Ṛgveda · Maṇḍala 10 · Sūkta 77
Ṛk 10.77.3
Saṃhitā
प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्यः॑ ।
पाज॑स्वंतो॒ न वी॒राः प॑न॒स्यवो॑ रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ॥
प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान् न सूर्यः |
पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ||
prá yé diváḥ pṛthivyā́ ná barháṇā tmánā riricré abhrā́nná sū́ryaḥ ǀ
pā́jasvanto ná vīrā́ḥ panasyávo riśā́daso ná máryā abhídyavaḥ ǁ
pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ |
pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ ||
Padapāṭha
प्र । ये । दि॒वः । पृ॒थि॒व्याः । न । ब॒र्हणा॑ । त्मना॑ । रि॒रि॒च्रे । अ॒भ्रात् । न । सूर्यः॑ ।
पाज॑स्वन्तः । न । वी॒राः । प॒न॒स्यवः॑ । रि॒शाद॑सः । न । मर्याः॑ । अ॒भिऽद्य॑वः ॥
प्र । ये । दिवः । पृथिव्याः । न । बर्हणा । त्मना । रिरिच्रे । अभ्रात् । न । सूर्यः ।
पाजस्वन्तः । न । वीराः । पनस्यवः । रिशादसः । न । मर्याः । अभिऽद्यवः ॥
prá ǀ yé ǀ diváḥ ǀ pṛthivyā́ḥ ǀ ná ǀ barháṇā ǀ tmánā ǀ riricré ǀ abhrā́t ǀ ná ǀ sū́ryaḥ ǀ
pā́jasvantaḥ ǀ ná ǀ vīrā́ḥ ǀ panasyávaḥ ǀ riśā́dasaḥ ǀ ná ǀ máryāḥ ǀ abhí-dyavaḥ ǁ
pra ǀ ye ǀ divaḥ ǀ pṛthivyāḥ ǀ na ǀ barhaṇā ǀ tmanā ǀ riricre ǀ abhrāt ǀ na ǀ sūryaḥ ǀ
pājasvantaḥ ǀ na ǀ vīrāḥ ǀ panasyavaḥ ǀ riśādasaḥ ǀ na ǀ maryāḥ ǀ abhi-dyavaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.077.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.10.03
- Maṇḍala · Anuvāka · Ṛk
- 10.06.080
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Syūmaraśmi Bhārgava
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.