Ṛgveda · Maṇḍala 10 · Sūkta 77
Ṛk 10.77.2
Saṃhitā
श्रि॒ये मर्या॑सो अं॒जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ ।
दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ॥
श्रिये मर्यासो अञ्जींर् अकृण्वत सुमारुतं न पूर्वीर् अति क्षपः |
दिवस् पुत्रास एता न येतिर आदित्यासस् ते अक्रा न वावृधुः ||
śriyé máryāso añjī́m̐rakṛṇvata sumā́rutam ná pūrvī́ráti kṣápaḥ ǀ
divásputrā́sa étā ná yetira ādityā́sasté akrā́ ná vāvṛdhuḥ ǁ
śriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ |
divas putrāsa etā na yetira ādityāsas te akrā na vāvṛdhuḥ ||
Padapāṭha
श्रि॒ये । मर्या॑सः । अ॒ञ्जीन् । अ॒कृ॒ण्व॒त॒ । सु॒ऽमारु॑तम् । न । पू॒र्वीः । अति॑ । क्षपः॑ ।
दि॒वः । पु॒त्रासः॑ । एताः॑ । न । ये॒ति॒रे॒ । आ॒दि॒त्यासः॑ । ते । अ॒क्राः । न । व॒वृ॒धुः॒ ॥
श्रिये । मर्यासः । अञ्जीन् । अकृण्वत । सुऽमारुतम् । न । पूर्वीः । अति । क्षपः ।
दिवः । पुत्रासः । एताः । न । येतिरे । आदित्यासः । ते । अक्राः । न । ववृधुः ॥
śriyé ǀ máryāsaḥ ǀ añjī́n ǀ akṛṇvata ǀ su-mā́rutam ǀ ná ǀ pūrvī́ḥ ǀ áti ǀ kṣápaḥ ǀ
diváḥ ǀ putrā́saḥ ǀ étāḥ ǀ ná ǀ yetire ǀ ādityā́saḥ ǀ té ǀ akrā́ḥ ǀ ná ǀ vavṛdhuḥ ǁ
śriye ǀ maryāsaḥ ǀ añjīn ǀ akṛṇvata ǀ su-mārutam ǀ na ǀ pūrvīḥ ǀ ati ǀ kṣapaḥ ǀ
divaḥ ǀ putrāsaḥ ǀ etāḥ ǀ na ǀ yetire ǀ ādityāsaḥ ǀ te ǀ akrāḥ ǀ na ǀ vavṛdhuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.077.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.10.02
- Maṇḍala · Anuvāka · Ṛk
- 10.06.079
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Syūmaraśmi Bhārgava
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.