Ṛgveda · Maṇḍala 10

Sūkta 107

Dakṣiṇā · Divya Āṅgirasa Or Dakṣiṇā Prājapatyā · 11 ṛks

Link
Devatā देवता
Dakṣiṇā
Ṛṣi ऋषि
Divya Āṅgirasa Or Dakṣiṇā Prājapatyā
Chandas छन्दस्
Triṣṭubh, Jagatī
Metres by ṛk

1st set of styles nicṛttriṣṭup (2, 3, 6, 9, 11); triṣṭup (1, 5, 7); pādanicṛttriṣṭup (8, 10); nicṛjjagatī (4)

2nd set of styles triṣṭubh (1-3, 5-11); jagatī (4)

  1. Ṛk 1

    आ॒विर॑भू॒न्महि॒ माघो॑नमेषां॒ विश्वं॑ जी॒वं तम॑सो॒ निर॑मोचि ।
    महि॒ ज्योतिः॑ पि॒तृभि॑र्द॒त्तमागा॑दु॒रुः पंथा॒ दक्षि॑णाया अदर्शि ॥

    आविर् अभून् महि माघोनम् एषां विश्वं जीवं तमसो निर् अमोचि |
    महि ज्योतिः पितृभिर् दत्तम् आगाद् उरुः पन्था दक्षिणाया अदर्शि ||

    āvírabhūnmáhi mā́ghonameṣām víśvam jīvám támaso níramoci ǀ
    máhi jyótiḥ pitṛ́bhirdattámā́gādurúḥ pánthā dákṣiṇāyā adarśi ǁ

    āvir abhūn mahi māghonam eṣāṃ viśvaṃ jīvaṃ tamaso nir amoci |
    mahi jyotiḥ pitṛbhir dattam āgād uruḥ panthā dakṣiṇāyā adarśi ||

    आ॒विः । अ॒भू॒त् । महि॑ । माघो॑नम् । ए॒षा॒म् । विश्व॑म् । जी॒वम् । तम॑सः । निः । अ॒मो॒चि॒ ।
    महि॑ । ज्योतिः॑ । पि॒तृऽभिः॑ । द॒त्तम् । आ । अ॒गा॒त् । उ॒रुः । पन्थाः॑ । दक्षि॑णायाः । अ॒द॒र्शि॒ ॥

    आविः । अभूत् । महि । माघोनम् । एषाम् । विश्वम् । जीवम् । तमसः । निः । अमोचि ।
    महि । ज्योतिः । पितृऽभिः । दत्तम् । आ । अगात् । उरुः । पन्थाः । दक्षिणायाः । अदर्शि ॥

    āvíḥ ǀ abhūt ǀ máhi ǀ mā́ghonam ǀ eṣām ǀ víśvam ǀ jīvám ǀ támasaḥ ǀ níḥ ǀ amoci ǀ
    máhi ǀ jyótiḥ ǀ pitṛ́-bhiḥ ǀ dattám ǀ ā́ ǀ agāt ǀ urúḥ ǀ pánthāḥ ǀ dákṣiṇāyāḥ ǀ adarśi ǁ

    āviḥ ǀ abhūt ǀ mahi ǀ māghonam ǀ eṣām ǀ viśvam ǀ jīvam ǀ tamasaḥ ǀ niḥ ǀ amoci ǀ
    mahi ǀ jyotiḥ ǀ pitṛ-bhiḥ ǀ dattam ǀ ā ǀ agāt ǀ uruḥ ǀ panthāḥ ǀ dakṣiṇāyāḥ ǀ adarśi ǁ

    10.107.1 Aṣṭaka 8.6.3.1Anuvāka 10.9.83

  2. Ṛk 2

    उ॒च्चा दि॒वि दक्षि॑णावंतो अस्थु॒र्ये अ॑श्व॒दाः स॒ह ते सूर्ये॑ण ।
    हि॒र॒ण्य॒दा अ॑मृत॒त्वं भ॑जंते वासो॒दाः सो॑म॒ प्र ति॑रंत॒ आयुः॑ ॥

