Sūkta 67
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Ayāsya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2-7, 11); triṣṭup (8-10, 12); virāṭtrisṭup (1)
2nd set of styles triṣṭubh
-
Ṛk 1
इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विंदत् ।
तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो॒ऽयास्य॑ उ॒क्थमिंद्रा॑य॒ शंस॑न् ॥इमां धियं सप्तशीर्ष्णीम् पिता न ऋतप्रजाताम् बृहतीम् अविन्दत् |
तुरीयं स्विज् जनयद् विश्वजन्यो ऽयास्य उक्थम् इन्द्राय शंसन् ||imā́m dhíyam saptáśīrṣṇīm pitā́ na ṛtáprajātām bṛhatī́mavindat ǀ
turī́yam svijjanayadviśvájanyo’yā́sya ukthámíndrāya śáṃsan ǁimāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat |
turīyaṃ svij janayad viśvajanyo 'yāsya uktham indrāya śaṃsan ||इ॒माम् । धिय॑म् । स॒प्तऽशी॑र्ष्णीम् । पि॒ता । नः॒ । ऋ॒तऽप्र॑जाताम् । बृ॒ह॒तीम् । अ॒वि॒न्द॒त् ।
तु॒रीय॑म् । स्वि॒त् । ज॒न॒य॒त् । वि॒श्वऽज॑न्यः । अ॒यास्यः॑ । उ॒क्थम् । इन्द्रा॑य । शंस॑न् ॥इमाम् । धियम् । सप्तऽशीर्ष्णीम् । पिता । नः । ऋतऽप्रजाताम् । बृहतीम् । अविन्दत् ।
तुरीयम् । स्वित् । जनयत् । विश्वऽजन्यः । अयास्यः । उक्थम् । इन्द्राय । शंसन् ॥imā́m ǀ dhíyam ǀ saptá-śīrṣṇīm ǀ pitā́ ǀ naḥ ǀ ṛtá-prajātām ǀ bṛhatī́m ǀ avindat ǀ
turī́yam ǀ svit ǀ janayat ǀ viśvá-janyaḥ ǀ ayā́syaḥ ǀ ukthám ǀ índrāya ǀ śáṃsan ǁimām ǀ dhiyam ǀ sapta-śīrṣṇīm ǀ pitā ǀ naḥ ǀ ṛta-prajātām ǀ bṛhatīm ǀ avindat ǀ
turīyam ǀ svit ǀ janayat ǀ viśva-janyaḥ ǀ ayāsyaḥ ǀ uktham ǀ indrāya ǀ śaṃsan ǁ10.67.1 Aṣṭaka 8.2.15.1Anuvāka 10.5.103
-
Ṛk 2
ऋ॒तं शंसं॑त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।
विप्रं॑ प॒दमंगि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नंत ॥ऋतं शंसन्त ऋजु दीध्याना दिवस् पुत्रासो असुरस्य वीराः |
विप्रम् पदम् अङ्गिरसो दधाना यज्ञस्य धाम प्रथमम् मनन्त ||ṛtám śáṃsanta ṛjú dī́dhyānā divásputrā́so ásurasya vīrā́ḥ ǀ
vípram padámáṅgiraso dádhānā yajñásya dhā́ma prathamám mananta ǁṛtaṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasya vīrāḥ |
vipram padam aṅgiraso dadhānā yajñasya dhāma prathamam mananta ||ऋ॒तम् । शंस॑न्तः । ऋ॒जु । दीध्या॑नाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः ।
विप्र॑म् । प॒दम् । अङ्गि॑रसः । दधा॑नाः । य॒ज्ञस्य॑ । धाम॑ । प्र॒थ॒मम् । म॒न॒न्त॒ ॥ऋतम् । शंसन्तः । ऋजु । दीध्यानाः । दिवः । पुत्रासः । असुरस्य । वीराः ।
