Sūkta 77
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Syūmaraśmi Bhārgava
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles virāṭtrisṭup (6-8); nicṛttriṣṭup (1, 3); triṣṭup (2, 4); pādanicṛjjgatī (5)
2nd set of styles triṣṭubh (1-4, 6-8); jagatī (5)
-
Ṛk 1
अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्मं॑तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ ।
सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे॑ ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ॥अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः |
सुमारुतं न ब्रह्माणम् अर्हसे गणम् अस्तोष्य् एषां न शोभसे ||abhraprúṣo ná vācā́ pruṣā vásu havíṣmanto ná yajñā́ vijānúṣaḥ ǀ
sumā́rutam ná brahmā́ṇamarháse gaṇámastoṣyeṣām ná śobháse ǁabhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vijānuṣaḥ |
sumārutaṃ na brahmāṇam arhase gaṇam astoṣy eṣāṃ na śobhase ||अ॒भ्र॒ऽप्रुषः॑ । न । वा॒चा । प्रु॒ष॒ । वसु॑ । ह॒विष्म॑न्तः । न । य॒ज्ञाः । वि॒ऽजा॒नुषः॑ ।
सु॒ऽमारु॑तम् । न । ब्र॒ह्माण॑म् । अ॒र्हसे॑ । ग॒णम् । अ॒स्तो॒षि॒ । ए॒षा॒म् । न । शो॒भसे॑ ॥अभ्रऽप्रुषः । न । वाचा । प्रुष । वसु । हविष्मन्तः । न । यज्ञाः । विऽजानुषः ।
सुऽमारुतम् । न । ब्रह्माणम् । अर्हसे । गणम् । अस्तोषि । एषाम् । न । शोभसे ॥abhra-prúṣaḥ ǀ ná ǀ vācā́ ǀ pruṣa ǀ vásu ǀ havíṣmantaḥ ǀ ná ǀ yajñā́ḥ ǀ vi-jānúṣaḥ ǀ
su-mā́rutam ǀ ná ǀ brahmā́ṇam ǀ arháse ǀ gaṇám ǀ astoṣi ǀ eṣām ǀ ná ǀ śobháse ǁabhra-pruṣaḥ ǀ na ǀ vācā ǀ pruṣa ǀ vasu ǀ haviṣmantaḥ ǀ na ǀ yajñāḥ ǀ vi-jānuṣaḥ ǀ
su-mārutam ǀ na ǀ brahmāṇam ǀ arhase ǀ gaṇam ǀ astoṣi ǀ eṣām ǀ na ǀ śobhase ǁ10.77.1 Aṣṭaka 8.3.10.1Anuvāka 10.6.78
-
Ṛk 2
श्रि॒ये मर्या॑सो अं॒जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ ।
दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ॥श्रिये मर्यासो अञ्जींर् अकृण्वत सुमारुतं न पूर्वीर् अति क्षपः |
दिवस् पुत्रास एता न येतिर आदित्यासस् ते अक्रा न वावृधुः ||śriyé máryāso añjī́m̐rakṛṇvata sumā́rutam ná pūrvī́ráti kṣápaḥ ǀ
divásputrā́sa étā ná yetira ādityā́sasté akrā́ ná vāvṛdhuḥ ǁśriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ |
divas putrāsa etā na yetira ādityāsas te akrā na vāvṛdhuḥ ||श्रि॒ये । मर्या॑सः । अ॒ञ्जीन् । अ॒कृ॒ण्व॒त॒ । सु॒ऽमारु॑तम् । न । पू॒र्वीः । अति॑ । क्षपः॑ ।
दि॒वः । पु॒त्रासः॑ । एताः॑ । न । ये॒ति॒रे॒ । आ॒दि॒त्यासः॑ । ते । अ॒क्राः । न । व॒वृ॒धुः॒ ॥श्रिये । मर्यासः । अञ्जीन् । अकृण्वत । सुऽमारुतम् । न । पूर्वीः । अति । क्षपः ।
दिवः । पुत्रासः । एताः । न । येतिरे । आदित्यासः । ते । अक्राः । न । ववृधुः ॥śriyé ǀ máryāsaḥ ǀ añjī́n ǀ akṛṇvata ǀ su-mā́rutam ǀ ná ǀ pūrvī́ḥ ǀ áti ǀ kṣápaḥ ǀ
