Ṛgveda · Maṇḍala 10 · Sūkta 67

Ṛk 10.67.12

Bṛhaspati · Ayāsya Āṅgirasa

The whole sūkta Link

Saṃhitā

इंद्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ ।
अह॒न्नहि॒मरि॑णात्स॒प्त सिंधूं॑दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥

इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानम् अभिनद् अर्बुदस्य |
अहन्न् अहिम् अरिणात् सप्त सिन्धून् देवैर् द्यावापृथिवी प्रावतं नः ||

índro mahnā́ maható arṇavásya ví mūrdhā́namabhinadarbudásya ǀ
áhannáhimáriṇātsaptá síndhūndeváirdyāvāpṛthivī prā́vatam naḥ ǁ

indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya |
ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ ||

Padapāṭha

इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । वि । मू॒र्धान॑म् । अ॒भि॒न॒त् । अ॒र्बु॒दस्य॑ ।
अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥

इन्द्रः । मह्ना । महतः । अर्णवस्य । वि । मूर्धानम् । अभिनत् । अर्बुदस्य ।
अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥

índraḥ ǀ mahnā́ ǀ mahatáḥ ǀ arṇavásya ǀ ví ǀ mūrdhā́nam ǀ abhinat ǀ arbudásya ǀ
áhan ǀ áhim ǀ áriṇāt ǀ saptá ǀ síndhūn ǀ deváiḥ ǀ dyāvāpṛthivī íti ǀ prá ǀ avatam ǀ naḥ ǁ

indraḥ ǀ mahnā ǀ mahataḥ ǀ arṇavasya ǀ vi ǀ mūrdhānam ǀ abhinat ǀ arbudasya ǀ
ahan ǀ ahim ǀ ariṇāt ǀ sapta ǀ sindhūn ǀ devaiḥ ǀ dyāvāpṛthivī iti ǀ pra ǀ avatam ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.067.12
Aṣṭaka · Adhyāya · Varga · Ṛk
8.2.16.06
Maṇḍala · Anuvāka · Ṛk
10.05.114
Devatā देवता
Bṛhaspati
Ṛṣi ऋषि
Ayāsya Āṅgirasa
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.67.12

Interpretations

Sāyaṇa

इन्द्र ईश्वरो मह्ना महत्त्वेन युक्तो बृहस्पतिर्महतो अर्णवस्योदकवतोऽर्बुदस्यांबुदस्य मेघस्य मूर्धानं शिरो व्यभिनत्। व्यच्छिनत्। तदुच्यते। अहिमहंतव्यमपामावरकं शत्रुमहन्। अवधित्। अतः सप्त सर्पणशीलाः सिन्धून् स्यन्दमाना अपः। यद्वा। सप्तसङ्ख्याका गाङ्गाद्या नदीः। अरिणात्। समुद्रं प्रत्यगमयत्। अथ प्रत्यक्षकृतः। हे द्यावापृथिव्यौ देवैः सह नोऽस्मान्प्रवतम्। प्ररक्शतम्॥१२॥