विप्रम् । पदम् । अङ्गिरसः । दधानाः । यज्ञस्य । धाम । प्रथमम् । मनन्त ॥ṛtám ǀ śáṃsantaḥ ǀ ṛjú ǀ dī́dhyānāḥ ǀ diváḥ ǀ putrā́saḥ ǀ ásurasya ǀ vīrā́ḥ ǀ
vípram ǀ padám ǀ áṅgirasaḥ ǀ dádhānāḥ ǀ yajñásya ǀ dhā́ma ǀ prathamám ǀ mananta ǁṛtam ǀ śaṃsantaḥ ǀ ṛju ǀ dīdhyānāḥ ǀ divaḥ ǀ putrāsaḥ ǀ asurasya ǀ vīrāḥ ǀ
vipram ǀ padam ǀ aṅgirasaḥ ǀ dadhānāḥ ǀ yajñasya ǀ dhāma ǀ prathamam ǀ mananta ǁ10.67.2 Aṣṭaka 8.2.15.2Anuvāka 10.5.104
-
Ṛk 3
हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् ।
बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ॥हंसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् |
बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वां अगायत् ||haṃsáiriva sákhibhirvā́vadadbhiraśmanmáyāni náhanā vyásyan ǀ
bṛ́haspátirabhikánikradadgā́ utá prā́staudúcca vidvā́m̐ agāyat ǁhaṃsair iva sakhibhir vāvadadbhir aśmanmayāni nahanā vyasyan |
bṛhaspatir abhikanikradad gā uta prāstaud uc ca vidvāṃ agāyat ||हं॒सैःऽइ॑व । सखि॑ऽभिः । वाव॑दत्ऽभिः । अ॒श्म॒न्ऽमया॑नि । नह॑ना । वि॒ऽअस्य॑न् ।
बृह॒स्पतिः॑ । अ॒भि॒ऽकनि॑क्रदत् । गाः । उ॒त । प्र । अ॒स्तौ॒त् । उत् । च॒ । वि॒द्वान् । अ॒गा॒य॒त् ॥हंसैःऽइव । सखिऽभिः । वावदत्ऽभिः । अश्मन्ऽमयानि । नहना । विऽअस्यन् ।
बृहस्पतिः । अभिऽकनिक्रदत् । गाः । उत । प्र । अस्तौत् । उत् । च । विद्वान् । अगायत् ॥haṃsáiḥ-iva ǀ sákhi-bhiḥ ǀ vā́vadat-bhiḥ ǀ aśman-máyāni ǀ náhanā ǀ vi-ásyan ǀ
bṛ́haspátiḥ ǀ abhi-kánikradat ǀ gā́ḥ ǀ utá ǀ prá ǀ astaut ǀ út ǀ ca ǀ vidvā́n ǀ agāyat ǁhaṃsaiḥ-iva ǀ sakhi-bhiḥ ǀ vāvadat-bhiḥ ǀ aśman-mayāni ǀ nahanā ǀ vi-asyan ǀ
bṛhaspatiḥ ǀ abhi-kanikradat ǀ gāḥ ǀ uta ǀ pra ǀ astaut ǀ ut ǀ ca ǀ vidvān ǀ agāyat ǁ10.67.3 Aṣṭaka 8.2.15.3Anuvāka 10.5.105
-
Ṛk 4
अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठं॑ती॒रनृ॑तस्य॒ सेतौ॑ ।
बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ॥अवो द्वाभ्याम् पर एकया गा गुहा तिष्ठन्तीर् अनृतस्य सेतौ |
बृहस्पतिस् तमसि ज्योतिर् इच्छन्न् उद् उस्रा आकर् वि हि तिस्र आवः ||avó dvā́bhyām pará ékayā gā́ gúhā tíṣṭhantīránṛtasya sétau ǀ
bṛ́haspátistámasi jyótiricchánnúdusrā́ ā́karví hí tisrá ā́vaḥ ǁavo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau |
bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ ||अ॒वः । द्वाभ्या॑म् । प॒रः । एक॑या । गाः । गुहा॑ । तिष्ठ॑न्तीः । अनृ॑तस्य । सेतौ॑ ।
बृह॒स्पतिः॑ । तम॑सि । ज्योतिः॑ । इ॒च्छन् । उत् । उ॒स्राः । आ । अ॒कः॒ । वि । हि । ति॒स्रः । आव॒रित्यावः॑ ॥अवः । द्वाभ्याम् । परः । एकया । गाः । गुहा । तिष्ठन्तीः । अनृतस्य । सेतौ ।
बृहस्पतिः । तमसि । ज्योतिः । इच्छन् । उत् । उस्राः । आ । अकः । वि । हि । तिस्रः । आवरित्यावः ॥aváḥ ǀ dvā́bhyām ǀ paráḥ ǀ ékayā ǀ gā́ḥ ǀ gúhā ǀ tíṣṭhantīḥ ǀ ánṛtasya ǀ sétau ǀ
bṛ́haspátiḥ ǀ támasi ǀ jyótiḥ ǀ icchán ǀ út ǀ usrā́ḥ ǀ ā́ ǀ akaḥ ǀ ví ǀ hí ǀ tisráḥ ǀ ā́varítyāvaḥ ǁavaḥ ǀ dvābhyām ǀ paraḥ ǀ ekayā ǀ gāḥ ǀ guhā ǀ tiṣṭhantīḥ ǀ anṛtasya ǀ setau ǀ
bṛhaspatiḥ ǀ tamasi ǀ jyotiḥ ǀ icchan ǀ ut ǀ usrāḥ ǀ ā ǀ akaḥ ǀ vi ǀ hi ǀ tisraḥ ǀ āvarityāvaḥ ǁ10.67.4 Aṣṭaka 8.2.15.4Anuvāka 10.5.106
-
Ṛk 5
वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृंतत् ।
बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ॥विभिद्या पुरं शयथेम् अपाचीं निस् त्रीणि साकम् उदधेर् अकृन्तत् |
बृहस्पतिर् उषसं सूर्यं गाम् अर्कं विवेद स्तनयन्न् इव द्यौः ||vibhídyā púram śayáthemápācīm nístrī́ṇi sākámudadhérakṛntat ǀ
bṛ́haspátiruṣásam sū́ryam gā́markám viveda stanáyanniva dyáuḥ ǁvibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat |
bṛhaspatir uṣasaṃ sūryaṃ gām arkaṃ viveda stanayann iva dyauḥ ||वि॒ऽभिद्य॑ । पुर॑म् । श॒यथा॑ । ई॒म् । अपा॑चीम् । निः । त्रीणि॑ । सा॒कम् । उ॒द॒ऽधेः । अ॒कृ॒न्त॒त् ।
बृह॒स्पतिः॑ । उ॒षस॑म् । सूर्य॑म् । गाम् । अ॒र्कम् । वि॒वे॒द॒ । स्त॒नय॑न्ऽइव । द्यौः ॥विऽभिद्य । पुरम् । शयथा । ईम् । अपाचीम् । निः । त्रीणि । साकम् । उदऽधेः । अकृन्तत् ।
बृहस्पतिः । उषसम् । सूर्यम् । गाम् । अर्कम् । विवेद । स्तनयन्ऽइव । द्यौः ॥vi-bhídya ǀ púram ǀ śayáthā ǀ īm ǀ ápācīm ǀ níḥ ǀ trī́ṇi ǀ sākám ǀ uda-dhéḥ ǀ akṛntat ǀ
bṛ́haspátiḥ ǀ uṣásam ǀ sū́ryam ǀ gā́m ǀ arkám ǀ viveda ǀ stanáyan-iva ǀ dyáuḥ ǁvi-bhidya ǀ puram ǀ śayathā ǀ īm ǀ apācīm ǀ niḥ ǀ trīṇi ǀ sākam ǀ uda-dheḥ ǀ akṛntat ǀ
bṛhaspatiḥ ǀ uṣasam ǀ sūryam ǀ gām ǀ arkam ǀ viveda ǀ stanayan-iva ǀ dyauḥ ǁ10.67.5 Aṣṭaka 8.2.15.5Anuvāka 10.5.107
-
Ṛk 6
इंद्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण ।