diváḥ ǀ putrā́saḥ ǀ étāḥ ǀ ná ǀ yetire ǀ ādityā́saḥ ǀ té ǀ akrā́ḥ ǀ ná ǀ vavṛdhuḥ ǁśriye ǀ maryāsaḥ ǀ añjīn ǀ akṛṇvata ǀ su-mārutam ǀ na ǀ pūrvīḥ ǀ ati ǀ kṣapaḥ ǀ
divaḥ ǀ putrāsaḥ ǀ etāḥ ǀ na ǀ yetire ǀ ādityāsaḥ ǀ te ǀ akrāḥ ǀ na ǀ vavṛdhuḥ ǁ10.77.2 Aṣṭaka 8.3.10.2Anuvāka 10.6.79
-
Ṛk 3
प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्यः॑ ।
पाज॑स्वंतो॒ न वी॒राः प॑न॒स्यवो॑ रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ॥प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान् न सूर्यः |
पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ||prá yé diváḥ pṛthivyā́ ná barháṇā tmánā riricré abhrā́nná sū́ryaḥ ǀ
pā́jasvanto ná vīrā́ḥ panasyávo riśā́daso ná máryā abhídyavaḥ ǁpra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ |
pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ ||प्र । ये । दि॒वः । पृ॒थि॒व्याः । न । ब॒र्हणा॑ । त्मना॑ । रि॒रि॒च्रे । अ॒भ्रात् । न । सूर्यः॑ ।
पाज॑स्वन्तः । न । वी॒राः । प॒न॒स्यवः॑ । रि॒शाद॑सः । न । मर्याः॑ । अ॒भिऽद्य॑वः ॥प्र । ये । दिवः । पृथिव्याः । न । बर्हणा । त्मना । रिरिच्रे । अभ्रात् । न । सूर्यः ।
पाजस्वन्तः । न । वीराः । पनस्यवः । रिशादसः । न । मर्याः । अभिऽद्यवः ॥prá ǀ yé ǀ diváḥ ǀ pṛthivyā́ḥ ǀ ná ǀ barháṇā ǀ tmánā ǀ riricré ǀ abhrā́t ǀ ná ǀ sū́ryaḥ ǀ
pā́jasvantaḥ ǀ ná ǀ vīrā́ḥ ǀ panasyávaḥ ǀ riśā́dasaḥ ǀ ná ǀ máryāḥ ǀ abhí-dyavaḥ ǁpra ǀ ye ǀ divaḥ ǀ pṛthivyāḥ ǀ na ǀ barhaṇā ǀ tmanā ǀ riricre ǀ abhrāt ǀ na ǀ sūryaḥ ǀ
pājasvantaḥ ǀ na ǀ vīrāḥ ǀ panasyavaḥ ǀ riśādasaḥ ǀ na ǀ maryāḥ ǀ abhi-dyavaḥ ǁ10.77.3 Aṣṭaka 8.3.10.3Anuvāka 10.6.80
-
Ṛk 4
यु॒ष्माकं॑ बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ ।
वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु वः॒ प्रय॑स्वंतो॒ न स॒त्राच॒ आ ग॑त ॥युष्माकम् बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति |
विश्वप्सुर् यज्ञो अर्वाग् अयं सु वः प्रयस्वन्तो न सत्राच आ गत ||yuṣmā́kam budhné apā́m ná yā́mani vithuryáti ná mahī́ śratharyáti ǀ
viśvápsuryajñó arvā́gayám sú vaḥ práyasvanto ná satrā́ca ā́ gata ǁyuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati |
viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata ||यु॒ष्माक॑म् । बु॒ध्ने । अ॒पाम् । न । याम॑नि । वि॒थु॒र्यति॑ । न । म॒ही । श्र॒थ॒र्यति॑ ।
वि॒श्वऽप्सुः॑ । य॒ज्ञः । अ॒र्वाक् । अ॒यम् । सु । वः॒ । प्रय॑स्वन्तः । न । स॒त्राचः॑ । आ । ग॒त॒ ॥युष्माकम् । बुध्ने । अपाम् । न । यामनि । विथुर्यति । न । मही । श्रथर्यति ।
विश्वऽप्सुः । यज्ञः । अर्वाक् । अयम् । सु । वः । प्रयस्वन्तः । न । सत्राचः । आ । गत ॥yuṣmā́kam ǀ budhné ǀ apā́m ǀ ná ǀ yā́mani ǀ vithuryáti ǀ ná ǀ mahī́ ǀ śratharyáti ǀ