    उच्चा दिवि दक्षिणावन्तो अस्थुर् ये अश्वदाः सह ते सूर्येण |
    हिरण्यदा अमृतत्वम् भजन्ते वासोदाः सोम प्र तिरन्त आयुः ||

    uccā́ diví dákṣiṇāvanto asthuryé aśvadā́ḥ sahá té sū́ryeṇa ǀ
    hiraṇyadā́ amṛtatvám bhajante vāsodā́ḥ soma prá tiranta ā́yuḥ ǁ

    uccā divi dakṣiṇāvanto asthur ye aśvadāḥ saha te sūryeṇa |
    hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ ||

    उ॒च्चा । दि॒वि । दक्षि॑णाऽवन्तः । अ॒स्थुः॒ । ये । अ॒श्व॒ऽदाः । स॒ह । ते । सूर्ये॑ण ।
    हि॒र॒ण्य॒ऽदाः । अ॒मृ॒त॒ऽत्वम् । भ॒ज॒न्ते॒ । वा॒सः॒ऽदाः । सो॒म॒ । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥

    उच्चा । दिवि । दक्षिणाऽवन्तः । अस्थुः । ये । अश्वऽदाः । सह । ते । सूर्येण ।
    हिरण्यऽदाः । अमृतऽत्वम् । भजन्ते । वासःऽदाः । सोम । प्र । तिरन्ते । आयुः ॥

    uccā́ ǀ diví ǀ dákṣiṇā-vantaḥ ǀ asthuḥ ǀ yé ǀ aśva-dā́ḥ ǀ sahá ǀ té ǀ sū́ryeṇa ǀ
    hiraṇya-dā́ḥ ǀ amṛta-tvám ǀ bhajante ǀ vāsaḥ-dā́ḥ ǀ soma ǀ prá ǀ tirante ǀ ā́yuḥ ǁ

    uccā ǀ divi ǀ dakṣiṇā-vantaḥ ǀ asthuḥ ǀ ye ǀ aśva-dāḥ ǀ saha ǀ te ǀ sūryeṇa ǀ
    hiraṇya-dāḥ ǀ amṛta-tvam ǀ bhajante ǀ vāsaḥ-dāḥ ǀ soma ǀ pra ǀ tirante ǀ āyuḥ ǁ

    10.107.2 Aṣṭaka 8.6.3.2Anuvāka 10.9.84

  3. Ṛk 3

    दैवी॑ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो॑ न॒हि ते पृ॒णंति॑ ।
    अथा॒ नरः॒ प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हवः॑ पृणंति ॥

    दैवी पूर्तिर् दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणन्ति |
    अथा नरः प्रयतदक्षिणासो ऽवद्यभिया बहवः पृणन्ति ||

    dáivī pūrtírdákṣiṇā devayajyā́ ná kavāríbhyo nahí té pṛṇánti ǀ
    áthā náraḥ práyatadakṣiṇāso’vadyabhiyā́ bahávaḥ pṛṇanti ǁ

    daivī pūrtir dakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti |
    athā naraḥ prayatadakṣiṇāso 'vadyabhiyā bahavaḥ pṛṇanti ||

    दैवी॑ । पू॒र्तिः । दक्षि॑णा । दे॒व॒ऽय॒ज्या । न । क॒व॒ऽअ॒रिभ्यः॑ । न॒हि । ते । पृ॒णन्ति॑ ।
    अथ॑ । नरः॑ । प्रय॑तऽदक्षिणासः । अ॒व॒द्य॒ऽभि॒या । ब॒हवः॑ । पृ॒ण॒न्ति॒ ॥

