Ṛgveda · Maṇḍala 10

Sūkta 74

Indra · Gaurivīti Śāktya · 6 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Gaurivīti Śāktya
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles pādanicṛttriṣṭup (1, 4); nicṛttriṣṭup (2, 5); bhurigārcītriṣṭup (3); virāṭtrisṭup (6)

2nd set of styles triṣṭubh

  1. Ṛk 1

    वसू॑नां वा चर्कृष॒ इय॑क्षंधि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः ।
    अर्वं॑तो वा॒ ये र॑यि॒मंतः॑ सा॒तौ व॒नुं वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ॥

    वसूनां वा चर्कृष इयक्षन् धिया वा यज्ञैर् वा रोदस्योः |
    अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः ||

    vásūnām vā carkṛṣa íyakṣandhiyā́ vā yajñáirvā ródasyoḥ ǀ
    árvanto vā yé rayimántaḥ sātáu vanúm vā yé suśrúṇam suśrúto dhúḥ ǁ

    vasūnāṃ vā carkṛṣa iyakṣan dhiyā vā yajñair vā rodasyoḥ |
    arvanto vā ye rayimantaḥ sātau vanuṃ vā ye suśruṇaṃ suśruto dhuḥ ||

    वसू॑नाम् । वा॒ । च॒र्कृ॒षे॒ । इय॑क्षन् । धि॒या । वा॒ । य॒ज्ञैः । वा॒ । रोद॑स्योः ।
    अर्व॑न्तः । वा॒ । ये । र॒यि॒ऽमन्तः॑ । सा॒तौ । व॒नुम् । वा॒ । ये । सु॒ऽश्रुण॑म् । सु॒ऽश्रुतः॑ । धुरिति॒ धुः ॥

    वसूनाम् । वा । चर्कृषे । इयक्षन् । धिया । वा । यज्ञैः । वा । रोदस्योः ।
    अर्वन्तः । वा । ये । रयिऽमन्तः । सातौ । वनुम् । वा । ये । सुऽश्रुणम् । सुऽश्रुतः । धुरिति धुः ॥

    vásūnām ǀ vā ǀ carkṛṣe ǀ íyakṣan ǀ dhiyā́ ǀ vā ǀ yajñáiḥ ǀ vā ǀ ródasyoḥ ǀ
    árvantaḥ ǀ vā ǀ yé ǀ rayi-mántaḥ ǀ sātáu ǀ vanúm ǀ vā ǀ yé ǀ su-śrúṇam ǀ su-śrútaḥ ǀ dhúríti dhúḥ ǁ

    vasūnām ǀ vā ǀ carkṛṣe ǀ iyakṣan ǀ dhiyā ǀ vā ǀ yajñaiḥ ǀ vā ǀ rodasyoḥ ǀ
    arvantaḥ ǀ vā ǀ ye ǀ rayi-mantaḥ ǀ sātau ǀ vanum ǀ vā ǀ ye ǀ su-śruṇam ǀ su-śrutaḥ ǀ dhuriti dhuḥ ǁ

    10.74.1 Aṣṭaka 8.3.5.1Anuvāka 10.6.55

  2. Ṛk 2

    हव॑ एषा॒मसु॑रो नक्षत॒ द्यां श्र॑वस्य॒ता मन॑सा निंसत॒ क्षां ।
    चक्षा॑णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा द्यौर्न वारे॑भिः कृ॒णवं॑त॒ स्वैः ॥

    हव एषाम् असुरो नक्षत द्यां श्रवस्यता मनसा निंसत क्षाम् |
    चक्षाणा यत्र सुविताय देवा द्यौर् न वारेभिः कृणवन्त स्वैः ||

    háva eṣāmásuro nakṣata dyā́m śravasyatā́ mánasā niṃsata kṣā́m ǀ
    cákṣāṇā yátra suvitā́ya devā́ dyáurná vā́rebhiḥ kṛṇávanta sváiḥ ǁ

    hava eṣām asuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām |
    cakṣāṇā yatra suvitāya devā dyaur na vārebhiḥ kṛṇavanta svaiḥ ||