viśvá-psuḥ ǀ yajñáḥ ǀ arvā́k ǀ ayám ǀ sú ǀ vaḥ ǀ práyasvantaḥ ǀ ná ǀ satrā́caḥ ǀ ā́ ǀ gata ǁyuṣmākam ǀ budhne ǀ apām ǀ na ǀ yāmani ǀ vithuryati ǀ na ǀ mahī ǀ śratharyati ǀ
viśva-psuḥ ǀ yajñaḥ ǀ arvāk ǀ ayam ǀ su ǀ vaḥ ǀ prayasvantaḥ ǀ na ǀ satrācaḥ ǀ ā ǀ gata ǁ10.77.4 Aṣṭaka 8.3.10.4Anuvāka 10.6.81
-
Ṛk 5
यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मंतो॒ न भा॒सा व्यु॑ष्टिषु ।
श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ॥यूयं धूर्षु प्रयुजो न रश्मिभिर् ज्योतिष्मन्तो न भासा व्युष्टिषु |
श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ||yūyám dhūrṣú prayújo ná raśmíbhirjyótiṣmanto ná bhāsā́ vyúṣṭiṣu ǀ
śyenā́so ná sváyaśaso riśā́dasaḥ pravā́so ná prásitāsaḥ pariprúṣaḥ ǁyūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu |
śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ ||यू॒यम् । धूः॒ऽसु । प्र॒ऽयुजः॑ । न । र॒श्मिऽभिः॑ । ज्योति॑ष्मन्तः । न । भा॒सा । विऽउ॑ष्टिषु ।
श्ये॒नासः॑ । न । स्वऽय॑शसः । रि॒शाद॑सः । प्र॒वासः॑ । न । प्रऽसि॑तासः । प॒रि॒ऽप्रुषः॑ ॥यूयम् । धूःऽसु । प्रऽयुजः । न । रश्मिऽभिः । ज्योतिष्मन्तः । न । भासा । विऽउष्टिषु ।
श्येनासः । न । स्वऽयशसः । रिशादसः । प्रवासः । न । प्रऽसितासः । परिऽप्रुषः ॥yūyám ǀ dhūḥ-sú ǀ pra-yújaḥ ǀ ná ǀ raśmí-bhiḥ ǀ jyótiṣmantaḥ ǀ ná ǀ bhāsā́ ǀ ví-uṣṭiṣu ǀ
śyenā́saḥ ǀ ná ǀ svá-yaśasaḥ ǀ riśā́dasaḥ ǀ pravā́saḥ ǀ ná ǀ prá-sitāsaḥ ǀ pari-prúṣaḥ ǁyūyam ǀ dhūḥ-su ǀ pra-yujaḥ ǀ na ǀ raśmi-bhiḥ ǀ jyotiṣmantaḥ ǀ na ǀ bhāsā ǀ vi-uṣṭiṣu ǀ
śyenāsaḥ ǀ na ǀ sva-yaśasaḥ ǀ riśādasaḥ ǀ pravāsaḥ ǀ na ǀ pra-sitāsaḥ ǀ pari-pruṣaḥ ǁ10.77.5 Aṣṭaka 8.3.10.5Anuvāka 10.6.82
-
Ṛk 6
प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्वः॑ ।
वि॒दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ॥प्र यद् वहध्वे मरुतः पराकाद् यूयम् महः संवरणस्य वस्वः |
विदानासो वसवो राध्यस्याराच् चिद् द्वेषः सनुतर् युयोत ||prá yádváhadhve marutaḥ parākā́dyūyám maháḥ saṃváraṇasya vásvaḥ ǀ
vidānā́so vasavo rā́dhyasyārā́cciddvéṣaḥ sanutáryuyota ǁpra yad vahadhve marutaḥ parākād yūyam mahaḥ saṃvaraṇasya vasvaḥ |
vidānāso vasavo rādhyasyārāc cid dveṣaḥ sanutar yuyota ||प्र । यत् । वह॑ध्वे । म॒रु॒तः॒ । प॒रा॒कात् । यू॒यम् । म॒हः । स॒म्ऽवर॑णस्य । वस्वः॑ ।
वि॒दा॒नासः॑ । व॒स॒वः॒ । राध्य॑स्य । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒त॒ ॥प्र । यत् । वहध्वे । मरुतः । पराकात् । यूयम् । महः । सम्ऽवरणस्य । वस्वः ।
विदानासः । वसवः । राध्यस्य । आरात् । चित् । द्वेषः । सनुतः । युयोत ॥prá ǀ yát ǀ váhadhve ǀ marutaḥ ǀ parākā́t ǀ yūyám ǀ maháḥ ǀ sam-váraṇasya ǀ vásvaḥ ǀ
vidānā́saḥ ǀ vasavaḥ ǀ rā́dhyasya ǀ ārā́t ǀ cit ǀ dvéṣaḥ ǀ sanutáḥ ǀ yuyota ǁpra ǀ yat ǀ vahadhve ǀ marutaḥ ǀ parākāt ǀ yūyam ǀ mahaḥ ǀ sam-varaṇasya ǀ vasvaḥ ǀ