    दैवी । पूर्तिः । दक्षिणा । देवऽयज्या । न । कवऽअरिभ्यः । नहि । ते । पृणन्ति ।
    अथ । नरः । प्रयतऽदक्षिणासः । अवद्यऽभिया । बहवः । पृणन्ति ॥

    dáivī ǀ pūrtíḥ ǀ dákṣiṇā ǀ deva-yajyā́ ǀ ná ǀ kava-aríbhyaḥ ǀ nahí ǀ té ǀ pṛṇánti ǀ
    átha ǀ náraḥ ǀ práyata-dakṣiṇāsaḥ ǀ avadya-bhiyā́ ǀ bahávaḥ ǀ pṛṇanti ǁ

    daivī ǀ pūrtiḥ ǀ dakṣiṇā ǀ deva-yajyā ǀ na ǀ kava-aribhyaḥ ǀ nahi ǀ te ǀ pṛṇanti ǀ
    atha ǀ naraḥ ǀ prayata-dakṣiṇāsaḥ ǀ avadya-bhiyā ǀ bahavaḥ ǀ pṛṇanti ǁ

    10.107.3 Aṣṭaka 8.6.3.3Anuvāka 10.9.85

  4. Ṛk 4

    श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते ह॒विः ।
    ये पृ॒णंति॒ प्र च॒ यच्छं॑ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा॑तरं ॥

    शतधारं वायुम् अर्कं स्वर्विदं नृचक्षसस् ते अभि चक्षते हविः |
    ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम् ||

    śatádhāram vāyúmarkám svarvídam nṛcákṣasasté abhí cakṣate havíḥ ǀ
    yé pṛṇánti prá ca yácchanti saṃgamé té dákṣiṇām duhate saptámātaram ǁ

    śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate haviḥ |
    ye pṛṇanti pra ca yacchanti saṃgame te dakṣiṇāṃ duhate saptamātaram ||

    श॒तऽधा॑रम् । वा॒युम् । अ॒र्कम् । स्वः॒ऽविद॑म् । नृ॒ऽचक्ष॑सः । ते । अ॒भि । च॒क्ष॒ते॒ । ह॒विः ।
    ये । पृ॒णन्ति॑ । प्र । च॒ । यच्छ॑न्ति । स॒म्ऽग॒मे । ते । दक्षि॑णाम् । दु॒ह॒ते॒ । स॒प्तऽमा॑तरम् ॥

    शतऽधारम् । वायुम् । अर्कम् । स्वःऽविदम् । नृऽचक्षसः । ते । अभि । चक्षते । हविः ।
    ये । पृणन्ति । प्र । च । यच्छन्ति । सम्ऽगमे । ते । दक्षिणाम् । दुहते । सप्तऽमातरम् ॥

    śatá-dhāram ǀ vāyúm ǀ arkám ǀ svaḥ-vídam ǀ nṛ-cákṣasaḥ ǀ té ǀ abhí ǀ cakṣate ǀ havíḥ ǀ
    yé ǀ pṛṇánti ǀ prá ǀ ca ǀ yácchanti ǀ sam-gamé ǀ té ǀ dákṣiṇām ǀ duhate ǀ saptá-mātaram ǁ

    śata-dhāram ǀ vāyum ǀ arkam ǀ svaḥ-vidam ǀ nṛ-cakṣasaḥ ǀ te ǀ abhi ǀ cakṣate ǀ haviḥ ǀ
    ye ǀ pṛṇanti ǀ pra ǀ ca ǀ yacchanti ǀ sam-game ǀ te ǀ dakṣiṇām ǀ duhate ǀ sapta-mātaram ǁ

    10.107.4 Aṣṭaka 8.6.3.4Anuvāka 10.9.86

  5. Ṛk 5

    दक्षि॑णावान्प्रथ॒मो हू॒त ए॑ति॒ दक्षि॑णावान्ग्राम॒णीरग्र॑मेति ।
    तमे॒व म॑न्ये नृ॒पतिं॒ जना॑नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ॥

    दक्षिणावान् प्रथमो हूत एति दक्षिणावान् ग्रामणीर् अग्रम् एति |
    तम् एव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणाम् आविवाय ||

    dákṣiṇāvānprathamó hūtá eti dákṣiṇāvāngrāmaṇī́rágrameti ǀ
    támevá manye nṛpátim jánānām yáḥ prathamó dákṣiṇāmāvivā́ya ǁ

    dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti |
    tam eva manye nṛpatiṃ janānāṃ yaḥ prathamo dakṣiṇām āvivāya ||

