Sūkta 137
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- 1: Bharadvāja Bārhaspatya; 2: Kaśyapa Mārīca; 3: Gotama Rāhūgaṇa; 4: Atri Bhauma; 5: Viśvāmitra Gāthina; 6: Jamadagni Bhārgava; 7: Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdanuṣṭup (2, 3, 5, 7); anuṣṭup (1, 4, 6)
2nd set of styles anuṣṭubh
-
Ṛk 1
उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑ ।
उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुनः॑ ॥उत देवा अवहितं देवा उन् नयथा पुनः |
उतागश् चक्रुषं देवा देवा जीवयथा पुनः ||utá devā ávahitam dévā únnayathā púnaḥ ǀ
utā́gaścakrúṣam devā dévā jīváyathā púnaḥ ǁuta devā avahitaṃ devā un nayathā punaḥ |
utāgaś cakruṣaṃ devā devā jīvayathā punaḥ ||उ॒त । दे॒वाः॒ । अव॑ऽहितम् । देवाः॑ । उत् । न॒य॒थ॒ । पुन॒रिति॑ ।
उ॒त । आगः॑ । च॒क्रुष॑म् ।दे॒वाः॒ । देवाः॑ । जी॒वय॑थ । पुन॒रिति॑ ॥उत । देवाः । अवऽहितम् । देवाः । उत् । नयथ । पुनरिति ।
उत । आगः । चक्रुषम् । देवाः । देवाः । जीवयथ । पुनरिति ॥utá ǀ devāḥ ǀ áva-hitam ǀ dévāḥ ǀ út ǀ nayatha ǀ púnaríti ǀ
utá ǀ ā́gaḥ ǀ cakrúṣam ǀ devāḥ ǀ dévāḥ ǀ jīváyatha ǀ púnaríti ǁuta ǀ devāḥ ǀ ava-hitam ǀ devāḥ ǀ ut ǀ nayatha ǀ punariti ǀ
uta ǀ āgaḥ ǀ cakruṣam ǀ devāḥ ǀ devāḥ ǀ jīvayatha ǀ punariti ǁ10.137.1 Aṣṭaka 8.7.25.1Anuvāka 10.11.57
-
Ṛk 2
द्वावि॒मौ वातौ॑ वात॒ आ सिंधो॒रा प॑रा॒वतः॑ ।
दक्षं॑ ते अ॒न्य आ वा॑तु॒ परा॒न्यो वा॑तु॒ यद्रपः॑ ॥द्वाव् इमौ वातौ वात आ सिन्धोर् आ परावतः |
दक्षं ते अन्य आ वातु परान्यो वातु यद् रपः ||dvā́vimáu vā́tau vāta ā́ síndhorā́ parāvátaḥ ǀ
dákṣam te anyá ā́ vātu párānyó vātu yádrápaḥ ǁdvāv imau vātau vāta ā sindhor ā parāvataḥ |
dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ ||द्वौ । इ॒मौ । वातौ॑ । वा॒तः॒ । आ । सिन्धोः॑ । आ । प॒रा॒ऽवतः॑ ।
दक्ष॑म् । ते॒ । अ॒न्यः । आ । वा॒तु॒ । परा॑ । अ॒न्यः । वा॒तु॒ । यत् । रपः॑ ॥द्वौ । इमौ । वातौ । वातः । आ । सिन्धोः । आ । पराऽवतः ।
दक्षम् । ते । अन्यः । आ । वातु । परा । अन्यः । वातु । यत् । रपः ॥dváu ǀ imáu ǀ vā́tau ǀ vātaḥ ǀ ā́ ǀ síndhoḥ ǀ ā́ ǀ parā-vátaḥ ǀ
dákṣam ǀ te ǀ anyáḥ ǀ ā́ ǀ vātu ǀ párā ǀ anyáḥ ǀ vātu ǀ yát ǀ rápaḥ ǁdvau ǀ imau ǀ vātau ǀ vātaḥ ǀ ā ǀ sindhoḥ ǀ ā ǀ parā-vataḥ ǀ
dakṣam ǀ te ǀ anyaḥ ǀ ā ǀ vātu ǀ parā ǀ anyaḥ ǀ vātu ǀ yat ǀ rapaḥ ǁ10.137.2 Aṣṭaka 8.7.25.2Anuvāka 10.11.58
-
Ṛk 3
आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ ।
त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से ॥आ वात वाहि भेषजं वि वात वाहि यद् रपः |
