Sūkta 61
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 8-10, 15, 16, 18, 19, 21); pādanicṛttriṣṭup (4, 14, 17, 22, 23, 25); virāṭtrisṭup (2, 7, 11, 12, 20); triṣṭup (5, 6, 13); svarāḍārcītriṣṭup (3, 26); bhurigārcītriṣṭup (24, 27)
2nd set of styles triṣṭubh
-
Ṛk 1
इ॒दमि॒त्था रौद्रं॑ गू॒र्तव॑चा॒ ब्रह्म॒ क्रत्वा॒ शच्या॑मं॒तरा॒जौ ।
क्रा॒णा यद॑स्य पि॒तरा॑ मंहने॒ष्ठाः पर्ष॑त्प॒क्थे अह॒न्ना स॒प्त होतॄ॑न् ॥इदम् इत्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्याम् अन्तर् आजौ |
क्राणा यद् अस्य पितरा मंहनेष्ठाः पर्षत् पक्थे अहन्न् आ सप्त होतॄन् ||idámitthā́ ráudram gūrtávacā bráhma krátvā śácyāmantárājáu ǀ
krāṇā́ yádasya pitárā maṃhaneṣṭhā́ḥ párṣatpakthé áhannā́ saptá hótṝn ǁidam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau |
krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn ||इ॒दम् । इ॒त्था । रौद्र॑म् । गू॒र्तऽव॑चाः । ब्रह्म॑ । क्रत्वा॑ । शच्या॑म् । अ॒न्तः । आ॒जौ ।
क्रा॒णा । यत् । अ॒स्य॒ । पि॒तरा॑ । मं॒ह॒ने॒ऽस्थाः । पर्ष॑त् । प॒क्थे । अह॑न् । आ । स॒प्त । होतॄ॑न् ॥इदम् । इत्था । रौद्रम् । गूर्तऽवचाः । ब्रह्म । क्रत्वा । शच्याम् । अन्तः । आजौ ।
क्राणा । यत् । अस्य । पितरा । मंहनेऽस्थाः । पर्षत् । पक्थे । अहन् । आ । सप्त । होतॄन् ॥idám ǀ itthā́ ǀ ráudram ǀ gūrtá-vacāḥ ǀ bráhma ǀ krátvā ǀ śácyām ǀ antáḥ ǀ ājáu ǀ
krāṇā́ ǀ yát ǀ asya ǀ pitárā ǀ maṃhane-sthā́ḥ ǀ párṣat ǀ pakthé ǀ áhan ǀ ā́ ǀ saptá ǀ hótṝn ǁidam ǀ itthā ǀ raudram ǀ gūrta-vacāḥ ǀ brahma ǀ kratvā ǀ śacyām ǀ antaḥ ǀ ājau ǀ
krāṇā ǀ yat ǀ asya ǀ pitarā ǀ maṃhane-sthāḥ ǀ parṣat ǀ pakthe ǀ ahan ǀ ā ǀ sapta ǀ hotṝn ǁ10.61.1 Aṣṭaka 8.1.26.1Anuvāka 10.5.1
-
Ṛk 2
स इद्दा॒नाय॒ दभ्या॑य व॒न्वंच्यवा॑नः॒ सूदै॑रमिमीत॒ वेदिं॑ ।
तूर्व॑याणो गू॒र्तव॑चस्तमः॒ क्षोदो॒ न रेत॑ इ॒तऊ॑ति सिंचत् ॥स इद् दानाय दभ्याय वन्वञ् च्यवानः सूदैर् अमिमीत वेदिम् |
तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत् ||sá íddānā́ya dábhyāya vanváñcyávānaḥ sū́dairamimīta védim ǀ
tū́rvayāṇo gūrtávacastamaḥ kṣódo ná réta itáūti siñcat ǁsa id dānāya dabhyāya vanvañ cyavānaḥ sūdair amimīta vedim |
tūrvayāṇo gūrtavacastamaḥ kṣodo na reta itaūti siñcat ||सः । इत् । दा॒नाय॑ । दभ्या॑य । व॒न्वन् । च्यवा॑नः । सूदैः॑ । अ॒मि॒मी॒त॒ । वेदि॑म् ।
