Ṛgveda · Maṇḍala 10 · Sūkta 67
Ṛk 10.67.10
Saṃhitā
य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ ।
बृह॒स्पतिं॒ वृष॑णं व॒र्धयं॑तो॒ नाना॒ संतो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥
यदा वाजम् असनद् विश्वरूपम् आ द्याम् अरुक्षद् उत्तराणि सद्म |
बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिर् आसा ||
yadā́ vā́jamásanadviśvárūpamā́ dyā́márukṣadúttarāṇi sádma ǀ
bṛ́haspátim vṛ́ṣaṇam vardháyanto nā́nā sánto bíbhrato jyótirāsā́ ǁ
yadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma |
bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotir āsā ||
Padapāṭha
य॒दा । वाज॑म् । अस॑नत् । वि॒श्वऽरू॑पम् । आ । द्याम् । अरु॑क्षत् । उत्ऽत॑राणि । सद्म॑ ।
बृह॒स्पति॑म् । वृष॑णम् । व॒र्धय॑न्तः । नाना॑ । सन्तः॑ । बिभ्र॑तः । ज्योतिः॑ । आ॒सा ॥
यदा । वाजम् । असनत् । विश्वऽरूपम् । आ । द्याम् । अरुक्षत् । उत्ऽतराणि । सद्म ।
बृहस्पतिम् । वृषणम् । वर्धयन्तः । नाना । सन्तः । बिभ्रतः । ज्योतिः । आसा ॥
yadā́ ǀ vā́jam ǀ ásanat ǀ viśvá-rūpam ǀ ā́ ǀ dyā́m ǀ árukṣat ǀ út-tarāṇi ǀ sádma ǀ
bṛ́haspátim ǀ vṛ́ṣaṇam ǀ vardháyantaḥ ǀ nā́nā ǀ sántaḥ ǀ bíbhrataḥ ǀ jyótiḥ ǀ āsā́ ǁ
yadā ǀ vājam ǀ asanat ǀ viśva-rūpam ǀ ā ǀ dyām ǀ arukṣat ǀ ut-tarāṇi ǀ sadma ǀ
bṛhaspatim ǀ vṛṣaṇam ǀ vardhayantaḥ ǀ nānā ǀ santaḥ ǀ bibhrataḥ ǀ jyotiḥ ǀ āsā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.067.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.16.04
- Maṇḍala · Anuvāka · Ṛk
- 10.05.112
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Ayāsya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.