त्वं हि विश्वभेषजो देवानां दूत ईयसे ||ā́ vāta vāhi bheṣajám ví vāta vāhi yádrápaḥ ǀ
tvám hí viśvábheṣajo devā́nām dūtá ī́yase ǁā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ |
tvaṃ hi viśvabheṣajo devānāṃ dūta īyase ||आ । वा॒त॒ । वा॒हि॒ । भे॒ष॒जम् । वि । वा॒त॒ । वा॒हि॒ । यत् । रपः॑ ।
त्वम् । हि । वि॒श्वऽभे॑षजः । दे॒वाना॑म् । दू॒तः । ईय॑से ॥आ । वात । वाहि । भेषजम् । वि । वात । वाहि । यत् । रपः ।
त्वम् । हि । विश्वऽभेषजः । देवानाम् । दूतः । ईयसे ॥ā́ ǀ vāta ǀ vāhi ǀ bheṣajám ǀ ví ǀ vāta ǀ vāhi ǀ yát ǀ rápaḥ ǀ
tvám ǀ hí ǀ viśvá-bheṣajaḥ ǀ devā́nām ǀ dūtáḥ ǀ ī́yase ǁā ǀ vāta ǀ vāhi ǀ bheṣajam ǀ vi ǀ vāta ǀ vāhi ǀ yat ǀ rapaḥ ǀ
tvam ǀ hi ǀ viśva-bheṣajaḥ ǀ devānām ǀ dūtaḥ ǀ īyase ǁ10.137.3 Aṣṭaka 8.7.25.3Anuvāka 10.11.59
-
Ṛk 4
आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः ।
दक्षं॑ ते भ॒द्रमाभा॑र्षं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥आ त्वागमं शन्तातिभिर् अथो अरिष्टतातिभिः |
दक्षं ते भद्रम् आभार्षम् परा यक्ष्मं सुवामि ते ||ā́ tvāgamam śáṃtātibhirátho ariṣṭátātibhiḥ ǀ
dákṣam te bhadrámā́bhārṣam párā yákṣmam suvāmi te ǁā tvāgamaṃ śantātibhir atho ariṣṭatātibhiḥ |
dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te ||आ । त्वा॒ । अ॒ग॒म॒म् । शन्ता॑तिऽभिः । अथो॒ इति॑ । अ॒रि॒ष्टता॑तिऽभिः ।
दक्ष॑म् । ते॒ । भ॒द्रम् । आ । अ॒भा॒र्ष॒म् । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ । ते॒ ॥आ । त्वा । अगमम् । शन्तातिऽभिः । अथो इति । अरिष्टतातिऽभिः ।
दक्षम् । ते । भद्रम् । आ । अभार्षम् । परा । यक्ष्मम् । सुवामि । ते ॥ā́ ǀ tvā ǀ agamam ǀ śántāti-bhiḥ ǀ átho íti ǀ ariṣṭátāti-bhiḥ ǀ
dákṣam ǀ te ǀ bhadrám ǀ ā́ ǀ abhārṣam ǀ párā ǀ yákṣmam ǀ suvāmi ǀ te ǁā ǀ tvā ǀ agamam ǀ śantāti-bhiḥ ǀ atho iti ǀ ariṣṭatāti-bhiḥ ǀ
dakṣam ǀ te ǀ bhadram ǀ ā ǀ abhārṣam ǀ parā ǀ yakṣmam ǀ suvāmi ǀ te ǁ10.137.4 Aṣṭaka 8.7.25.4Anuvāka 10.11.60
-
Ṛk 5
त्रायं॑तामि॒ह दे॒वास्त्राय॑तां म॒रुतां॑ ग॒णः ।
त्रायं॑तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥त्रायन्ताम् इह देवास् त्रायताम् मरुतां गणः |
त्रायन्तां विश्वा भूतानि यथायम् अरपा असत् ||trā́yantāmihá devā́strā́yatām marútām gaṇáḥ ǀ
trā́yantām víśvā bhūtā́ni yáthāyámarapā́ ásat ǁtrāyantām iha devās trāyatām marutāṃ gaṇaḥ |
trāyantāṃ viśvā bhūtāni yathāyam arapā asat ||त्राय॑न्ताम् । इ॒ह । दे॒वाः । त्राय॑ताम् । म॒रुता॑म् । ग॒णः ।
त्राय॑न्ताम् । विश्वा॑ । भू॒तानि॑ । यथा॑ । अ॒यम् । अ॒र॒पाः । अस॑त् ॥त्रायन्ताम् । इह । देवाः । त्रायताम् । मरुताम् । गणः ।