स्वेदां॑जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो॑दयत्प॒णिमा गा अ॑मुष्णात् ॥इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण |
स्वेदाञ्जिभिर् आशिरम् इच्छमानो ऽरोदयत् पणिम् आ गा अमुष्णात् ||índro valám rakṣitā́ram dúghānām karéṇeva ví cakartā ráveṇa ǀ
svédāñjibhirāśíramicchámānó’rodayatpaṇímā́ gā́ amuṣṇāt ǁindro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa |
svedāñjibhir āśiram icchamāno 'rodayat paṇim ā gā amuṣṇāt ||इन्द्रः॑ । व॒लम् । र॒क्षि॒तार॑म् । दुघा॑नाम् । क॒रेण॑ऽइव । वि । च॒क॒र्त॒ । रवे॑ण ।
स्वेदा॑ञ्जिऽभिः । आ॒ऽशिर॑म् । इ॒च्छमा॑नः । अरो॑दयत् । प॒णिम् । आ । गाः । अ॒मु॒ष्णा॒त् ॥इन्द्रः । वलम् । रक्षितारम् । दुघानाम् । करेणऽइव । वि । चकर्त । रवेण ।
स्वेदाञ्जिऽभिः । आऽशिरम् । इच्छमानः । अरोदयत् । पणिम् । आ । गाः । अमुष्णात् ॥índraḥ ǀ valám ǀ rakṣitā́ram ǀ dúghānām ǀ karéṇa-iva ǀ ví ǀ cakarta ǀ ráveṇa ǀ
svédāñji-bhiḥ ǀ ā-śíram ǀ icchámānaḥ ǀ árodayat ǀ paṇím ǀ ā́ ǀ gā́ḥ ǀ amuṣṇāt ǁindraḥ ǀ valam ǀ rakṣitāram ǀ dughānām ǀ kareṇa-iva ǀ vi ǀ cakarta ǀ raveṇa ǀ
svedāñji-bhiḥ ǀ ā-śiram ǀ icchamānaḥ ǀ arodayat ǀ paṇim ǀ ā ǀ gāḥ ǀ amuṣṇāt ǁ10.67.6 Aṣṭaka 8.2.15.6Anuvāka 10.5.108
-
Ṛk 7
स ईं॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः ।
ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ॥स ईं सत्येभिः सखिभिः शुचद्भिर् गोधायसं वि धनसैर् अदर्दः |
ब्रह्मणस् पतिर् वृषभिर् वराहैर् घर्मस्वेदेभिर् द्रविणं व्य् आनट् ||sá īm satyébhiḥ sákhibhiḥ śucádbhirgódhāyasam ví dhanasáiradardaḥ ǀ
bráhmaṇaspátirvṛ́ṣabhirvarā́hairgharmásvedebhirdráviṇam vyānaṭ ǁsa īṃ satyebhiḥ sakhibhiḥ śucadbhir godhāyasaṃ vi dhanasair adardaḥ |
brahmaṇas patir vṛṣabhir varāhair gharmasvedebhir draviṇaṃ vy ānaṭ ||सः । ई॒म् । स॒त्येभिः॑ । सखि॑ऽभिः । शु॒चत्ऽभिः॑ । गोऽधा॑यसम् । वि । ध॒न॒ऽसैः । अ॒द॒र्द॒रित्य॑दर्दः ।
ब्रह्म॑णः । पतिः॑ । वृष॑ऽभिः । व॒राहैः॑ । घ॒र्मऽस्वे॑देभिः । द्रवि॑णम् । वि । आ॒न॒ट् ॥सः । ईम् । सत्येभिः । सखिऽभिः । शुचत्ऽभिः । गोऽधायसम् । वि । धनऽसैः । अदर्दरित्यदर्दः ।
ब्रह्मणः । पतिः । वृषऽभिः । वराहैः । घर्मऽस्वेदेभिः । द्रविणम् । वि । आनट् ॥sáḥ ǀ īm ǀ satyébhiḥ ǀ sákhi-bhiḥ ǀ śucát-bhiḥ ǀ gó-dhāyasam ǀ ví ǀ dhana-sáiḥ ǀ adardarítyadardaḥ ǀ
