Ṛgveda · Maṇḍala 10 · Sūkta 77
Ṛk 10.77.7
Saṃhitā
य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् ।
रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ॥
य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् |
रेवत् स वयो दधते सुवीरं स देवानाम् अपि गोपीथे अस्तु ||
yá udṛ́ci yajñé adhvareṣṭhā́ marúdbhyo ná mā́nuṣo dádāśat ǀ
revátsá váyo dadhate suvī́ram sá devā́nāmápi gopīthé astu ǁ
ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat |
revat sa vayo dadhate suvīraṃ sa devānām api gopīthe astu ||
Padapāṭha
यः । उ॒त्ऽऋचि॑ । य॒ज्ञे । अ॒ध्व॒रे॒ऽस्थाः । म॒रुत्ऽभ्यः॑ । न । मानु॑षः । ददा॑शत् ।
रे॒वत् । सः । वयः॑ । द॒ध॒ते॒ । सु॒ऽवीर॑म् । सः । दे॒वाना॑म् । अपि॑ । गो॒ऽपी॒थे । अ॒स्तु॒ ॥
यः । उत्ऽऋचि । यज्ञे । अध्वरेऽस्थाः । मरुत्ऽभ्यः । न । मानुषः । ददाशत् ।
रेवत् । सः । वयः । दधते । सुऽवीरम् । सः । देवानाम् । अपि । गोऽपीथे । अस्तु ॥
yáḥ ǀ ut-ṛ́ci ǀ yajñé ǀ adhvare-sthā́ḥ ǀ marút-bhyaḥ ǀ ná ǀ mā́nuṣaḥ ǀ dádāśat ǀ
revát ǀ sáḥ ǀ váyaḥ ǀ dadhate ǀ su-vī́ram ǀ sáḥ ǀ devā́nām ǀ ápi ǀ go-pīthé ǀ astu ǁ
yaḥ ǀ ut-ṛci ǀ yajñe ǀ adhvare-sthāḥ ǀ marut-bhyaḥ ǀ na ǀ mānuṣaḥ ǀ dadāśat ǀ
revat ǀ saḥ ǀ vayaḥ ǀ dadhate ǀ su-vīram ǀ saḥ ǀ devānām ǀ api ǀ go-pīthe ǀ astu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.077.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.11.02
- Maṇḍala · Anuvāka · Ṛk
- 10.06.084
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Syūmaraśmi Bhārgava
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.