Ṛgveda · Maṇḍala 10

Sūkta 159

Śacī Paulomī’s Hymn [against Cowives] · Śacī Paulomī · 6 ṛks

Link
Devatā देवता
Śacī Paulomī’s Hymn [against Cowives]
Ṛṣi ऋषि
Śacī Paulomī
Chandas छन्दस्
Anuṣṭubh
Metres by ṛk

1st set of styles nicṛdanuṣṭup (1-3, 5); pādanicṛdanuṣṭup (4); anuṣṭup (6)

2nd set of styles anuṣṭubh

  1. Ṛk 1

    उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ ।
    अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ॥

    उद् असौ सूर्यो अगाद् उद् अयम् मामको भगः |
    अहं तद् विद्वला पतिम् अभ्य् असाक्षि विषासहिः ||

    údasáu sū́ryo agādúdayám māmakó bhágaḥ ǀ
    ahám tádvidvalā́ pátimabhyásākṣi viṣāsahíḥ ǁ

    ud asau sūryo agād ud ayam māmako bhagaḥ |
    ahaṃ tad vidvalā patim abhy asākṣi viṣāsahiḥ ||

    उत् । अ॒सौ । सूर्यः॑ । अ॒गा॒त् । उत् । अ॒यम् । मा॒म॒कः । भगः॑ ।
    अ॒हम् । तत् । वि॒द्व॒ला । पति॑म् । अ॒भि । अ॒सा॒क्षि॒ । वि॒ऽस॒स॒हिः ॥

    उत् । असौ । सूर्यः । अगात् । उत् । अयम् । मामकः । भगः ।
    अहम् । तत् । विद्वला । पतिम् । अभि । असाक्षि । विऽससहिः ॥

    út ǀ asáu ǀ sū́ryaḥ ǀ agāt ǀ út ǀ ayám ǀ māmakáḥ ǀ bhágaḥ ǀ
    ahám ǀ tát ǀ vidvalā́ ǀ pátim ǀ abhí ǀ asākṣi ǀ vi-sasahíḥ ǁ

    ut ǀ asau ǀ sūryaḥ ǀ agāt ǀ ut ǀ ayam ǀ māmakaḥ ǀ bhagaḥ ǀ
    aham ǀ tat ǀ vidvalā ǀ patim ǀ abhi ǀ asākṣi ǀ vi-sasahiḥ ǁ

    10.159.1 Aṣṭaka 8.8.17.1Anuvāka 10.12.36

  2. Ṛk 2

    अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी ।
    ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया॑ उ॒पाच॑रेत् ॥

    अहं केतुर् अहम् मूर्धाहम् उग्रा विवाचनी |
    ममेद् अनु क्रतुम् पतिः सेहानाया उपाचरेत् ||

    ahám ketúrahám mūrdhā́hámugrā́ vivā́canī ǀ
    mámédánu krátum pátiḥ sehānā́yā upā́caret ǁ

    ahaṃ ketur aham mūrdhāham ugrā vivācanī |
    mamed anu kratum patiḥ sehānāyā upācaret ||

    अ॒हम् । के॒तुः । अ॒हम् । मू॒र्धा । अ॒हम् । उ॒ग्रा । वि॒ऽवाच॑नी ।
    मम॑ । इत् । अनु॑ । क्रतु॑म् । पतिः॑ । से॒हा॒नायाः॑ । उ॒प॒ऽआच॑रेत् ॥

    अहम् । केतुः । अहम् । मूर्धा । अहम् । उग्रा । विऽवाचनी ।
    मम । इत् । अनु । क्रतुम् । पतिः । सेहानायाः । उपऽआचरेत् ॥

    ahám ǀ ketúḥ ǀ ahám ǀ mūrdhā́ ǀ ahám ǀ ugrā́ ǀ vi-vā́canī ǀ
    máma ǀ ít ǀ ánu ǀ krátum ǀ pátiḥ ǀ sehānā́yāḥ ǀ upa-ā́caret ǁ

    aham ǀ ketuḥ ǀ aham ǀ mūrdhā ǀ aham ǀ ugrā ǀ vi-vācanī ǀ
    mama ǀ it ǀ anu ǀ kratum ǀ patiḥ ǀ sehānāyāḥ ǀ upa-ācaret ǁ