bráhmaṇaḥ ǀ pátiḥ ǀ vṛ́ṣa-bhiḥ ǀ varā́haiḥ ǀ gharmá-svedebhiḥ ǀ dráviṇam ǀ ví ǀ ānaṭ ǁsaḥ ǀ īm ǀ satyebhiḥ ǀ sakhi-bhiḥ ǀ śucat-bhiḥ ǀ go-dhāyasam ǀ vi ǀ dhana-saiḥ ǀ adardarityadardaḥ ǀ
brahmaṇaḥ ǀ patiḥ ǀ vṛṣa-bhiḥ ǀ varāhaiḥ ǀ gharma-svedebhiḥ ǀ draviṇam ǀ vi ǀ ānaṭ ǁ10.67.7 Aṣṭaka 8.2.16.1Anuvāka 10.5.109
-
Ṛk 8
ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयंत धी॒भिः ।
बृह॒स्पति॑र्मि॒थोअ॑वद्यपेभि॒रुदु॒स्रिया॑ असृजत स्व॒युग्भिः॑ ॥ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः |
बृहस्पतिर् मिथोअवद्यपेभिर् उद् उस्रिया असृजत स्वयुग्भिः ||té satyéna mánasā gópatim gā́ iyānā́sa iṣaṇayanta dhībhíḥ ǀ
bṛ́haspátirmithóavadyapebhirúdusríyā asṛjata svayúgbhiḥ ǁte satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ |
bṛhaspatir mithoavadyapebhir ud usriyā asṛjata svayugbhiḥ ||ते । स॒त्येन॑ । मन॑सा । गोऽप॑तिम् । गाः । इ॒या॒नासः॑ । इ॒ष॒ण॒य॒न्त॒ । धी॒भिः ।
बृह॒स्पतिः॑ । मि॒थःऽअ॑वद्यपेभिः । उत् । उ॒स्रियाः॑ । अ॒सृ॒ज॒त॒ । स्व॒युक्ऽभिः॑ ॥ते । सत्येन । मनसा । गोऽपतिम् । गाः । इयानासः । इषणयन्त । धीभिः ।
बृहस्पतिः । मिथःऽअवद्यपेभिः । उत् । उस्रियाः । असृजत । स्वयुक्ऽभिः ॥té ǀ satyéna ǀ mánasā ǀ gó-patim ǀ gā́ḥ ǀ iyānā́saḥ ǀ iṣaṇayanta ǀ dhībhíḥ ǀ
bṛ́haspátiḥ ǀ mitháḥ-avadyapebhiḥ ǀ út ǀ usríyāḥ ǀ asṛjata ǀ svayúk-bhiḥ ǁte ǀ satyena ǀ manasā ǀ go-patim ǀ gāḥ ǀ iyānāsaḥ ǀ iṣaṇayanta ǀ dhībhiḥ ǀ
bṛhaspatiḥ ǀ mithaḥ-avadyapebhiḥ ǀ ut ǀ usriyāḥ ǀ asṛjata ǀ svayuk-bhiḥ ǁ10.67.8 Aṣṭaka 8.2.16.2Anuvāka 10.5.110
-
Ṛk 9
तं व॒र्धयं॑तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑ ।
बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुं ॥तं वर्धयन्तो मतिभिः शिवाभिः सिंहम् इव नानदतं सधस्थे |
बृहस्पतिं वृषणं शूरसातौ भरे-भरे अनु मदेम जिष्णुम् ||tám vardháyanto matíbhiḥ śivā́bhiḥ siṃhámiva nā́nadatam sadhásthe ǀ
bṛ́haspátim vṛ́ṣaṇam śū́rasātau bhárebhare ánu madema jiṣṇúm ǁtaṃ vardhayanto matibhiḥ śivābhiḥ siṃham iva nānadataṃ sadhasthe |
bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare-bhare anu madema jiṣṇum ||तम् । व॒र्धय॑न्तः । म॒तिऽभिः॑ । शि॒वाभिः॑ । सिं॒हम्ऽइ॑व । नान॑दतम् । स॒धऽस्थे॑ ।
बृह॒स्पति॑म् । वृष॑णम् । शूर॑ऽसातौ । भरे॑ऽभरे । अनु॑ । म॒दे॒म॒ । जि॒ष्णुम् ॥तम् । वर्धयन्तः । मतिऽभिः । शिवाभिः । सिंहम्ऽइव । नानदतम् । सधऽस्थे ।
