Sūkta 3
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (5-7); nicṛttriṣṭup (2, 3); pādanicṛttriṣṭup (1); virāṭtrisṭup (4)
2nd set of styles triṣṭubh
-
Ṛk 1
इ॒नो रा॑जन्नर॒तिः समि॑द्धो॒ रौद्रो॒ दक्षा॑य सुषु॒माँ अ॑दर्शि ।
चि॒किद्वि भा॑ति भा॒सा बृ॑ह॒तासि॑क्नीमेति॒ रुश॑तीम॒पाज॑न् ॥इनो राजन्न् अरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि |
चिकिद् वि भाति भासा बृहतासिक्नीम् एति रुशतीम् अपाजन् ||inó rājannaratíḥ sámiddho ráudro dákṣāya suṣumā́m̐ adarśi ǀ
cikídví bhāti bhāsā́ bṛhatā́siknīmeti rúśatīmapā́jan ǁino rājann aratiḥ samiddho raudro dakṣāya suṣumāṃ adarśi |
cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan ||इ॒नः । रा॒ज॒न् । अ॒र॒तिः । सम्ऽइ॑द्धः । रौद्रः॑ । दक्षा॑य । सु॒सु॒ऽमान् । अ॒द॒र्शि॒ ।
चि॒कित् । वि । भा॒ति॒ । भा॒सा । बृ॒ह॒ता । असि॑क्नीम् । ए॒ति॒ । रुश॑तीम् । अ॒प॒ऽअज॑न् ॥इनः । राजन् । अरतिः । सम्ऽइद्धः । रौद्रः । दक्षाय । सुसुऽमान् । अदर्शि ।
चिकित् । वि । भाति । भासा । बृहता । असिक्नीम् । एति । रुशतीम् । अपऽअजन् ॥ináḥ ǀ rājan ǀ aratíḥ ǀ sám-iddhaḥ ǀ ráudraḥ ǀ dákṣāya ǀ susu-mā́n ǀ adarśi ǀ
cikít ǀ ví ǀ bhāti ǀ bhāsā́ ǀ bṛhatā́ ǀ ásiknīm ǀ eti ǀ rúśatīm ǀ apa-ájan ǁinaḥ ǀ rājan ǀ aratiḥ ǀ sam-iddhaḥ ǀ raudraḥ ǀ dakṣāya ǀ susu-mān ǀ adarśi ǀ
cikit ǀ vi ǀ bhāti ǀ bhāsā ǀ bṛhatā ǀ asiknīm ǀ eti ǀ ruśatīm ǀ apa-ajan ǁ10.3.1 Aṣṭaka 7.5.31.1Anuvāka 10.1.15
-
Ṛk 2
कृ॒ष्णां यदेनी॑म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां॑ बृह॒तः पि॒तुर्जां ।
ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यंदि॒वो वसु॑भिरर॒तिर्वि भा॑ति ॥कृष्णां यद् एनीम् अभि वर्पसा भूज् जनयन् योषाम् बृहतः पितुर् जाम् |
ऊर्ध्वम् भानुं सूर्यस्य स्तभायन् दिवो वसुभिर् अरतिर् वि भाति ||kṛṣṇā́m yádénīmabhí várpasā bhū́jjanáyanyóṣām bṛhatáḥ pitúrjā́m ǀ
ūrdhvám bhānúm sū́ryasya stabhāyándivó vásubhiraratírví bhāti ǁkṛṣṇāṃ yad enīm abhi varpasā bhūj janayan yoṣām bṛhataḥ pitur jām |
