Ṛgveda · Maṇḍala 10 · Sūkta 67
Ṛk 10.67.1
Saṃhitā
इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विंदत् ।
तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो॒ऽयास्य॑ उ॒क्थमिंद्रा॑य॒ शंस॑न् ॥
इमां धियं सप्तशीर्ष्णीम् पिता न ऋतप्रजाताम् बृहतीम् अविन्दत् |
तुरीयं स्विज् जनयद् विश्वजन्यो ऽयास्य उक्थम् इन्द्राय शंसन् ||
imā́m dhíyam saptáśīrṣṇīm pitā́ na ṛtáprajātām bṛhatī́mavindat ǀ
turī́yam svijjanayadviśvájanyo’yā́sya ukthámíndrāya śáṃsan ǁ
imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat |
turīyaṃ svij janayad viśvajanyo 'yāsya uktham indrāya śaṃsan ||
Padapāṭha
इ॒माम् । धिय॑म् । स॒प्तऽशी॑र्ष्णीम् । पि॒ता । नः॒ । ऋ॒तऽप्र॑जाताम् । बृ॒ह॒तीम् । अ॒वि॒न्द॒त् ।
तु॒रीय॑म् । स्वि॒त् । ज॒न॒य॒त् । वि॒श्वऽज॑न्यः । अ॒यास्यः॑ । उ॒क्थम् । इन्द्रा॑य । शंस॑न् ॥
इमाम् । धियम् । सप्तऽशीर्ष्णीम् । पिता । नः । ऋतऽप्रजाताम् । बृहतीम् । अविन्दत् ।
तुरीयम् । स्वित् । जनयत् । विश्वऽजन्यः । अयास्यः । उक्थम् । इन्द्राय । शंसन् ॥
imā́m ǀ dhíyam ǀ saptá-śīrṣṇīm ǀ pitā́ ǀ naḥ ǀ ṛtá-prajātām ǀ bṛhatī́m ǀ avindat ǀ
turī́yam ǀ svit ǀ janayat ǀ viśvá-janyaḥ ǀ ayā́syaḥ ǀ ukthám ǀ índrāya ǀ śáṃsan ǁ
imām ǀ dhiyam ǀ sapta-śīrṣṇīm ǀ pitā ǀ naḥ ǀ ṛta-prajātām ǀ bṛhatīm ǀ avindat ǀ
turīyam ǀ svit ǀ janayat ǀ viśva-janyaḥ ǀ ayāsyaḥ ǀ uktham ǀ indrāya ǀ śaṃsan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.067.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.15.01
- Maṇḍala · Anuvāka · Ṛk
- 10.05.103
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Ayāsya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.