    दक्षि॑णाऽवान् । प्र॒थ॒मः । हू॒तः । ए॒ति॒ । दक्षि॑णाऽवान् । ग्रा॒म॒ऽनीः । अग्र॑म् । ए॒ति॒ ।
    तम् । ए॒व । म॒न्ये॒ । नृ॒ऽपति॑म् । जना॑नाम् । यः । प्र॒थ॒मः । दक्षि॑णाम् । आ॒ऽवि॒वाय॑ ॥

    दक्षिणाऽवान् । प्रथमः । हूतः । एति । दक्षिणाऽवान् । ग्रामऽनीः । अग्रम् । एति ।
    तम् । एव । मन्ये । नृऽपतिम् । जनानाम् । यः । प्रथमः । दक्षिणाम् । आऽविवाय ॥

    dákṣiṇā-vān ǀ prathamáḥ ǀ hūtáḥ ǀ eti ǀ dákṣiṇā-vān ǀ grāma-nī́ḥ ǀ ágram ǀ eti ǀ
    tám ǀ evá ǀ manye ǀ nṛ-pátim ǀ jánānām ǀ yáḥ ǀ prathamáḥ ǀ dákṣiṇām ǀ ā-vivā́ya ǁ

    dakṣiṇā-vān ǀ prathamaḥ ǀ hūtaḥ ǀ eti ǀ dakṣiṇā-vān ǀ grāma-nīḥ ǀ agram ǀ eti ǀ
    tam ǀ eva ǀ manye ǀ nṛ-patim ǀ janānām ǀ yaḥ ǀ prathamaḥ ǀ dakṣiṇām ǀ ā-vivāya ǁ

    10.107.5 Aṣṭaka 8.6.3.5Anuvāka 10.9.87

  6. Ṛk 6

    तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं॑ साम॒गामु॑क्थ॒शासं॑ ।
    स शु॒क्रस्य॑ त॒न्वो॑ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ॥

    तम् एव ऋषिं तम् उ ब्रह्माणम् आहुर् यज्ञन्यं सामगाम् उक्थशासम् |
    स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध ||

    támevá ṛ́ṣim támu brahmā́ṇamāhuryajñanyám sāmagā́mukthaśā́sam ǀ
    sá śukrásya tanvó veda tisró yáḥ prathamó dákṣiṇayā rarā́dha ǁ

    tam eva ṛṣiṃ tam u brahmāṇam āhur yajñanyaṃ sāmagām ukthaśāsam |
    sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha ||

    तम् । ए॒व । ऋषि॑म् । तम् । ऊं॒ इति॑ । ब्र॒ह्माण॑म् । आ॒हुः॒ । य॒ज्ञ॒ऽन्य॑म् । सा॒म॒ऽगाम् । उ॒क्थ॒ऽशस॑म् ।
    सः । शु॒क्रस्य॑ । त॒न्वः॑ । वे॒द॒ । ति॒स्रः । यः । प्र॒थ॒मः । दक्षि॑णया । र॒राध॑ ॥

    तम् । एव । ऋषिम् । तम् । ऊं इति । ब्रह्माणम् । आहुः । यज्ञऽन्यम् । सामऽगाम् । उक्थऽशसम् ।
    सः । शुक्रस्य । तन्वः । वेद । तिस्रः । यः । प्रथमः । दक्षिणया । रराध ॥

    tám ǀ evá ǀ ṛ́ṣim ǀ tám ǀ ūṃ íti ǀ brahmā́ṇam ǀ āhuḥ ǀ yajña-nyám ǀ sāma-gā́m ǀ uktha-śásam ǀ
    sáḥ ǀ śukrásya ǀ tanváḥ ǀ veda ǀ tisráḥ ǀ yáḥ ǀ prathamáḥ ǀ dákṣiṇayā ǀ rarā́dha ǁ

    tam ǀ eva ǀ ṛṣim ǀ tam ǀ ūṃ iti ǀ brahmāṇam ǀ āhuḥ ǀ yajña-nyam ǀ sāma-gām ǀ uktha-śasam ǀ
    saḥ ǀ śukrasya ǀ tanvaḥ ǀ veda ǀ tisraḥ ǀ yaḥ ǀ prathamaḥ ǀ dakṣiṇayā ǀ rarādha ǁ