बृहस्पतिम् । वृषणम् । शूरऽसातौ । भरेऽभरे । अनु । मदेम । जिष्णुम् ॥tám ǀ vardháyantaḥ ǀ matí-bhiḥ ǀ śivā́bhiḥ ǀ siṃhám-iva ǀ nā́nadatam ǀ sadhá-sthe ǀ
bṛ́haspátim ǀ vṛ́ṣaṇam ǀ śū́ra-sātau ǀ bháre-bhare ǀ ánu ǀ madema ǀ jiṣṇúm ǁtam ǀ vardhayantaḥ ǀ mati-bhiḥ ǀ śivābhiḥ ǀ siṃham-iva ǀ nānadatam ǀ sadha-sthe ǀ
bṛhaspatim ǀ vṛṣaṇam ǀ śūra-sātau ǀ bhare-bhare ǀ anu ǀ madema ǀ jiṣṇum ǁ10.67.9 Aṣṭaka 8.2.16.3Anuvāka 10.5.111
-
Ṛk 10
य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ ।
बृह॒स्पतिं॒ वृष॑णं व॒र्धयं॑तो॒ नाना॒ संतो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥यदा वाजम् असनद् विश्वरूपम् आ द्याम् अरुक्षद् उत्तराणि सद्म |
बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिर् आसा ||yadā́ vā́jamásanadviśvárūpamā́ dyā́márukṣadúttarāṇi sádma ǀ
bṛ́haspátim vṛ́ṣaṇam vardháyanto nā́nā sánto bíbhrato jyótirāsā́ ǁyadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma |
bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotir āsā ||य॒दा । वाज॑म् । अस॑नत् । वि॒श्वऽरू॑पम् । आ । द्याम् । अरु॑क्षत् । उत्ऽत॑राणि । सद्म॑ ।
बृह॒स्पति॑म् । वृष॑णम् । व॒र्धय॑न्तः । नाना॑ । सन्तः॑ । बिभ्र॑तः । ज्योतिः॑ । आ॒सा ॥यदा । वाजम् । असनत् । विश्वऽरूपम् । आ । द्याम् । अरुक्षत् । उत्ऽतराणि । सद्म ।
बृहस्पतिम् । वृषणम् । वर्धयन्तः । नाना । सन्तः । बिभ्रतः । ज्योतिः । आसा ॥yadā́ ǀ vā́jam ǀ ásanat ǀ viśvá-rūpam ǀ ā́ ǀ dyā́m ǀ árukṣat ǀ út-tarāṇi ǀ sádma ǀ
bṛ́haspátim ǀ vṛ́ṣaṇam ǀ vardháyantaḥ ǀ nā́nā ǀ sántaḥ ǀ bíbhrataḥ ǀ jyótiḥ ǀ āsā́ ǁyadā ǀ vājam ǀ asanat ǀ viśva-rūpam ǀ ā ǀ dyām ǀ arukṣat ǀ ut-tarāṇi ǀ sadma ǀ
bṛhaspatim ǀ vṛṣaṇam ǀ vardhayantaḥ ǀ nānā ǀ santaḥ ǀ bibhrataḥ ǀ jyotiḥ ǀ āsā ǁ10.67.10 Aṣṭaka 8.2.16.4Anuvāka 10.5.112
-
Ṛk 11
स॒त्यामा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑ ।
प॒श्चा मृधो॒ अप॑ भवंतु॒ विश्वा॒स्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ॥सत्याम् आशिषं कृणुता वयोधै कीरिं चिद् ध्य् अवथ स्वेभिर् एवैः |
पश्चा मृधो अप भवन्तु विश्वास् तद् रोदसी शृणुतं विश्वमिन्वे ||satyā́māśíṣam kṛṇutā vayodhái kīrím ciddhyávatha svébhirévaiḥ ǀ
paścā́ mṛ́dho ápa bhavantu víśvāstádrodasī śṛṇutam viśvaminvé ǁsatyām āśiṣaṃ kṛṇutā vayodhai kīriṃ cid dhy avatha svebhir evaiḥ |
