Ṛgveda · Maṇḍala 10 · Sūkta 74
Ṛk 10.74.3
Saṃhitā
इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पणं॑त॒ रत्नं॑ ।
धियं॑ च य॒ज्ञं च॒ साधं॑त॒स्ते नो॑ धांतु वस॒व्य१॒॑मसा॑मि ॥
इयम् एषाम् अमृतानां गीः सर्वताता ये कृपणन्त रत्नम् |
धियं च यज्ञं च साधन्तस् ते नो धान्तु वसव्यम् असामि ||
iyámeṣāmamṛ́tānām gī́ḥ sarvátātā yé kṛpáṇanta rátnam ǀ
dhíyam ca yajñám ca sā́dhantasté no dhāntu vasavyámásāmi ǁ
iyam eṣām amṛtānāṃ gīḥ sarvatātā ye kṛpaṇanta ratnam |
dhiyaṃ ca yajñaṃ ca sādhantas te no dhāntu vasavyam asāmi ||
Padapāṭha
इ॒यम् । ए॒षा॒म् । अ॒मृता॑नाम् । गीः । स॒र्वऽता॑ता । ये । कृ॒पण॑न्त । रत्न॑म् ।
धिय॑म् । च॒ । य॒ज्ञम् । च॒ । साध॑न्तः । ते । नः॒ । धा॒न्तु॒ । व॒स॒व्य॑म् । असा॑मि ॥
इयम् । एषाम् । अमृतानाम् । गीः । सर्वऽताता । ये । कृपणन्त । रत्नम् ।
धियम् । च । यज्ञम् । च । साधन्तः । ते । नः । धान्तु । वसव्यम् । असामि ॥
iyám ǀ eṣām ǀ amṛ́tānām ǀ gī́ḥ ǀ sarvá-tātā ǀ yé ǀ kṛpáṇanta ǀ rátnam ǀ
dhíyam ǀ ca ǀ yajñám ǀ ca ǀ sā́dhantaḥ ǀ té ǀ naḥ ǀ dhāntu ǀ vasavyám ǀ ásāmi ǁ
iyam ǀ eṣām ǀ amṛtānām ǀ gīḥ ǀ sarva-tātā ǀ ye ǀ kṛpaṇanta ǀ ratnam ǀ
dhiyam ǀ ca ǀ yajñam ǀ ca ǀ sādhantaḥ ǀ te ǀ naḥ ǀ dhāntu ǀ vasavyam ǀ asāmi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.074.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.05.03
- Maṇḍala · Anuvāka · Ṛk
- 10.06.057
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.