    10.107.6 Aṣṭaka 8.6.4.1Anuvāka 10.9.88

  7. Ṛk 7

    दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा चं॒द्रमु॒त यद्धिर॑ण्यं ।
    दक्षि॒णान्नं॑ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ॥

    दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रम् उत यद् धिरण्यम् |
    दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन् ||

    dákṣiṇā́śvam dákṣiṇā gā́m dadāti dákṣiṇā candrámutá yáddhíraṇyam ǀ
    dákṣiṇā́nnam vanute yó na ātmā́ dákṣiṇām várma kṛṇute vijānán ǁ

    dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yad dhiraṇyam |
    dakṣiṇānnaṃ vanute yo na ātmā dakṣiṇāṃ varma kṛṇute vijānan ||

    दक्षि॑णा । अश्व॑म् । दक्षि॑णा । गाम् । द॒दा॒ति॒ । दक्षि॑णा । च॒न्द्रम् । उ॒त । यत् । हिर॑ण्यम् ।
    दक्षि॑णा । अन्न॑म् । व॒नु॒ते॒ । यः । नः॒ । आ॒त्मा । दक्षि॑णाम् । वर्म॑ । कृ॒णु॒ते॒ । वि॒ऽजा॒नन् ॥

    दक्षिणा । अश्वम् । दक्षिणा । गाम् । ददाति । दक्षिणा । चन्द्रम् । उत । यत् । हिरण्यम् ।
    दक्षिणा । अन्नम् । वनुते । यः । नः । आत्मा । दक्षिणाम् । वर्म । कृणुते । विऽजानन् ॥

    dákṣiṇā ǀ áśvam ǀ dákṣiṇā ǀ gā́m ǀ dadāti ǀ dákṣiṇā ǀ candrám ǀ utá ǀ yát ǀ híraṇyam ǀ
    dákṣiṇā ǀ ánnam ǀ vanute ǀ yáḥ ǀ naḥ ǀ ātmā́ ǀ dákṣiṇām ǀ várma ǀ kṛṇute ǀ vi-jānán ǁ

    dakṣiṇā ǀ aśvam ǀ dakṣiṇā ǀ gām ǀ dadāti ǀ dakṣiṇā ǀ candram ǀ uta ǀ yat ǀ hiraṇyam ǀ
    dakṣiṇā ǀ annam ǀ vanute ǀ yaḥ ǀ naḥ ǀ ātmā ǀ dakṣiṇām ǀ varma ǀ kṛṇute ǀ vi-jānan ǁ

    10.107.7 Aṣṭaka 8.6.4.2Anuvāka 10.9.89

  8. Ṛk 8

    न भो॒जा म॑म्रु॒र्न न्य॒र्थमी॑यु॒र्न रि॑ष्यंति॒ न व्य॑थंते ह भो॒जाः ।
    इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ॥

    न भोजा मम्रुर् न न्यर्थम् ईयुर् न रिष्यन्ति न व्यथन्ते ह भोजाः |
    इदं यद् विश्वम् भुवनं स्वश् चैतत् सर्वं दक्षिणैभ्यो ददाति ||

    ná bhojā́ mamrurná nyarthámīyurná riṣyanti ná vyathante ha bhojā́ḥ ǀ
    idám yádvíśvam bhúvanam sváścaitátsárvam dákṣiṇaibhyo dadāti ǁ

    na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ |
    idaṃ yad viśvam bhuvanaṃ svaś caitat sarvaṃ dakṣiṇaibhyo dadāti ||