तूर्व॑याणः । गू॒र्तव॑चःऽतमः । क्षोदः॑ । न । रेतः॑ । इ॒तःऽऊ॑ति । सि॒ञ्च॒त् ॥सः । इत् । दानाय । दभ्याय । वन्वन् । च्यवानः । सूदैः । अमिमीत । वेदिम् ।
तूर्वयाणः । गूर्तवचःऽतमः । क्षोदः । न । रेतः । इतःऽऊति । सिञ्चत् ॥sáḥ ǀ ít ǀ dānā́ya ǀ dábhyāya ǀ vanván ǀ cyávānaḥ ǀ sū́daiḥ ǀ amimīta ǀ védim ǀ
tū́rvayāṇaḥ ǀ gūrtávacaḥ-tamaḥ ǀ kṣódaḥ ǀ ná ǀ rétaḥ ǀ itáḥ-ūti ǀ siñcat ǁsaḥ ǀ it ǀ dānāya ǀ dabhyāya ǀ vanvan ǀ cyavānaḥ ǀ sūdaiḥ ǀ amimīta ǀ vedim ǀ
tūrvayāṇaḥ ǀ gūrtavacaḥ-tamaḥ ǀ kṣodaḥ ǀ na ǀ retaḥ ǀ itaḥ-ūti ǀ siñcat ǁ10.61.2 Aṣṭaka 8.1.26.2Anuvāka 10.5.2
-
Ṛk 3
मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्रवं॑ता ।
आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ॥मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता |
आ यः शर्याभिस् तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ||máno ná yéṣu hávaneṣu tigmám vípaḥ śácyā vanuthó drávantā ǀ
ā́ yáḥ śáryābhistuvinṛmṇó asyā́śrīṇītādíśam gábhastau ǁmano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā |
ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau ||मनः॑ । न । येषु॑ । हव॑नेषु । ति॒ग्मम् । विपः॑ । शच्या॑ । व॒नु॒थः । द्रव॑न्ता ।
आ । यः । शर्या॑भिः । तु॒वि॒ऽनृ॒म्णः । अ॒स्य॒ । अश्री॑णीत । आ॒ऽदिश॑म् । गभ॑स्तौ ॥मनः । न । येषु । हवनेषु । तिग्मम् । विपः । शच्या । वनुथः । द्रवन्ता ।
आ । यः । शर्याभिः । तुविऽनृम्णः । अस्य । अश्रीणीत । आऽदिशम् । गभस्तौ ॥mánaḥ ǀ ná ǀ yéṣu ǀ hávaneṣu ǀ tigmám ǀ vípaḥ ǀ śácyā ǀ vanutháḥ ǀ drávantā ǀ
ā́ ǀ yáḥ ǀ śáryābhiḥ ǀ tuvi-nṛmṇáḥ ǀ asya ǀ áśrīṇīta ǀ ā-díśam ǀ gábhastau ǁmanaḥ ǀ na ǀ yeṣu ǀ havaneṣu ǀ tigmam ǀ vipaḥ ǀ śacyā ǀ vanuthaḥ ǀ dravantā ǀ
ā ǀ yaḥ ǀ śaryābhiḥ ǀ tuvi-nṛmṇaḥ ǀ asya ǀ aśrīṇīta ǀ ā-diśam ǀ gabhastau ǁ10.61.3 Aṣṭaka 8.1.26.3Anuvāka 10.5.3
-
Ṛk 4
कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा॑ताश्विना हुवे वां ।
वी॒तं मे॑ य॒ज्ञमा ग॑तं मे॒ अन्नं॑ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ॥कृष्णा यद् गोष्व् अरुणीषु सीदद् दिवो नपाताश्विना हुवे वाम् |
वीतम् मे यज्ञम् आ गतम् मे अन्नं ववन्वांसा नेषम् अस्मृतध्रू ||kṛṣṇā́ yádgóṣvaruṇī́ṣu sī́daddivó nápātāśvinā huve vām ǀ