vidānāsaḥ ǀ vasavaḥ ǀ rādhyasya ǀ ārāt ǀ cit ǀ dveṣaḥ ǀ sanutaḥ ǀ yuyota ǁ10.77.6 Aṣṭaka 8.3.11.1Anuvāka 10.6.83
-
Ṛk 7
य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् ।
रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ॥य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् |
रेवत् स वयो दधते सुवीरं स देवानाम् अपि गोपीथे अस्तु ||yá udṛ́ci yajñé adhvareṣṭhā́ marúdbhyo ná mā́nuṣo dádāśat ǀ
revátsá váyo dadhate suvī́ram sá devā́nāmápi gopīthé astu ǁya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat |
revat sa vayo dadhate suvīraṃ sa devānām api gopīthe astu ||यः । उ॒त्ऽऋचि॑ । य॒ज्ञे । अ॒ध्व॒रे॒ऽस्थाः । म॒रुत्ऽभ्यः॑ । न । मानु॑षः । ददा॑शत् ।
रे॒वत् । सः । वयः॑ । द॒ध॒ते॒ । सु॒ऽवीर॑म् । सः । दे॒वाना॑म् । अपि॑ । गो॒ऽपी॒थे । अ॒स्तु॒ ॥यः । उत्ऽऋचि । यज्ञे । अध्वरेऽस्थाः । मरुत्ऽभ्यः । न । मानुषः । ददाशत् ।
रेवत् । सः । वयः । दधते । सुऽवीरम् । सः । देवानाम् । अपि । गोऽपीथे । अस्तु ॥yáḥ ǀ ut-ṛ́ci ǀ yajñé ǀ adhvare-sthā́ḥ ǀ marút-bhyaḥ ǀ ná ǀ mā́nuṣaḥ ǀ dádāśat ǀ
revát ǀ sáḥ ǀ váyaḥ ǀ dadhate ǀ su-vī́ram ǀ sáḥ ǀ devā́nām ǀ ápi ǀ go-pīthé ǀ astu ǁyaḥ ǀ ut-ṛci ǀ yajñe ǀ adhvare-sthāḥ ǀ marut-bhyaḥ ǀ na ǀ mānuṣaḥ ǀ dadāśat ǀ
revat ǀ saḥ ǀ vayaḥ ǀ dadhate ǀ su-vīram ǀ saḥ ǀ devānām ǀ api ǀ go-pīthe ǀ astu ǁ10.77.7 Aṣṭaka 8.3.11.2Anuvāka 10.6.84
-
Ṛk 8
ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्ना॒ शंभ॑विष्ठाः ।
ते नो॑ऽवंतु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ॥ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः |
ते नो ऽवन्तु रथतूर् मनीषाम् महश् च यामन्न् अध्वरे चकानाः ||té hí yajñéṣu yajñíyāsa ū́mā ādityéna nā́mnā śámbhaviṣṭhāḥ ǀ
té no’vantu rathatū́rmanīṣā́m maháśca yā́mannadhvaré cakānā́ḥ ǁte hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śambhaviṣṭhāḥ |
te no 'vantu rathatūr manīṣām mahaś ca yāmann adhvare cakānāḥ ||ते । हि । य॒ज्ञेषु॑ । य॒ज्ञिया॑सः । ऊमाः॑ । आ॒दि॒त्येन॑ । नाम्ना॑ । शम्ऽभ॑विष्ठाः ।
ते । नः॒ । अ॒व॒न्तु॒ । र॒थ॒ऽतूः । म॒नी॒षाम् । म॒हः । च॒ । याम॑न् । अ॒ध्व॒रे । च॒का॒नाः ॥ते । हि । यज्ञेषु । यज्ञियासः । ऊमाः । आदित्येन । नाम्ना । शम्ऽभविष्ठाः ।
ते । नः । अवन्तु । रथऽतूः । मनीषाम् । महः । च । यामन् । अध्वरे । चकानाः ॥té ǀ hí ǀ yajñéṣu ǀ yajñíyāsaḥ ǀ ū́māḥ ǀ ādityéna ǀ nā́mnā ǀ śám-bhaviṣṭhāḥ ǀ
té ǀ naḥ ǀ avantu ǀ ratha-tū́ḥ ǀ manīṣā́m ǀ maháḥ ǀ ca ǀ yā́man ǀ adhvaré ǀ cakānā́ḥ ǁte ǀ hi ǀ yajñeṣu ǀ yajñiyāsaḥ ǀ ūmāḥ ǀ ādityena ǀ nāmnā ǀ śam-bhaviṣṭhāḥ ǀ
te ǀ naḥ ǀ avantu ǀ ratha-tūḥ ǀ manīṣām ǀ mahaḥ ǀ ca ǀ yāman ǀ adhvare ǀ cakānāḥ ǁ10.77.8 Aṣṭaka 8.3.11.3Anuvāka 10.6.85
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.