    हवः॑ । ए॒षा॒म् । असु॑रः । न॒क्ष॒त॒ । द्याम् । श्र॒व॒स्य॒ता । मन॑सा । निं॒स॒त॒ । क्षाम् ।
    चक्षा॑णाः । यत्र॑ । सु॒वि॒ताय॑ । दे॒वाः । द्यौः । न । वारे॑भिः । कृ॒णव॑न्त । स्वैः ॥

    हवः । एषाम् । असुरः । नक्षत । द्याम् । श्रवस्यता । मनसा । निंसत । क्षाम् ।
    चक्षाणाः । यत्र । सुविताय । देवाः । द्यौः । न । वारेभिः । कृणवन्त । स्वैः ॥

    hávaḥ ǀ eṣām ǀ ásuraḥ ǀ nakṣata ǀ dyā́m ǀ śravasyatā́ ǀ mánasā ǀ niṃsata ǀ kṣā́m ǀ
    cákṣāṇāḥ ǀ yátra ǀ suvitā́ya ǀ devā́ḥ ǀ dyáuḥ ǀ ná ǀ vā́rebhiḥ ǀ kṛṇávanta ǀ sváiḥ ǁ

    havaḥ ǀ eṣām ǀ asuraḥ ǀ nakṣata ǀ dyām ǀ śravasyatā ǀ manasā ǀ niṃsata ǀ kṣām ǀ
    cakṣāṇāḥ ǀ yatra ǀ suvitāya ǀ devāḥ ǀ dyauḥ ǀ na ǀ vārebhiḥ ǀ kṛṇavanta ǀ svaiḥ ǁ

    10.74.2 Aṣṭaka 8.3.5.2Anuvāka 10.6.56

  3. Ṛk 3

    इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पणं॑त॒ रत्नं॑ ।
    धियं॑ च य॒ज्ञं च॒ साधं॑त॒स्ते नो॑ धांतु वस॒व्य१॒॑मसा॑मि ॥

    इयम् एषाम् अमृतानां गीः सर्वताता ये कृपणन्त रत्नम् |
    धियं च यज्ञं च साधन्तस् ते नो धान्तु वसव्यम् असामि ||

    iyámeṣāmamṛ́tānām gī́ḥ sarvátātā yé kṛpáṇanta rátnam ǀ
    dhíyam ca yajñám ca sā́dhantasté no dhāntu vasavyámásāmi ǁ

    iyam eṣām amṛtānāṃ gīḥ sarvatātā ye kṛpaṇanta ratnam |
    dhiyaṃ ca yajñaṃ ca sādhantas te no dhāntu vasavyam asāmi ||

    इ॒यम् । ए॒षा॒म् । अ॒मृता॑नाम् । गीः । स॒र्वऽता॑ता । ये । कृ॒पण॑न्त । रत्न॑म् ।
    धिय॑म् । च॒ । य॒ज्ञम् । च॒ । साध॑न्तः । ते । नः॒ । धा॒न्तु॒ । व॒स॒व्य॑म् । असा॑मि ॥

    इयम् । एषाम् । अमृतानाम् । गीः । सर्वऽताता । ये । कृपणन्त । रत्नम् ।
    धियम् । च । यज्ञम् । च । साधन्तः । ते । नः । धान्तु । वसव्यम् । असामि ॥

    iyám ǀ eṣām ǀ amṛ́tānām ǀ gī́ḥ ǀ sarvá-tātā ǀ yé ǀ kṛpáṇanta ǀ rátnam ǀ
    dhíyam ǀ ca ǀ yajñám ǀ ca ǀ sā́dhantaḥ ǀ té ǀ naḥ ǀ dhāntu ǀ vasavyám ǀ ásāmi ǁ

    iyam ǀ eṣām ǀ amṛtānām ǀ gīḥ ǀ sarva-tātā ǀ ye ǀ kṛpaṇanta ǀ ratnam ǀ
    dhiyam ǀ ca ǀ yajñam ǀ ca ǀ sādhantaḥ ǀ te ǀ naḥ ǀ dhāntu ǀ vasavyam ǀ asāmi ǁ

    10.74.3 Aṣṭaka 8.3.5.3Anuvāka 10.6.57

  4. Ṛk 4

    आ तत्त॑ इंद्रा॒यवः॑ पनंता॒भि य ऊ॒र्वं गोमं॑तं॒ तितृ॑त्सान् ।
    स॒कृ॒त्स्वं१॒॑ ये पु॑रुपु॒त्रां म॒हीं स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ॥