vītám me yajñámā́ gatam me ánnam vavanvā́ṃsā néṣamásmṛtadhrū ǁkṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām |
vītam me yajñam ā gatam me annaṃ vavanvāṃsā neṣam asmṛtadhrū ||कृ॒ष्णा । यत् । गोषु॑ । अ॒रु॒णीषु॑ । सीद॑त् । दि॒वः । नपा॑ता । अ॒श्वि॒ना॒ । हु॒वे॒ । वा॒म् ।
वी॒तम् । मे॒ । य॒ज्ञम् । आ । ग॒त॒म् । मे॒ । अन्न॑म् । व॒व॒न्वांसा॑ । न । इष॑म् । अस्मृ॑तध्रू॒ इत्यस्मृ॑तऽध्रू ॥कृष्णा । यत् । गोषु । अरुणीषु । सीदत् । दिवः । नपाता । अश्विना । हुवे । वाम् ।
वीतम् । मे । यज्ञम् । आ । गतम् । मे । अन्नम् । ववन्वांसा । न । इषम् । अस्मृतध्रू इत्यस्मृतऽध्रू ॥kṛṣṇā́ ǀ yát ǀ góṣu ǀ aruṇī́ṣu ǀ sī́dat ǀ diváḥ ǀ nápātā ǀ aśvinā ǀ huve ǀ vām ǀ
vītám ǀ me ǀ yajñám ǀ ā́ ǀ gatam ǀ me ǀ ánnam ǀ vavanvā́ṃsā ǀ ná ǀ íṣam ǀ ásmṛtadhrū ítyasmṛta-dhrū ǁkṛṣṇā ǀ yat ǀ goṣu ǀ aruṇīṣu ǀ sīdat ǀ divaḥ ǀ napātā ǀ aśvinā ǀ huve ǀ vām ǀ
vītam ǀ me ǀ yajñam ǀ ā ǀ gatam ǀ me ǀ annam ǀ vavanvāṃsā ǀ na ǀ iṣam ǀ asmṛtadhrū ityasmṛta-dhrū ǁ10.61.4 Aṣṭaka 8.1.26.4Anuvāka 10.5.4
-
Ṛk 5
प्रथि॑ष्ट॒ यस्य॑ वी॒रक॑र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒ अपौ॑हत् ।
पुन॒स्तदा वृ॑हति॒ यत्क॒नाया॑ दुहि॒तुरा अनु॑भृतमन॒र्वा ॥प्रथिष्ट यस्य वीरकर्मम् इष्णद् अनुष्ठितं नु नर्यो अपौहत् |
पुनस् तद् आ वृहति यत् कनाया दुहितुर् आ अनुभृतम् अनर्वा ||práthiṣṭa yásya vīrákarmamiṣṇádánuṣṭhitam nú náryo ápauhat ǀ
púnastádā́ vṛhati yátkanā́yā duhitúrā́ ánubhṛtamanarvā́ ǁprathiṣṭa yasya vīrakarmam iṣṇad anuṣṭhitaṃ nu naryo apauhat |
punas tad ā vṛhati yat kanāyā duhitur ā anubhṛtam anarvā ||प्रथि॑ष्ट । यस्य॑ । वी॒रऽक॑र्मम् । इ॒ष्णत् । अनु॑ऽस्थितम् । नु । नर्यः॑ । अप॑ । औ॒ह॒त् ।
पुन॒रिति॑ । तत् । आ । वृ॒ह॒ति॒ । यत् । क॒नायाः॑ । दु॒हि॒तुः । आः । अनु॑ऽभृतम् । अ॒न॒र्वा ॥प्रथिष्ट । यस्य । वीरऽकर्मम् । इष्णत् । अनुऽस्थितम् । नु । नर्यः । अप । औहत् ।
पुनरिति । तत् । आ । वृहति । यत् । कनायाः । दुहितुः । आः । अनुऽभृतम् । अनर्वा ॥práthiṣṭa ǀ yásya ǀ vīrá-karmam ǀ iṣṇát ǀ ánu-sthitam ǀ nú ǀ náryaḥ ǀ ápa ǀ auhat ǀ
púnaríti ǀ tát ǀ ā́ ǀ vṛhati ǀ yát ǀ kanā́yāḥ ǀ duhitúḥ ǀ ā́ḥ ǀ ánu-bhṛtam ǀ anarvā́ ǁprathiṣṭa ǀ yasya ǀ vīra-karmam ǀ iṣṇat ǀ anu-sthitam ǀ nu ǀ naryaḥ ǀ apa ǀ auhat ǀ