    न । भो॒जाः । म॒म्रुः॒ । न । नि॒ऽअ॒र्थम् । ई॒युः॒ । न । रि॒ष्य॒न्ति॒ । न । व्य॒थ॒न्ते॒ । ह॒ । भो॒जाः ।
    इ॒दम् । यत् । विश्व॑म् । भुव॑नम् । स्वः॑ । च॒ । ए॒तत् । सर्व॑म् । दक्षि॑णा । ए॒भ्यः॒ । द॒दा॒ति॒ ॥

    न । भोजाः । मम्रुः । न । निऽअर्थम् । ईयुः । न । रिष्यन्ति । न । व्यथन्ते । ह । भोजाः ।
    इदम् । यत् । विश्वम् । भुवनम् । स्वः । च । एतत् । सर्वम् । दक्षिणा । एभ्यः । ददाति ॥

    ná ǀ bhojā́ḥ ǀ mamruḥ ǀ ná ǀ ni-arthám ǀ īyuḥ ǀ ná ǀ riṣyanti ǀ ná ǀ vyathante ǀ ha ǀ bhojā́ḥ ǀ
    idám ǀ yát ǀ víśvam ǀ bhúvanam ǀ sváḥ ǀ ca ǀ etát ǀ sárvam ǀ dákṣiṇā ǀ ebhyaḥ ǀ dadāti ǁ

    na ǀ bhojāḥ ǀ mamruḥ ǀ na ǀ ni-artham ǀ īyuḥ ǀ na ǀ riṣyanti ǀ na ǀ vyathante ǀ ha ǀ bhojāḥ ǀ
    idam ǀ yat ǀ viśvam ǀ bhuvanam ǀ svaḥ ǀ ca ǀ etat ǀ sarvam ǀ dakṣiṇā ǀ ebhyaḥ ǀ dadāti ǁ

    10.107.8 Aṣṭaka 8.6.4.3Anuvāka 10.9.90

  9. Ṛk 9

    भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे॑ भो॒जा जि॑ग्युर्व॒ध्वं१॒॑ या सु॒वासाः॑ ।
    भो॒जा जि॑ग्युरंतः॒पेयं॒ सुरा॑या भो॒जा जि॑ग्यु॒र्ये अहू॑ताः प्र॒यंति॑ ॥

    भोजा जिग्युः सुरभिं योनिम् अग्रे भोजा जिग्युर् वध्वं या सुवासाः |
    भोजा जिग्युर् अन्तःपेयं सुराया भोजा जिग्युर् ये अहूताः प्रयन्ति ||

    bhojā́ jigyuḥ surabhím yónimágre bhojā́ jigyurvadhvám yā́ suvā́sāḥ ǀ
    bhojā́ jigyurantaḥpéyam súrāyā bhojā́ jigyuryé áhūtāḥ prayánti ǁ

    bhojā jigyuḥ surabhiṃ yonim agre bhojā jigyur vadhvaṃ yā suvāsāḥ |
    bhojā jigyur antaḥpeyaṃ surāyā bhojā jigyur ye ahūtāḥ prayanti ||

    भो॒जाः । जि॒ग्युः॒ । सु॒र॒भिम् । योनि॑म् । अग्रे॑ । भो॒जाः । जि॒ग्युः॒ । व॒ध्व॑म् । या । सु॒ऽवासाः॑ ।
    भो॒जाः । जि॒ग्युः॒ । अ॒न्तः॒ऽपेय॑म् । सुरा॑याः । भो॒जाः । जि॒ग्युः॒ । ये । अहू॑ताः । प्र॒ऽयन्ति॑ ॥

    भोजाः । जिग्युः । सुरभिम् । योनिम् । अग्रे । भोजाः । जिग्युः । वध्वम् । या । सुऽवासाः ।
    भोजाः । जिग्युः । अन्तःऽपेयम् । सुरायाः । भोजाः । जिग्युः । ये । अहूताः । प्रऽयन्ति ॥

    bhojā́ḥ ǀ jigyuḥ ǀ surabhím ǀ yónim ǀ ágre ǀ bhojā́ḥ ǀ jigyuḥ ǀ vadhvám ǀ yā́ ǀ su-vā́sāḥ ǀ
    bhojā́ḥ ǀ jigyuḥ ǀ antaḥ-péyam ǀ súrāyāḥ ǀ bhojā́ḥ ǀ jigyuḥ ǀ yé ǀ áhūtāḥ ǀ pra-yánti ǁ