    10.159.2 Aṣṭaka 8.8.17.2Anuvāka 10.12.37

  3. Ṛk 3

    मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट् ।
    उ॒ताहम॑स्मि संज॒या पत्यौ॑ मे॒ श्लोक॑ उत्त॒मः ॥

    मम पुत्राः शत्रुहणो ऽथो मे दुहिता विराट् |
    उताहम् अस्मि संजया पत्यौ मे श्लोक उत्तमः ||

    máma putrā́ḥ śatruháṇó’tho me duhitā́ virā́ṭ ǀ
    utā́hámasmi saṃjayā́ pátyau me ślóka uttamáḥ ǁ

    mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ |
    utāham asmi saṃjayā patyau me śloka uttamaḥ ||

    मम॑ । पु॒त्राः । श॒त्रु॒ऽहनः॑ । अथो॒ इति॑ । मे॒ । दु॒हि॒ता । वि॒राट् ।
    उ॒त । अ॒हम् । अ॒स्मि॒ । स॒म्ऽज॒या । पत्यौ॑ । मे॒ । श्लोकः॑ । उ॒त्ऽत॒मः ॥

    मम । पुत्राः । शत्रुऽहनः । अथो इति । मे । दुहिता । विराट् ।
    उत । अहम् । अस्मि । सम्ऽजया । पत्यौ । मे । श्लोकः । उत्ऽतमः ॥

    máma ǀ putrā́ḥ ǀ śatru-hánaḥ ǀ átho íti ǀ me ǀ duhitā́ ǀ virā́ṭ ǀ
    utá ǀ ahám ǀ asmi ǀ sam-jayā́ ǀ pátyau ǀ me ǀ ślókaḥ ǀ ut-tamáḥ ǁ

    mama ǀ putrāḥ ǀ śatru-hanaḥ ǀ atho iti ǀ me ǀ duhitā ǀ virāṭ ǀ
    uta ǀ aham ǀ asmi ǀ sam-jayā ǀ patyau ǀ me ǀ ślokaḥ ǀ ut-tamaḥ ǁ

    10.159.3 Aṣṭaka 8.8.17.3Anuvāka 10.12.38

  4. Ṛk 4

    येनेंद्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
    इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवं ॥

    येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः |
    इदं तद् अक्रि देवा असपत्ना किलाभुवम् ||

    yénéndro havíṣā kṛtvyábhavaddyumnyúttamáḥ ǀ
    idám tádakri devā asapatnā́ kílābhuvam ǁ

    yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ |
    idaṃ tad akri devā asapatnā kilābhuvam ||

    येन॑ । इन्द्रः॑ । ह॒विषा॑ । कृ॒त्वी । अभ॑वत् । द्यु॒म्नी । उ॒त्ऽत॒मः ।
    इ॒दम् । तत् । अ॒क्रि॒ । दे॒वाः॒ । अ॒स॒प॒त्ना । किल॑ । अ॒भु॒व॒म् ॥

    येन । इन्द्रः । हविषा । कृत्वी । अभवत् । द्युम्नी । उत्ऽतमः ।
    इदम् । तत् । अक्रि । देवाः । असपत्ना । किल । अभुवम् ॥

    yéna ǀ índraḥ ǀ havíṣā ǀ kṛtvī́ ǀ ábhavat ǀ dyumnī́ ǀ ut-tamáḥ ǀ
    idám ǀ tát ǀ akri ǀ devāḥ ǀ asapatnā́ ǀ kíla ǀ abhuvam ǁ

    yena ǀ indraḥ ǀ haviṣā ǀ kṛtvī ǀ abhavat ǀ dyumnī ǀ ut-tamaḥ ǀ
    idam ǀ tat ǀ akri ǀ devāḥ ǀ asapatnā ǀ kila ǀ abhuvam ǁ

    10.159.4 Aṣṭaka 8.8.17.4Anuvāka 10.12.39

  5. Ṛk 5

    अ॒स॒प॒त्ना स॑पत्न॒घ्नी जयं॑त्यभि॒भूव॑री ।
    आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒ अस्थे॑यसामिव ॥