    आ तत् त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् |
    सकृत्स्वं ये पुरुपुत्राम् महीं सहस्रधाराम् बृहतीं दुदुक्षन् ||

    ā́ tátta indrāyávaḥ panantābhí yá ūrvám gómantam títṛtsān ǀ
    sakṛtsvám yé puruputrā́m mahī́m sahásradhārām bṛhatī́m dúdukṣan ǁ

    ā tat ta indrāyavaḥ panantābhi ya ūrvaṃ gomantaṃ titṛtsān |
    sakṛtsvaṃ ye puruputrām mahīṃ sahasradhārām bṛhatīṃ dudukṣan ||

    आ । तत् । ते॒ । इ॒न्द्र॒ । आ॒यवः॑ । प॒न॒न्त॒ । अ॒भि । ये । ऊ॒र्वम् । गोऽम॑न्तम् । तितृ॑त्सान् ।
    स॒कृ॒त्ऽस्व॑म् । ये । पु॒रु॒ऽपु॒त्राम् । म॒हीम् । स॒हस्र॑ऽधाराम् । बृ॒ह॒तीम् । दुधु॑क्षन् ॥

    आ । तत् । ते । इन्द्र । आयवः । पनन्त । अभि । ये । ऊर्वम् । गोऽमन्तम् । तितृत्सान् ।
    सकृत्ऽस्वम् । ये । पुरुऽपुत्राम् । महीम् । सहस्रऽधाराम् । बृहतीम् । दुधुक्षन् ॥

    ā́ ǀ tát ǀ te ǀ indra ǀ āyávaḥ ǀ pananta ǀ abhí ǀ yé ǀ ūrvám ǀ gó-mantam ǀ títṛtsān ǀ
    sakṛt-svám ǀ yé ǀ puru-putrā́m ǀ mahī́m ǀ sahásra-dhārām ǀ bṛhatī́m ǀ dúdhukṣan ǁ

    ā ǀ tat ǀ te ǀ indra ǀ āyavaḥ ǀ pananta ǀ abhi ǀ ye ǀ ūrvam ǀ go-mantam ǀ titṛtsān ǀ
    sakṛt-svam ǀ ye ǀ puru-putrām ǀ mahīm ǀ sahasra-dhārām ǀ bṛhatīm ǀ dudhukṣan ǁ

    10.74.4 Aṣṭaka 8.3.5.4Anuvāka 10.6.58

  5. Ṛk 5

    शची॑व॒ इंद्र॒मव॑से कृणुध्व॒मना॑नतं द॒मयं॑तं पृत॒न्यून् ।
    ऋ॒भु॒क्षणं॑ म॒घवा॑नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं॑ पुरु॒क्षुः ॥

    शचीव इन्द्रम् अवसे कृणुध्वम् अनानतं दमयन्तम् पृतन्यून् |
    ऋभुक्षणम् मघवानं सुवृक्तिम् भर्ता यो वज्रं नर्यम् पुरुक्षुः ||

    śácīva índramávase kṛṇudhvamánānatam damáyantam pṛtanyū́n ǀ
    ṛbhukṣáṇam maghávānam suvṛktím bhártā yó vájram náryam purukṣúḥ ǁ

    śacīva indram avase kṛṇudhvam anānataṃ damayantam pṛtanyūn |
    ṛbhukṣaṇam maghavānaṃ suvṛktim bhartā yo vajraṃ naryam purukṣuḥ ||

    शची॑ऽवः । इन्द्र॑म् । अव॑से । कृ॒णु॒ध्व॒म् । अना॑नतम् । द॒मय॑न्तम् । पृ॒त॒न्यून् ।
    ऋ॒भु॒क्षण॑म् । म॒घऽवा॑नम् । सु॒ऽवृ॒क्तिम् । भर्ता॑ । यः । वज्र॑म् । नर्य॑म् । पु॒रु॒ऽक्षुः ॥

    शचीऽवः । इन्द्रम् । अवसे । कृणुध्वम् । अनानतम् । दमयन्तम् । पृतन्यून् ।
    ऋभुक्षणम् । मघऽवानम् । सुऽवृक्तिम् । भर्ता । यः । वज्रम् । नर्यम् । पुरुऽक्षुः ॥