punariti ǀ tat ǀ ā ǀ vṛhati ǀ yat ǀ kanāyāḥ ǀ duhituḥ ǀ āḥ ǀ anu-bhṛtam ǀ anarvā ǁ10.61.5 Aṣṭaka 8.1.26.5Anuvāka 10.5.5
-
Ṛk 6
म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं॑ कृण्वा॒ने पि॒तरि॑ युव॒त्यां ।
म॒ना॒नग्रेतो॑ जहतुर्वि॒यंता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ॑ ॥मध्या यत् कर्त्वम् अभवद् अभीके कामं कृण्वाने पितरि युवत्याम् |
मनानग् रेतो जहतुर् वियन्ता सानौ निषिक्तं सुकृतस्य योनौ ||madhyā́ yátkártvamábhavadabhī́ke kā́mam kṛṇvāné pitári yuvatyā́m ǀ
manānágréto jahaturviyántā sā́nau níṣiktam sukṛtásya yónau ǁmadhyā yat kartvam abhavad abhīke kāmaṃ kṛṇvāne pitari yuvatyām |
manānag reto jahatur viyantā sānau niṣiktaṃ sukṛtasya yonau ||म॒ध्या । यत् । कर्त्व॑म् । अभ॑वत् । अ॒भीके॑ । काम॑म् । कृ॒ण्वा॒ने । पि॒तरि॑ । यु॒व॒त्याम् ।
म॒ना॒नक् । रेतः॑ । ज॒ह॒तुः॒ । वि॒ऽयन्ता॑ । सानौ॑ । निऽसि॑क्तम् । सु॒ऽकृ॒तस्य॑ । योनौ॑ ॥मध्या । यत् । कर्त्वम् । अभवत् । अभीके । कामम् । कृण्वाने । पितरि । युवत्याम् ।
मनानक् । रेतः । जहतुः । विऽयन्ता । सानौ । निऽसिक्तम् । सुऽकृतस्य । योनौ ॥madhyā́ ǀ yát ǀ kártvam ǀ ábhavat ǀ abhī́ke ǀ kā́mam ǀ kṛṇvāné ǀ pitári ǀ yuvatyā́m ǀ
manānák ǀ rétaḥ ǀ jahatuḥ ǀ vi-yántā ǀ sā́nau ǀ ní-siktam ǀ su-kṛtásya ǀ yónau ǁmadhyā ǀ yat ǀ kartvam ǀ abhavat ǀ abhīke ǀ kāmam ǀ kṛṇvāne ǀ pitari ǀ yuvatyām ǀ
manānak ǀ retaḥ ǀ jahatuḥ ǀ vi-yantā ǀ sānau ǀ ni-siktam ǀ su-kṛtasya ǀ yonau ǁ10.61.6 Aṣṭaka 8.1.27.1Anuvāka 10.5.6
-
Ṛk 7
पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेतः॑ संजग्मा॒नो नि षिं॑चत् ।
स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥पिता यत् स्वां दुहितरम् अधिष्कन् क्ष्मया रेतः संजग्मानो नि षिञ्चत् |
स्वाध्यो ऽजनयन् ब्रह्म देवा वास्तोष् पतिं व्रतपां निर् अतक्षन् ||pitā́ yátsvā́m duhitáramadhiṣkánkṣmayā́ rétaḥ saṃjagmānó ní ṣiñcat ǀ
svādhyó’janayanbráhma devā́ vā́stoṣpátim vratapā́m níratakṣan ǁpitā yat svāṃ duhitaram adhiṣkan kṣmayā retaḥ saṃjagmāno ni ṣiñcat |
svādhyo 'janayan brahma devā vāstoṣ patiṃ vratapāṃ nir atakṣan ||पि॒ता । यत् । स्वाम् । दु॒हि॒तर॑म् । अ॒धि॒ऽस्कन् । क्ष्म॒या । रेतः॑ । स॒म्ऽज॒ग्मा॒नः । नि । सि॒ञ्च॒त् ।