ūrdhvam bhānuṃ sūryasya stabhāyan divo vasubhir aratir vi bhāti ||कृ॒ष्णाम् । यत् । एनी॑म् । अ॒भि । वर्प॑सा । भूत् । ज॒नय॑न् । योषा॑म् । बृ॒ह॒तः । पि॒तुः । जाम् ।
ऊ॒र्ध्वम् । भा॒नुम् । सूर्य॑स्य । स्त॒भा॒यन् । दि॒वः । वसु॑ऽभिः । अ॒र॒तिः । वि । भा॒ति॒ ॥कृष्णाम् । यत् । एनीम् । अभि । वर्पसा । भूत् । जनयन् । योषाम् । बृहतः । पितुः । जाम् ।
ऊर्ध्वम् । भानुम् । सूर्यस्य । स्तभायन् । दिवः । वसुऽभिः । अरतिः । वि । भाति ॥kṛṣṇā́m ǀ yát ǀ énīm ǀ abhí ǀ várpasā ǀ bhū́t ǀ janáyan ǀ yóṣām ǀ bṛhatáḥ ǀ pitúḥ ǀ jā́m ǀ
ūrdhvám ǀ bhānúm ǀ sū́ryasya ǀ stabhāyán ǀ diváḥ ǀ vásu-bhiḥ ǀ aratíḥ ǀ ví ǀ bhāti ǁkṛṣṇām ǀ yat ǀ enīm ǀ abhi ǀ varpasā ǀ bhūt ǀ janayan ǀ yoṣām ǀ bṛhataḥ ǀ pituḥ ǀ jām ǀ
ūrdhvam ǀ bhānum ǀ sūryasya ǀ stabhāyan ǀ divaḥ ǀ vasu-bhiḥ ǀ aratiḥ ǀ vi ǀ bhāti ǁ10.3.2 Aṣṭaka 7.5.31.2Anuvāka 10.1.16
-
Ṛk 3
भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा॑रं जा॒रो अ॒भ्ये॑ति प॒श्चात् ।
सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्रुश॑द्भि॒र्वर्णै॑र॒भि रा॒मम॑स्थात् ॥भद्रो भद्रया सचमान आगात् स्वसारं जारो अभ्य् एति पश्चात् |
सुप्रकेतैर् द्युभिर् अग्निर् वितिष्ठन् रुशद्भिर् वर्णैर् अभि रामम् अस्थात् ||bhadró bhadráyā sácamāna ā́gātsvásāram jāró abhyéti paścā́t ǀ
supraketáirdyúbhiragnírvitíṣṭhanrúśadbhirvárṇairabhí rāmámasthāt ǁbhadro bhadrayā sacamāna āgāt svasāraṃ jāro abhy eti paścāt |
supraketair dyubhir agnir vitiṣṭhan ruśadbhir varṇair abhi rāmam asthāt ||भ॒द्रः । भ॒द्रया॑ । सच॑मानः । आ । अ॒गा॒त् । स्वसा॑रम् । जा॒रः । अ॒भि । ए॒ति॒ । प॒श्चात् ।
सु॒ऽप्र॒के॒तैः । द्युऽभिः॑ । अ॒ग्निः । वि॒ऽतिष्ठ॑न् । रुश॑त्ऽभिः । वर्णैः॑ । अ॒भि । रा॒मम् । अ॒स्था॒त् ॥भद्रः । भद्रया । सचमानः । आ । अगात् । स्वसारम् । जारः । अभि । एति । पश्चात् ।
सुऽप्रकेतैः । द्युऽभिः । अग्निः । विऽतिष्ठन् । रुशत्ऽभिः । वर्णैः । अभि । रामम् । अस्थात् ॥bhadráḥ ǀ bhadráyā ǀ sácamānaḥ ǀ ā́ ǀ agāt ǀ svásāram ǀ jāráḥ ǀ abhí ǀ eti ǀ paścā́t ǀ