paścā mṛdho apa bhavantu viśvās tad rodasī śṛṇutaṃ viśvaminve ||स॒त्याम् । आ॒ऽशिष॑म् । कृ॒णु॒त॒ । व॒यः॒ऽधै । की॒रिम् । चि॒त् । हि । अव॑थ । स्वेभिः॑ । एवैः॑ ।
प॒श्चा । मृधः॑ । अप॑ । भ॒व॒न्तु॒ । विश्वाः॑ । तत् । रो॒द॒सी॒ इति॑ । शृ॒णु॒त॒म् । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे ॥सत्याम् । आऽशिषम् । कृणुत । वयःऽधै । कीरिम् । चित् । हि । अवथ । स्वेभिः । एवैः ।
पश्चा । मृधः । अप । भवन्तु । विश्वाः । तत् । रोदसी इति । शृणुतम् । विश्वमिन्वे इति विश्वम्ऽइन्वे ॥satyā́m ǀ ā-śíṣam ǀ kṛṇuta ǀ vayaḥ-dhái ǀ kīrím ǀ cit ǀ hí ǀ ávatha ǀ svébhiḥ ǀ évaiḥ ǀ
paścā́ ǀ mṛ́dhaḥ ǀ ápa ǀ bhavantu ǀ víśvāḥ ǀ tát ǀ rodasī íti ǀ śṛṇutam ǀ viśvaminvé íti viśvam-invé ǁsatyām ǀ ā-śiṣam ǀ kṛṇuta ǀ vayaḥ-dhai ǀ kīrim ǀ cit ǀ hi ǀ avatha ǀ svebhiḥ ǀ evaiḥ ǀ
paścā ǀ mṛdhaḥ ǀ apa ǀ bhavantu ǀ viśvāḥ ǀ tat ǀ rodasī iti ǀ śṛṇutam ǀ viśvaminve iti viśvam-inve ǁ10.67.11 Aṣṭaka 8.2.16.5Anuvāka 10.5.113
-
Ṛk 12
इंद्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ ।
अह॒न्नहि॒मरि॑णात्स॒प्त सिंधूं॑दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानम् अभिनद् अर्बुदस्य |
अहन्न् अहिम् अरिणात् सप्त सिन्धून् देवैर् द्यावापृथिवी प्रावतं नः ||índro mahnā́ maható arṇavásya ví mūrdhā́namabhinadarbudásya ǀ
áhannáhimáriṇātsaptá síndhūndeváirdyāvāpṛthivī prā́vatam naḥ ǁindro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya |
ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ ||इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । वि । मू॒र्धान॑म् । अ॒भि॒न॒त् । अ॒र्बु॒दस्य॑ ।
अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥इन्द्रः । मह्ना । महतः । अर्णवस्य । वि । मूर्धानम् । अभिनत् । अर्बुदस्य ।
अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥índraḥ ǀ mahnā́ ǀ mahatáḥ ǀ arṇavásya ǀ ví ǀ mūrdhā́nam ǀ abhinat ǀ arbudásya ǀ
áhan ǀ áhim ǀ áriṇāt ǀ saptá ǀ síndhūn ǀ deváiḥ ǀ dyāvāpṛthivī íti ǀ prá ǀ avatam ǀ naḥ ǁindraḥ ǀ mahnā ǀ mahataḥ ǀ arṇavasya ǀ vi ǀ mūrdhānam ǀ abhinat ǀ arbudasya ǀ
ahan ǀ ahim ǀ ariṇāt ǀ sapta ǀ sindhūn ǀ devaiḥ ǀ dyāvāpṛthivī iti ǀ pra ǀ avatam ǀ naḥ ǁ10.67.12 Aṣṭaka 8.2.16.6Anuvāka 10.5.114
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.