    असपत्ना सपत्नघ्नी जयन्त्य् अभिभूवरी |
    आवृक्षम् अन्यासां वर्चो राधो अस्थेयसाम् इव ||

    asapatnā́ sapatnaghnī́ jáyantyabhibhū́varī ǀ
    ā́vṛkṣamanyā́sām várco rā́dho ástheyasāmiva ǁ

    asapatnā sapatnaghnī jayanty abhibhūvarī |
    āvṛkṣam anyāsāṃ varco rādho astheyasām iva ||

    अ॒स॒प॒त्ना । स॒प॒त्न॒ऽघ्नी । जय॑न्ती । अ॒भि॒ऽभूव॑री ।
    आ । अ॒वृ॒क्ष॒म् । अ॒न्यासा॑म् । वर्चः॑ । राधः॑ । अस्थे॑यसाम्ऽइव ॥

    असपत्ना । सपत्नऽघ्नी । जयन्ती । अभिऽभूवरी ।
    आ । अवृक्षम् । अन्यासाम् । वर्चः । राधः । अस्थेयसाम्ऽइव ॥

    asapatnā́ ǀ sapatna-ghnī́ ǀ jáyantī ǀ abhi-bhū́varī ǀ
    ā́ ǀ avṛkṣam ǀ anyā́sām ǀ várcaḥ ǀ rā́dhaḥ ǀ ástheyasām-iva ǁ

    asapatnā ǀ sapatna-ghnī ǀ jayantī ǀ abhi-bhūvarī ǀ
    ā ǀ avṛkṣam ǀ anyāsām ǀ varcaḥ ǀ rādhaḥ ǀ astheyasām-iva ǁ

    10.159.5 Aṣṭaka 8.8.17.5Anuvāka 10.12.40

  6. Ṛk 6

    सम॑जैषमि॒मा अ॒हं स॒पत्नी॑रभि॒भूव॑री ।
    यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑नि॒ जन॑स्य च ॥

    सम् अजैषम् इमा अहं सपत्नीर् अभिभूवरी |
    यथाहम् अस्य वीरस्य विराजानि जनस्य च ||

    sámajaiṣamimā́ ahám sapátnīrabhibhū́varī ǀ
    yáthāhámasyá vīrásya virā́jāni jánasya ca ǁ

    sam ajaiṣam imā ahaṃ sapatnīr abhibhūvarī |
    yathāham asya vīrasya virājāni janasya ca ||

    सम् । अ॒जै॒ष॒म् । इ॒माः । अ॒हम् । स॒ऽपत्नीः॑ । अ॒भि॒ऽभूव॑री ।
    यथा॑ । अ॒हम् । अ॒स्य । वी॒रस्य॑ । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥

    सम् । अजैषम् । इमाः । अहम् । सऽपत्नीः । अभिऽभूवरी ।
    यथा । अहम् । अस्य । वीरस्य । विऽराजानि । जनस्य । च ॥

    sám ǀ ajaiṣam ǀ imā́ḥ ǀ ahám ǀ sa-pátnīḥ ǀ abhi-bhū́varī ǀ
    yáthā ǀ ahám ǀ asyá ǀ vīrásya ǀ vi-rā́jāni ǀ jánasya ǀ ca ǁ

    sam ǀ ajaiṣam ǀ imāḥ ǀ aham ǀ sa-patnīḥ ǀ abhi-bhūvarī ǀ
    yathā ǀ aham ǀ asya ǀ vīrasya ǀ vi-rājāni ǀ janasya ǀ ca ǁ

    10.159.6 Aṣṭaka 8.8.17.6Anuvāka 10.12.41

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.159 · Śacī Paulomī’s Hymn [against Cowives]

Interpretations

Ralph T. H. Griffith

Ṛk 1

YON Sun hath mounted up, and this my happy fate hate mounted high. I knowing this, as conqueror have won my husband for mine own.

Ṛk 2

I am the banner and the head, a mighty arbitress am I: I am victorious, and my Lord shall be submissive to my will.

Ṛk 3

My Sons are slayers of the foe, my Daughter is a ruling Queen: I am victorious: o’er my Lord my song of triumph is supreme.

Ṛk 4

Oblation, that which Indra gave and thus grew glorious and most high,— This have I offered, O ye Gods, and rid me of each rival wife.

Ṛk 5

Destroyer of the rival wife, Sole Spouse, victorious, conqueror, The others' glory have I seized as ’twere the wealth of weaker Dames.