Ṛgveda · Maṇḍala 10 · Sūkta 77
Ṛk 10.77.1
Saṃhitā
अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्मं॑तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ ।
सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे॑ ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ॥
अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः |
सुमारुतं न ब्रह्माणम् अर्हसे गणम् अस्तोष्य् एषां न शोभसे ||
abhraprúṣo ná vācā́ pruṣā vásu havíṣmanto ná yajñā́ vijānúṣaḥ ǀ
sumā́rutam ná brahmā́ṇamarháse gaṇámastoṣyeṣām ná śobháse ǁ
abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vijānuṣaḥ |
sumārutaṃ na brahmāṇam arhase gaṇam astoṣy eṣāṃ na śobhase ||
Padapāṭha
अ॒भ्र॒ऽप्रुषः॑ । न । वा॒चा । प्रु॒ष॒ । वसु॑ । ह॒विष्म॑न्तः । न । य॒ज्ञाः । वि॒ऽजा॒नुषः॑ ।
सु॒ऽमारु॑तम् । न । ब्र॒ह्माण॑म् । अ॒र्हसे॑ । ग॒णम् । अ॒स्तो॒षि॒ । ए॒षा॒म् । न । शो॒भसे॑ ॥
अभ्रऽप्रुषः । न । वाचा । प्रुष । वसु । हविष्मन्तः । न । यज्ञाः । विऽजानुषः ।
सुऽमारुतम् । न । ब्रह्माणम् । अर्हसे । गणम् । अस्तोषि । एषाम् । न । शोभसे ॥
abhra-prúṣaḥ ǀ ná ǀ vācā́ ǀ pruṣa ǀ vásu ǀ havíṣmantaḥ ǀ ná ǀ yajñā́ḥ ǀ vi-jānúṣaḥ ǀ
su-mā́rutam ǀ ná ǀ brahmā́ṇam ǀ arháse ǀ gaṇám ǀ astoṣi ǀ eṣām ǀ ná ǀ śobháse ǁ
abhra-pruṣaḥ ǀ na ǀ vācā ǀ pruṣa ǀ vasu ǀ haviṣmantaḥ ǀ na ǀ yajñāḥ ǀ vi-jānuṣaḥ ǀ
su-mārutam ǀ na ǀ brahmāṇam ǀ arhase ǀ gaṇam ǀ astoṣi ǀ eṣām ǀ na ǀ śobhase ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.077.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.10.01
- Maṇḍala · Anuvāka · Ṛk
- 10.06.078
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Syūmaraśmi Bhārgava
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.