः । सी॒लमा॑ऽवती । उ॒त । अधि॑ । व॒स्ते॒ । सु॒ऽभगा॑ । म॒धु॒ऽवृध॑म् ॥

    सुऽअश्वा । सिन्धुः । सुऽरथा । सुऽवासाः । हिरण्ययी । सुऽकृता । वाजिनीऽवती ।
    ऊर्णाऽवती । युवतिः । सीलमाऽवती । उत । अधि । वस्ते । सुऽभगा । मधुऽवृधम् ॥

    su-áśvā ǀ síndhuḥ ǀ su-ráthā ǀ su-vā́sāḥ ǀ hiraṇyáyī ǀ sú-kṛtā ǀ vājínī-vatī ǀ
    ū́rṇā-vatī ǀ yuvatíḥ ǀ sīlámā-vatī ǀ utá ǀ ádhi ǀ vaste ǀ su-bhágā ǀ madhu-vṛ́dham ǁ

    su-aśvā ǀ sindhuḥ ǀ su-rathā ǀ su-vāsāḥ ǀ hiraṇyayī ǀ su-kṛtā ǀ vājinī-vatī ǀ
    ūrṇā-vatī ǀ yuvatiḥ ǀ sīlamā-vatī ǀ uta ǀ adhi ǀ vaste ǀ su-bhagā ǀ madhu-vṛdham ǁ

    10.75.8 Aṣṭaka 8.3.7.3Anuvāka 10.6.68

  9. Ṛk 9

    सु॒खं रथं॑ युयुजे॒ सिंधु॑र॒श्विनं॒ तेन॒ वाजं॑ सनिषद॒स्मिन्ना॒जौ ।
    म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिनः॑ ॥

    सुखं रथं युयुजे सिन्धुर् अश्विनं तेन वाजं सनिषद् अस्मिन्न् आजौ |
    महान् ह्य् अस्य महिमा पनस्यते ऽदब्धस्य स्वयशसो विरप्शिनः ||

    sukhám rátham yuyuje síndhuraśvínam téna vā́jam saniṣadasmínnājáu ǀ
    mahā́nhyásya mahimā́ panasyáté’dabdhasya sváyaśaso virapśínaḥ ǁ

    sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau |
    mahān hy asya mahimā panasyate 'dabdhasya svayaśaso virapśinaḥ ||

    सु॒ऽखम् । रथ॑म् । यु॒यु॒जे॒ । सिन्धुः॑ । अ॒श्विन॑म् । तेन॑ । वाज॑म् । स॒नि॒ष॒त् । अ॒स्मिन् । आ॒जौ ।
    म॒हान् । हि । अ॒स्य॒ । म॒हि॒मा । प॒न॒स्यते॑ । अद॑ब्धस्य । स्वऽय॑शसः । वि॒ऽर॒प्शिनः॑ ॥

    सुऽखम् । रथम् । युयुजे । सिन्धुः । अश्विनम् । तेन । वाजम् । सनिषत् । अस्मिन् । आजौ ।
    महान् । हि । अस्य । महिमा । पनस्यते । अदब्धस्य । स्वऽयशसः । विऽरप्शिनः ॥

    su-khám ǀ rátham ǀ yuyuje ǀ síndhuḥ ǀ aśvínam ǀ téna ǀ vā́jam ǀ saniṣat ǀ asmín ǀ ājáu ǀ
    mahā́n ǀ hí ǀ asya ǀ mahimā́ ǀ panasyáte ǀ ádabdhasya ǀ svá-yaśasaḥ ǀ vi-rapśínaḥ ǁ

    su-kham ǀ ratham ǀ yuyuje ǀ sindhuḥ ǀ aśvinam ǀ tena ǀ vājam ǀ saniṣat ǀ asmin ǀ ājau ǀ
    mahān ǀ hi ǀ asya ǀ mahimā ǀ panasyate ǀ adabdhasya ǀ sva-yaśasaḥ ǀ vi-rapśinaḥ ǁ

    10.75.9 Aṣṭaka 8.3.7.4Anuvāka 10.6.69

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.75 · Sindhu

Interpretations

Nolini Kanta Gupta

Ṛk 1

O WATERS, the Poet-Creator proclaims your supreme great­ness in the House of the Sun.The Waters move out in seven streams in each of three channels. Sindhu surpasses all hastening streams in her stupendous urge.

Ṛk 2

God Varuna dug out the path for your going when, O Sindhu, you rushed to meet the Plenitudes.You surge over the fields and up along the plateaus when you move in front of these moving streams as their Master and Ruler.

Ṛk 3

To the Heaven the echo perseveres. And on the Earth the Sindhu by her lustre impels upward the sweep of Infinity.It is as though from the clouds pour out floods of rain. Indeed as she flows down, the Sindhu comes roaring like a mighty bull.

Ṛk 4

Towards you, O Sindhu, as towards their child the Mothers bellowing rush forth, heavy with milk they are.Like a warrior king you take lead in the outpouring when you drive forward all these streamings.

Ṛk 5

O Ganga and Yamuna and Saraswati! O Shutudri with thy companion Parushni! Cling to this hymn to you.O Marutbridha with thy companion Asikni, O Arjikiya with thy companion Vitasta and Sushoma lend your ears to me.

Ṛk 6

The first on your way you joined with is Trishtama and then with Susartu and Rasa and Shwetya.O Sindhu, with Kubha you joined Gomati, and Krumu with Mehatnu: with all of them you move forward in one single movement.

Ṛk 7

Driving straight, bright and gleaming in her greatness, she overflows the wide spaces of speeding realms.Sindhu, inviolate, the greatest worker among workers, she is like a marvellous-hued steed, beautiful like the body of a woman.

Ṛk 8

Sindhu rides the perfect steed, drives a perfect chariot, wonderfully robed, golden-hued, great deeds she does, full of the plenitudes is she.Youthful she is, rich in fine fleece, rich in fibrous reeds, she glides over honey-bearing growths, she brings perfect delight (enjoyment).

Ṛk 9

Sindhu has yoked horses to her happy-going chariot. With that help she wins the plenitude in this sacrifice.Great is its greatness that is at work. It is inviolate, shines in its own glory, exuberant in its strength.