त्रायन्ताम् । विश्वा । भूतानि । यथा । अयम् । अरपाः । असत् ॥trā́yantām ǀ ihá ǀ devā́ḥ ǀ trā́yatām ǀ marútām ǀ gaṇáḥ ǀ
trā́yantām ǀ víśvā ǀ bhūtā́ni ǀ yáthā ǀ ayám ǀ arapā́ḥ ǀ ásat ǁtrāyantām ǀ iha ǀ devāḥ ǀ trāyatām ǀ marutām ǀ gaṇaḥ ǀ
trāyantām ǀ viśvā ǀ bhūtāni ǀ yathā ǀ ayam ǀ arapāḥ ǀ asat ǁ10.137.5 Aṣṭaka 8.7.25.5Anuvāka 10.11.61
-
Ṛk 6
आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः ।
आपः॒ सर्व॑स्य भेष॒जीस्तास्ते॑ कृण्वंतु भेष॒जं ॥आप इद् वा उ भेषजीर् आपो अमीवचातनीः |
आपः सर्वस्य भेषजीस् तास् ते कृण्वन्तु भेषजम् ||ā́pa ídvā́ u bheṣajī́rā́po amīvacā́tanīḥ ǀ
ā́paḥ sárvasya bheṣajī́stā́ste kṛṇvantu bheṣajám ǁāpa id vā u bheṣajīr āpo amīvacātanīḥ |
āpaḥ sarvasya bheṣajīs tās te kṛṇvantu bheṣajam ||आपः॑ । इत् । वा॒ । ऊं॒ इति॑ । भे॒ष॒जीः । आपः॑ । अ॒मी॒व॒ऽचात॑नीः ।
आपः॑ । सर्व॑स्य । भे॒ष॒जीः । ताः । ते॒ । कृ॒ण्व॒न्तु॒ । भे॒ष॒जम् ॥आपः । इत् । वा । ऊं इति । भेषजीः । आपः । अमीवऽचातनीः ।
आपः । सर्वस्य । भेषजीः । ताः । ते । कृण्वन्तु । भेषजम् ॥ā́paḥ ǀ ít ǀ vā ǀ ūṃ íti ǀ bheṣajī́ḥ ǀ ā́paḥ ǀ amīva-cā́tanīḥ ǀ
ā́paḥ ǀ sárvasya ǀ bheṣajī́ḥ ǀ tā́ḥ ǀ te ǀ kṛṇvantu ǀ bheṣajám ǁāpaḥ ǀ it ǀ vā ǀ ūṃ iti ǀ bheṣajīḥ ǀ āpaḥ ǀ amīva-cātanīḥ ǀ
āpaḥ ǀ sarvasya ǀ bheṣajīḥ ǀ tāḥ ǀ te ǀ kṛṇvantu ǀ bheṣajam ǁ10.137.6 Aṣṭaka 8.7.25.6Anuvāka 10.11.62
-
Ṛk 7
हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी ।
अ॒ना॒म॒यि॒त्नुभ्यां॑ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी |
अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ||hástābhyām dáśaśākhābhyām jihvā́ vācáḥ purogavī́ ǀ
anāmayitnúbhyām tvā tā́bhyām tvópa spṛśāmasi ǁhastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī |
anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi ||हस्ता॑भ्याम् । दश॑ऽशाखाभ्याम् । जि॒ह्वा । वा॒चः । पु॒रः॒ऽग॒वी ।
अ॒ना॒म॒यि॒त्नुऽभ्या॑म् । त्वा॒ । ताभ्या॑म् । त्वा॒ । उप॑ । स्पृ॒शा॒म॒सि॒ ॥हस्ताभ्याम् । दशऽशाखाभ्याम् । जिह्वा । वाचः । पुरःऽगवी ।
अनामयित्नुऽभ्याम् । त्वा । ताभ्याम् । त्वा । उप । स्पृशामसि ॥hástābhyām ǀ dáśa-śākhābhyām ǀ jihvā́ ǀ vācáḥ ǀ puraḥ-gavī́ ǀ
anāmayitnú-bhyām ǀ tvā ǀ tā́bhyām ǀ tvā ǀ úpa ǀ spṛśāmasi ǁhastābhyām ǀ daśa-śākhābhyām ǀ jihvā ǀ vācaḥ ǀ puraḥ-gavī ǀ
anāmayitnu-bhyām ǀ tvā ǀ tābhyām ǀ tvā ǀ upa ǀ spṛśāmasi ǁ10.137.7 Aṣṭaka 8.7.25.7Anuvāka 10.11.63
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.