सु॒ऽआ॒ध्यः॑ । अ॒ज॒न॒य॒न् । ब्रह्म॑ । दे॒वाः । वास्तोः॑ । पति॑म् । व्र॒त॒ऽपाम् । निः । अ॒त॒क्ष॒न् ॥पिता । यत् । स्वाम् । दुहितरम् । अधिऽस्कन् । क्ष्मया । रेतः । सम्ऽजग्मानः । नि । सिञ्चत् ।
सुऽआध्यः । अजनयन् । ब्रह्म । देवाः । वास्तोः । पतिम् । व्रतऽपाम् । निः । अतक्षन् ॥pitā́ ǀ yát ǀ svā́m ǀ duhitáram ǀ adhi-skán ǀ kṣmayā́ ǀ rétaḥ ǀ sam-jagmānáḥ ǀ ní ǀ siñcat ǀ
su-ādhyáḥ ǀ ajanayan ǀ bráhma ǀ devā́ḥ ǀ vā́stoḥ ǀ pátim ǀ vrata-pā́m ǀ níḥ ǀ atakṣan ǁpitā ǀ yat ǀ svām ǀ duhitaram ǀ adhi-skan ǀ kṣmayā ǀ retaḥ ǀ sam-jagmānaḥ ǀ ni ǀ siñcat ǀ
su-ādhyaḥ ǀ ajanayan ǀ brahma ǀ devāḥ ǀ vāstoḥ ǀ patim ǀ vrata-pām ǀ niḥ ǀ atakṣan ǁ10.61.7 Aṣṭaka 8.1.27.2Anuvāka 10.5.7
-
Ṛk 8
स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे॑ताः ।
सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे॑ पृश॒न्यो॑ जगृभ्रे ॥स ईं वृषा न फेनम् अस्यद् आजौ स्मद् आ परैद् अप दभ्रचेताः |
सरत् पदा न दक्षिणा परावृङ् न ता नु मे पृशन्यो जगृभ्रे ||sá īm vṛ́ṣā ná phénamasyadājáu smádā́ páraidápa dabhrácetāḥ ǀ
sáratpadā́ ná dákṣiṇā parāvṛ́ṅná tā́ nú me pṛśanyó jagṛbhre ǁsa īṃ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ |
sarat padā na dakṣiṇā parāvṛṅ na tā nu me pṛśanyo jagṛbhre ||सः । ई॒म् । वृषा॑ । न । फेन॑म् । अ॒स्य॒त् । आ॒जौ । स्मत् । आ । परा॑ । ऐ॒त् । अप॑ । द॒भ्रऽचे॑ताः ।
सर॑त् । प॒दा । न । दक्षि॑णा । प॒रा॒ऽवृक् । न । ताः । नु । मे॒ । पृ॒श॒न्यः॑ । ज॒गृ॒भ्रे॒ ॥सः । ईम् । वृषा । न । फेनम् । अस्यत् । आजौ । स्मत् । आ । परा । ऐत् । अप । दभ्रऽचेताः ।
सरत् । पदा । न । दक्षिणा । पराऽवृक् । न । ताः । नु । मे । पृशन्यः । जगृभ्रे ॥sáḥ ǀ īm ǀ vṛ́ṣā ǀ ná ǀ phénam ǀ asyat ǀ ājáu ǀ smát ǀ ā́ ǀ párā ǀ ait ǀ ápa ǀ dabhrá-cetāḥ ǀ
sárat ǀ padā́ ǀ ná ǀ dákṣiṇā ǀ parā-vṛ́k ǀ ná ǀ tā́ḥ ǀ nú ǀ me ǀ pṛśanyáḥ ǀ jagṛbhre ǁsaḥ ǀ īm ǀ vṛṣā ǀ na ǀ phenam ǀ asyat ǀ ājau ǀ smat ǀ ā ǀ parā ǀ ait ǀ apa ǀ dabhra-cetāḥ ǀ
sarat ǀ padā ǀ na ǀ dakṣiṇā ǀ parā-vṛk ǀ na ǀ tāḥ ǀ nu ǀ me ǀ pṛśanyaḥ ǀ jagṛbhre ǁ10.61.8 Aṣṭaka 8.1.27.3Anuvāka 10.5.8
-
Ṛk 9
म॒क्षू न वह्निः॑ प्र॒जाया॑ उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूधः॑ ।
सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ॥मक्षू न वह्निः प्रजाया उपब्दिर् अग्निं न नग्न उप सीदद् ऊधः |
सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ||makṣū́ ná váhniḥ prajā́yā upabdíragním ná nagná úpa sīdadū́dhaḥ ǀ
sánitedhmám sánitotá vā́jam sá dhartā́ jajñe sáhasā yavīyút ǁmakṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ |
sanitedhmaṃ sanitota vājaṃ sa dhartā jajñe sahasā yavīyut ||म॒क्षु । न । वह्निः॑ । प्र॒ऽजायाः॑ । उ॒प॒ब्दिः । अ॒ग्निम् । न । न॒ग्नः । उप॑ । सी॒द॒त् । ऊधः॑ ।
सनि॑ता । इ॒ध्मम् । सनि॑ता । उ॒त । वाज॑म् । सः । ध॒र्ता । ज॒ज्ञे॒ । सह॑सा । य॒वि॒ऽयुत् ॥मक्षु । न । वह्निः । प्रऽजायाः । उपब्दिः । अग्निम् । न । नग्नः । उप । सीदत् । ऊधः ।
सनिता । इध्मम् । सनिता । उत । वाजम् । सः । धर्ता । जज्ञे । सहसा । यविऽयुत् ॥makṣú ǀ ná ǀ váhniḥ ǀ pra-jā́yāḥ ǀ upabdíḥ ǀ agním ǀ ná ǀ nagnáḥ ǀ úpa ǀ sīdat ǀ ū́dhaḥ ǀ
sánitā ǀ idhmám ǀ sánitā ǀ utá ǀ vā́jam ǀ sáḥ ǀ dhartā́ ǀ jajñe ǀ sáhasā ǀ yavi-yút ǁmakṣu ǀ na ǀ vahniḥ ǀ pra-jāyāḥ ǀ upabdiḥ ǀ agnim ǀ na ǀ nagnaḥ ǀ upa ǀ sīdat ǀ ūdhaḥ ǀ
sanitā ǀ idhmam ǀ sanitā ǀ uta ǀ vājam ǀ saḥ ǀ dhartā ǀ jajñe ǀ sahasā ǀ yavi-yut ǁ10.61.9 Aṣṭaka 8.1.27.4Anuvāka 10.5.9
-
Ṛk 10
म॒क्षू क॒नायाः॑ स॒ख्यं नव॑ग्वा ऋ॒तं वदं॑त ऋ॒तयु॑क्तिमग्मन् ।
द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒ अच्यु॑ता दुदुक्षन् ॥मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिम् अग्मन् |
द्विबर्हसो य उप गोपम् आगुर् अदक्षिणासो अच्युता दुदुक्षन् ||makṣū́ kanā́yāḥ sakhyám návagvā ṛtám vádanta ṛtáyuktimagman ǀ
dvibárhaso yá úpa gopámā́guradakṣiṇā́so ácyutā dudukṣan ǁmakṣū kanāyāḥ sakhyaṃ navagvā ṛtaṃ vadanta ṛtayuktim agman |
dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan ||म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नव॑ऽग्वाः । ऋ॒तम् । वद॑न्तः । ऋ॒तऽयु॑क्तिम् । अ॒ग्म॒न् ।
द्वि॒ऽबर्ह॑सः । ये । उप॑ । गो॒पम् । आ । अगुः॑ । अ॒द॒क्षि॒णासः॑ । अच्यु॑ता । दु॒धु॒क्ष॒न् ॥मक्षु । कनायाः । सख्यम् । नवऽग्वाः । ऋतम् । वदन्तः । ऋतऽयुक्तिम् । अग्मन् ।
द्विऽबर्हसः । ये । उप । गोपम् । आ । अगुः । अदक्षिणासः । अच्युता । दुधुक्षन् ॥makṣú ǀ kanā́yāḥ ǀ sakhyám ǀ náva-gvāḥ ǀ ṛtám ǀ vádantaḥ ǀ ṛtá-yuktim ǀ agman ǀ
dvi-bárhasaḥ ǀ yé ǀ úpa ǀ gopám ǀ ā́ ǀ águḥ ǀ adakṣiṇā́saḥ ǀ ácyutā ǀ dudhukