Ṛgveda · Maṇḍala 10 · Sūkta 77
Ṛk 10.77.4
Saṃhitā
यु॒ष्माकं॑ बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ ।
वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु वः॒ प्रय॑स्वंतो॒ न स॒त्राच॒ आ ग॑त ॥
युष्माकम् बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति |
विश्वप्सुर् यज्ञो अर्वाग् अयं सु वः प्रयस्वन्तो न सत्राच आ गत ||
yuṣmā́kam budhné apā́m ná yā́mani vithuryáti ná mahī́ śratharyáti ǀ
viśvápsuryajñó arvā́gayám sú vaḥ práyasvanto ná satrā́ca ā́ gata ǁ
yuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati |
viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata ||
Padapāṭha
यु॒ष्माक॑म् । बु॒ध्ने । अ॒पाम् । न । याम॑नि । वि॒थु॒र्यति॑ । न । म॒ही । श्र॒थ॒र्यति॑ ।
वि॒श्वऽप्सुः॑ । य॒ज्ञः । अ॒र्वाक् । अ॒यम् । सु । वः॒ । प्रय॑स्वन्तः । न । स॒त्राचः॑ । आ । ग॒त॒ ॥
युष्माकम् । बुध्ने । अपाम् । न । यामनि । विथुर्यति । न । मही । श्रथर्यति ।
विश्वऽप्सुः । यज्ञः । अर्वाक् । अयम् । सु । वः । प्रयस्वन्तः । न । सत्राचः । आ । गत ॥
yuṣmā́kam ǀ budhné ǀ apā́m ǀ ná ǀ yā́mani ǀ vithuryáti ǀ ná ǀ mahī́ ǀ śratharyáti ǀ
viśvá-psuḥ ǀ yajñáḥ ǀ arvā́k ǀ ayám ǀ sú ǀ vaḥ ǀ práyasvantaḥ ǀ ná ǀ satrā́caḥ ǀ ā́ ǀ gata ǁ
yuṣmākam ǀ budhne ǀ apām ǀ na ǀ yāmani ǀ vithuryati ǀ na ǀ mahī ǀ śratharyati ǀ
viśva-psuḥ ǀ yajñaḥ ǀ arvāk ǀ ayam ǀ su ǀ vaḥ ǀ prayasvantaḥ ǀ na ǀ satrācaḥ ǀ ā ǀ gata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.077.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.10.04
- Maṇḍala · Anuvāka · Ṛk
- 10.06.081
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Syūmaraśmi Bhārgava
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.