    bhojāḥ ǀ jigyuḥ ǀ surabhim ǀ yonim ǀ agre ǀ bhojāḥ ǀ jigyuḥ ǀ vadhvam ǀ yā ǀ su-vāsāḥ ǀ
    bhojāḥ ǀ jigyuḥ ǀ antaḥ-peyam ǀ surāyāḥ ǀ bhojāḥ ǀ jigyuḥ ǀ ye ǀ ahūtāḥ ǀ pra-yanti ǁ

    10.107.9 Aṣṭaka 8.6.4.4Anuvāka 10.9.91

  10. Ṛk 10

    भो॒जायाश्वं॒ सं मृ॑जंत्या॒शुं भो॒जाया॑स्ते क॒न्या॒३॒॑ शुंभ॑माना ।
    भो॒जस्ये॒दं पु॑ष्क॒रिणी॑व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रं ॥

    भोजायाश्वं सम् मृजन्त्य् आशुम् भोजायास्ते कन्या शुम्भमाना |
    भोजस्येदम् पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रम् ||

    bhojā́yā́śvam sám mṛjantyāśúm bhojā́yāste kanyā́ śúmbhamānā ǀ
    bhojásyedám puṣkaríṇīva véśma páriṣkṛtam devamānéva citrám ǁ

    bhojāyāśvaṃ sam mṛjanty āśum bhojāyāste kanyā śumbhamānā |
    bhojasyedam puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram ||

    भो॒जाय॑ । अश्व॑म् । सम् । मृ॒ज॒न्ति॒ । आ॒शुम् । भो॒जाय॑ । आ॒स्ते॒ । क॒न्या॑ । शुम्भ॑माना ।
    भो॒जस्य॑ । इ॒दम् । पु॒ष्क॒रिणी॑ऽइव । वेश्म॑ । परि॑ऽकृतम् । दे॒व॒मा॒नाऽइ॑व । चि॒त्रम् ॥

    भोजाय । अश्वम् । सम् । मृजन्ति । आशुम् । भोजाय । आस्ते । कन्या । शुम्भमाना ।
    भोजस्य । इदम् । पुष्करिणीऽइव । वेश्म । परिऽकृतम् । देवमानाऽइव । चित्रम् ॥

    bhojā́ya ǀ áśvam ǀ sám ǀ mṛjanti ǀ āśúm ǀ bhojā́ya ǀ āste ǀ kanyā́ ǀ śúmbhamānā ǀ
    bhojásya ǀ idám ǀ puṣkaríṇī-iva ǀ véśma ǀ pári-kṛtam ǀ devamānā́-iva ǀ citrám ǁ

    bhojāya ǀ aśvam ǀ sam ǀ mṛjanti ǀ āśum ǀ bhojāya ǀ āste ǀ kanyā ǀ śumbhamānā ǀ
    bhojasya ǀ idam ǀ puṣkariṇī-iva ǀ veśma ǀ pari-kṛtam ǀ devamānā-iva ǀ citram ǁ

    10.107.10 Aṣṭaka 8.6.4.5Anuvāka 10.9.92

  11. Ṛk 11

    भो॒जमश्वाः॑ सुष्ठु॒वाहो॑ वहंति सु॒वृद्रथो॑ वर्तते॒ दक्षि॑णायाः ।
    भो॒जं दे॑वासोऽवता॒ भरे॑षु भो॒जः शत्रू॑न्त्समनी॒केषु॒ जेता॑ ॥

    भोजम् अश्वाः सुष्ठुवाहो वहन्ति सुवृद् रथो वर्तते दक्षिणायाः |
    भोजं देवासो ऽवता भरेषु भोजः शत्रून् समनीकेषु जेता ||

    bhojámáśvāḥ suṣṭhuvā́ho vahanti suvṛ́drátho vartate dákṣiṇāyāḥ ǀ
    bhojám devāso’vatā bháreṣu bhojáḥ śátrūntsamanīkéṣu jétā ǁ

    bhojam aśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartate dakṣiṇāyāḥ |
    bhojaṃ devāso 'vatā bhareṣu bhojaḥ śatrūn samanīkeṣu jetā ||