su-praketáiḥ ǀ dyú-bhiḥ ǀ agníḥ ǀ vi-tíṣṭhan ǀ rúśat-bhiḥ ǀ várṇaiḥ ǀ abhí ǀ rāmám ǀ asthāt ǁbhadraḥ ǀ bhadrayā ǀ sacamānaḥ ǀ ā ǀ agāt ǀ svasāram ǀ jāraḥ ǀ abhi ǀ eti ǀ paścāt ǀ
su-praketaiḥ ǀ dyu-bhiḥ ǀ agniḥ ǀ vi-tiṣṭhan ǀ ruśat-bhiḥ ǀ varṇaiḥ ǀ abhi ǀ rāmam ǀ asthāt ǁ10.3.3 Aṣṭaka 7.5.31.3Anuvāka 10.1.17
-
Ṛk 4
अ॒स्य यामा॑सो बृह॒तो न व॒ग्नूनिंधा॑ना अ॒ग्नेः सख्युः॑ शि॒वस्य॑ ।
ईड्य॑स्य॒ वृष्णो॑ बृह॒तः स्वासो॒ भामा॑सो॒ याम॑न्न॒क्तव॑श्चिकित्रे ॥अस्य यामासो बृहतो न वग्नून् इन्धाना अग्नेः सख्युः शिवस्य |
ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्न् अक्तवश् चिकित्रे ||asyá yā́māso bṛható ná vagnū́níndhānā agnéḥ sákhyuḥ śivásya ǀ
ī́ḍyasya vṛ́ṣṇo bṛhatáḥ svā́so bhā́māso yā́mannaktávaścikitre ǁasya yāmāso bṛhato na vagnūn indhānā agneḥ sakhyuḥ śivasya |
īḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmann aktavaś cikitre ||अ॒स्य । यामा॑सः । बृ॒ह॒तः । न । व॒ग्नून् । इन्धा॑नाः । अ॒ग्नेः । सख्युः॑ । शि॒वस्य॑ ।
ईड्य॑स्य । वृष्णः॑ । बृ॒ह॒तः । सु॒ऽआसः॑ । भामा॑सः । याम॑न् । अ॒क्तवः॑ । चि॒कि॒त्रे॒ ॥अस्य । यामासः । बृहतः । न । वग्नून् । इन्धानाः । अग्नेः । सख्युः । शिवस्य ।
ईड्यस्य । वृष्णः । बृहतः । सुऽआसः । भामासः । यामन् । अक्तवः । चिकित्रे ॥asyá ǀ yā́māsaḥ ǀ bṛhatáḥ ǀ ná ǀ vagnū́n ǀ índhānāḥ ǀ agnéḥ ǀ sákhyuḥ ǀ śivásya ǀ
ī́ḍyasya ǀ vṛ́ṣṇaḥ ǀ bṛhatáḥ ǀ su-ā́saḥ ǀ bhā́māsaḥ ǀ yā́man ǀ aktávaḥ ǀ cikitre ǁasya ǀ yāmāsaḥ ǀ bṛhataḥ ǀ na ǀ vagnūn ǀ indhānāḥ ǀ agneḥ ǀ sakhyuḥ ǀ śivasya ǀ
īḍyasya ǀ vṛṣṇaḥ ǀ bṛhataḥ ǀ su-āsaḥ ǀ bhāmāsaḥ ǀ yāman ǀ aktavaḥ ǀ cikitre ǁ10.3.4 Aṣṭaka 7.5.31.4Anuvāka 10.1.18
-
Ṛk 5
स्व॒ना न यस्य॒ भामा॑सः॒ पवं॑ते॒ रोच॑मानस्य बृह॒तः सु॒दिवः॑ ।
ज्येष्ठे॑भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्यां ॥स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः |
ज्येष्ठेभिर् यस् तेजिष्ठैः क्रीऌउमद्भिर् वर्षिष्ठेभिर् भानुभिर् नक्षति द्याम् ||svanā́ ná yásya bhā́māsaḥ pávante rócamānasya bṛhatáḥ sudívaḥ ǀ
jyéṣṭhebhiryástéjiṣṭhaiḥ krīḷumádbhirvárṣiṣṭhebhirbhānúbhirnákṣati dyā́m ǁsvanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ |
jyeṣṭhebhir yas tejiṣṭhaiḥ krīḷumadbhir varṣiṣṭhebhir bhānubhir nakṣati dyām ||स्व॒नाः । न । यस्य॑ । भामा॑सः । पव॑न्ते । रोच॑मानस्य । बृ॒ह॒तः । सु॒ऽदिवः॑ ।
ज्येष्ठे॑भिः । यः । तेजि॑ष्ठैः । क्री॒ळु॒मत्ऽभिः॑ । वर्षि॑ष्ठेभिः । भा॒नुऽभिः॑ । नक्ष॑ति । द्याम् ॥स्वनाः । न । यस्य । भामासः । पवन्ते । रोचमानस्य । बृहतः । सुऽदिवः ।
ज्येष्ठेभिः । यः । तेजिष्ठैः । क्रीळुमत्ऽभिः । वर्षिष्ठेभिः । भानुऽभिः । नक्षति । द्याम् ॥svanā́ḥ ǀ ná ǀ yásya ǀ bhā́māsaḥ ǀ pávante ǀ rócamānasya ǀ bṛhatáḥ ǀ su-dívaḥ ǀ
jyéṣṭhebhiḥ ǀ yáḥ ǀ téjiṣṭhaiḥ ǀ krīḷumát-bhiḥ ǀ várṣiṣṭhebhiḥ ǀ bhānú-bhiḥ ǀ nákṣati ǀ dyā́m ǁsvanāḥ ǀ na ǀ yasya ǀ bhāmāsaḥ ǀ pavante ǀ rocamānasya ǀ bṛhataḥ ǀ su-divaḥ ǀ
jyeṣṭhebhiḥ ǀ yaḥ ǀ tejiṣṭhaiḥ ǀ krīḷumat-bhiḥ ǀ varṣiṣṭhebhiḥ ǀ bhānu-bhiḥ ǀ nakṣati ǀ dyām ǁ10.3.5 Aṣṭaka 7.5.31.5Anuvāka 10.1.19
-
Ṛk 6
अ॒स्य शुष्मा॑सो ददृशा॒नप॑वे॒र्जेह॑मानस्य स्वनयन्नि॒युद्भिः॑ ।
प्र॒त्नेभि॒र्यो रुश॑द्भिर्दे॒वत॑मो॒ वि रेभ॑द्भिरर॒तिर्भाति॒ विभ्वा॑ ॥अस्य शुष्मासो ददृशानपवेर् जेहमानस्य स्वनयन् नियुद्भिः |
प्रत्नेभिर् यो रुशद्भिर् देवतमो वि रेभद्भिर् अरतिर् भाति विभ्वा ||asyá śúṣmāso dadṛśānápaverjéhamānasya svanayanniyúdbhiḥ ǀ
pratnébhiryó rúśadbhirdevátamo ví rébhadbhiraratírbhā́ti víbhvā ǁasya śuṣmāso dadṛśānapaver jehamānasya svanayan niyudbhiḥ |
pratnebhir yo ruśadbhir devatamo vi rebhadbhir aratir bhāti vibhvā ||अ॒स्य । शुष्मा॑सः । द॒दृ॒शा॒नऽप॑वेः । जेह॑मानस्य । स्व॒न॒य॒न् । नि॒युत्ऽभिः॑ ।
प्र॒त्नेभिः॑ । यः । रुश॑त्ऽभिः । दे॒वऽत॑मः । वि । रेभ॑त्ऽभिः । अ॒र॒तिः । भाति॑ । विऽभ्वा॑ ॥अस्य । शुष्मासः । ददृशानऽपवेः । जेहमानस्य । स्वनयन् । नियुत्ऽभिः ।
प्रत्नेभिः । यः । रुशत्ऽभिः । देवऽतमः । वि । रेभत्ऽभिः । अरतिः । भाति । विऽभ्वा ॥asyá ǀ śúṣmāsaḥ ǀ dadṛśāná-paveḥ ǀ jéhamānasya ǀ svanayan ǀ niyút-bhiḥ ǀ
pratnébhiḥ ǀ yáḥ ǀ rúśat-bhiḥ ǀ devá-tamaḥ ǀ ví ǀ rébhat-bhiḥ ǀ aratíḥ ǀ bhā́ti ǀ ví-bhvā ǁasya ǀ śuṣmāsaḥ ǀ dadṛśāna-paveḥ ǀ jehamānasya ǀ svanayan ǀ niyut-bhiḥ ǀ
pratnebhiḥ ǀ yaḥ ǀ ruśat-bhiḥ ǀ deva-tamaḥ ǀ vi ǀ rebhat-bhiḥ ǀ aratiḥ ǀ bhāti ǀ vi-bhvā ǁ10.3.6 Aṣṭaka 7.5.31.6Anuvāka 10.1.20
-
Ṛk 7
स आ व॑क्षि॒ महि॑ न॒ आ च॑ सत्सि दि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः ।
अ॒ग्निः सु॒तुकः॑ सु॒तुके॑भि॒रश्वै॒ रभ॑स्वद्भी॒ रभ॑स्वाँ॒ एह ग॑म्याः ॥स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योर् अरतिर् युवत्योः |
अग्निः सुतुकः सुतुकेभिर् अश्वै रभस्वद्भी रभस्वां एह गम्याः ||sá ā́ vakṣi máhi na ā́ ca satsi diváspṛthivyóraratíryuvatyóḥ ǀ
agníḥ sutúkaḥ sutúkebhiráśvai rábhasvadbhī rábhasvām̐ éhá gamyāḥ ǁsa ā vakṣi mahi na ā ca satsi divaspṛthivyor aratir yuvatyoḥ |
agniḥ sutukaḥ sutukebhir aśvai rabhasvadbhī rabhasvāṃ eha gamyāḥ ||सः । आ । व॒क्षि॒ । महि॑ । नः॒ । आ । च॒ । स॒त्सि॒ । दि॒वःपृ॑थि॒व्योः । अ॒र॒तिः । यु॒व॒त्योः ।
अ॒ग्निः । सु॒ऽतुकः॑ । सु॒ऽतुके॑भिः । अश्वैः॑ । रभ॑स्वत्ऽभिः । रभ॑स्वान् । आ । इ॒ह । ग॒म्याः॒ ॥सः । आ । वक्षि । महि । नः । आ । च । सत्सि । दिवःपृथिव्योः । अरतिः । युवत्योः ।
अग्निः । सुऽतुकः । सुऽतुकेभिः । अश्वैः । रभस्वत्ऽभिः । रभस्वान् । आ । इह । गम्याः ॥sáḥ ǀ ā́ ǀ vakṣi ǀ máhi ǀ naḥ ǀ ā́ ǀ ca ǀ satsi ǀ diváḥpṛthivyóḥ ǀ aratíḥ ǀ yuvatyóḥ ǀ
agníḥ ǀ su-túkaḥ ǀ su-túkebhiḥ ǀ áśvaiḥ ǀ rábhasvat-bhiḥ ǀ rábhasvān ǀ ā́ ǀ ihá ǀ gamyāḥ ǁsaḥ ǀ ā ǀ vakṣi ǀ mahi ǀ naḥ ǀ ā ǀ ca ǀ satsi ǀ divaḥpṛthivyoḥ ǀ aratiḥ ǀ yuvatyoḥ ǀ
agniḥ ǀ su-tukaḥ ǀ su-tukebhiḥ ǀ aśvaiḥ ǀ rabhasvat-bhiḥ ǀ rabhasvān ǀ ā ǀ iha ǀ gamyāḥ ǁ10.3.7 Aṣṭaka 7.5.31.7Anuvāka 10.1.21
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.