    śácī-vaḥ ǀ índram ǀ ávase ǀ kṛṇudhvam ǀ ánānatam ǀ damáyantam ǀ pṛtanyū́n ǀ
    ṛbhukṣáṇam ǀ maghá-vānam ǀ su-vṛktím ǀ bhártā ǀ yáḥ ǀ vájram ǀ náryam ǀ puru-kṣúḥ ǁ

    śacī-vaḥ ǀ indram ǀ avase ǀ kṛṇudhvam ǀ anānatam ǀ damayantam ǀ pṛtanyūn ǀ
    ṛbhukṣaṇam ǀ magha-vānam ǀ su-vṛktim ǀ bhartā ǀ yaḥ ǀ vajram ǀ naryam ǀ puru-kṣuḥ ǁ

    10.74.5 Aṣṭaka 8.3.5.5Anuvāka 10.6.59

  6. Ṛk 6

    यद्वा॒वान॑ पुरु॒तमं॑ पुरा॒षाळा वृ॑त्र॒हेंद्रो॒ नामा॑न्यप्राः ।
    अचे॑ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी॑मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ॥

    यद् वावान पुरुतमम् पुराषाऌ आ वृत्रहेन्द्रो नामान्य् अप्राः |
    अचेति प्रासहस् पतिस् तुविष्मान् यद् ईम् उश्मसि कर्तवे करत् तत् ||

    yádvāvā́na purutámam purāṣā́ḷā́ vṛtrahéndro nā́mānyaprāḥ ǀ
    áceti prāsáhaspátistúviṣmānyádīmuśmási kártave kárattát ǁ

    yad vāvāna purutamam purāṣāḷ ā vṛtrahendro nāmāny aprāḥ |
    aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat ||

    यत् । व॒वान॑ । पु॒रु॒ऽतम॑म् । पु॒रा॒षाट् । आ । वृ॒त्र॒ऽहा । इन्द्रः॑ । नामा॑नि । अ॒प्राः॒ ।
    अचे॑ति । प्र॒ऽसहः॑ । पतिः॑ । तुवि॑ष्मान् । यत् । ई॒म् । उ॒श्मसि॑ । कर्त॑वे । कर॑त् । तत् ॥

    यत् । ववान । पुरुऽतमम् । पुराषाट् । आ । वृत्रऽहा । इन्द्रः । नामानि । अप्राः ।
    अचेति । प्रऽसहः । पतिः । तुविष्मान् । यत् । ईम् । उश्मसि । कर्तवे । करत् । तत् ॥

    yát ǀ vavā́na ǀ puru-támam ǀ purāṣā́ṭ ǀ ā́ ǀ vṛtra-hā́ ǀ índraḥ ǀ nā́māni ǀ aprāḥ ǀ
    áceti ǀ pra-sáhaḥ ǀ pátiḥ ǀ túviṣmān ǀ yát ǀ īm ǀ uśmási ǀ kártave ǀ kárat ǀ tát ǁ

    yat ǀ vavāna ǀ puru-tamam ǀ purāṣāṭ ǀ ā ǀ vṛtra-hā ǀ indraḥ ǀ nāmāni ǀ aprāḥ ǀ
    aceti ǀ pra-sahaḥ ǀ patiḥ ǀ tuviṣmān ǀ yat ǀ īm ǀ uśmasi ǀ kartave ǀ karat ǀ tat ǁ

    10.74.6 Aṣṭaka 8.3.5.6Anuvāka 10.6.60

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.74 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

I AM prepared to laud with song or worship the Noble Ones who are in earth and heaven, Or Coursers who have triumphed in, the contest, or those who famed, have won the prize with glory.

Ṛk 2

Their call, the call of Gods, went up to heaven: they kissed the ground with glory-seeking spirit, There where the Gods look on for happy fortune, and like the kindly heavens bestow their bounties.

Ṛk 3

This is the song of those Immortal Beings who long for treasures in their full perfection. May these, completing prayers and sacrifices, bestow upon us wealth where naught is wanting.

Ṛk 4

Those living men extolled thy deed, O Indra, those who would fain burst through the stall of cattle, Fain to milk her who bare but once, great, lofty, whose Sons are many and her streams past number.

Ṛk 5

Sacivan, win to your assistance Indra who never bends, who overcomes his foemen. Ṛbhukṣan, Maghavan, the hymn's upholder, who, rich in food, bears man's kind friend, the thunder.