    भो॒जम् । अश्वाः॑ । सु॒ष्ठु॒ऽवाहः॑ । व॒ह॒न्ति॒ । सु॒ऽवृत् । रथः॑ । व॒र्त॒ते॒ । दक्षि॑णायाः ।
    भो॒जम् । दे॒वा॒सः॒ । अ॒व॒त॒ । भरे॑षु । भो॒जः । शत्रू॑न् । स॒म्ऽअ॒नी॒केषु॑ । जेता॑ ॥

    भोजम् । अश्वाः । सुष्ठुऽवाहः । वहन्ति । सुऽवृत् । रथः । वर्तते । दक्षिणायाः ।
    भोजम् । देवासः । अवत । भरेषु । भोजः । शत्रून् । सम्ऽअनीकेषु । जेता ॥

    bhojám ǀ áśvāḥ ǀ suṣṭhu-vā́haḥ ǀ vahanti ǀ su-vṛ́t ǀ ráthaḥ ǀ vartate ǀ dákṣiṇāyāḥ ǀ
    bhojám ǀ devāsaḥ ǀ avata ǀ bháreṣu ǀ bhojáḥ ǀ śátrūn ǀ sam-anīkéṣu ǀ jétā ǁ

    bhojam ǀ aśvāḥ ǀ suṣṭhu-vāhaḥ ǀ vahanti ǀ su-vṛt ǀ rathaḥ ǀ vartate ǀ dakṣiṇāyāḥ ǀ
    bhojam ǀ devāsaḥ ǀ avata ǀ bhareṣu ǀ bhojaḥ ǀ śatrūn ǀ sam-anīkeṣu ǀ jetā ǁ

    10.107.11 Aṣṭaka 8.6.4.6Anuvāka 10.9.93

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.107 · Dakṣiṇā

Interpretations

Ralph T. H. Griffith

Ṛk 1

THESE men's great bounty hath been manifested, and the whole world of life set free from darkness. Great light hath come, vouchsafed us by the Fathers: apparent is the spacious path of Guerdon.

Ṛk 2

High up in heaven abide the Guerdon-givers: they who give steeds dwell with the Sun for ever. They who give gold are blest with life eternal. they who give robes prolong their lives, O Soma.

Ṛk 3

Not from the niggards-for they give not fireely-comes Meed at sacrifice, Gods’ satisfaction: Yea, many men with hands stretched out with Guerdon present their gifts because they dread dishonour.

Ṛk 4

These who observe mankind regard oblation as streamy Vāyu and light-finding Arka. They satisfy and give their gifts in synod, and pour in streams the seven-mothered Guerdon.

Ṛk 5

He who brings Guerdon comes as first invited: chief of the hamlet comes the Guerdon-bearer. Him I account the ruler of the people who was the first to introduce the Guerdon.

Ṛk 6

They call him Ṛṣi, Brahman, Sāma-chanter, reciter of the laud, leader of worship. The brightly-shining God's three forms he knoweth who first bestowed the sacrificial Guerdon.

Ṛk 7

Guerdon bestows the horse, bestows the bullock, Guerdon bestows, moreover, gold that Rsisters. Guerdon gives food which is our life and spirit. He who is wise takes Guerdon for his armour.

Ṛk 8

The liberal die not, never are they ruined: the liberal suffer neither harm nor trouble. The light of heaven, the universe about us,—all this doth sacrificial Guerdon give them.

Ṛk 9

First have the liberal gained a fragrant dwelling, and got themselves a bride in fair apparel. The liberal have obtained their draught of liquor, and conquered those who, unprovoked, assailed them.

Ṛk 10

They deck the fleet steed for the bounteous giver: the maid adorns herself and waits to meet him. His home is like a lake with lotus blossoms, like the Gods’ palaces adorned and splendid.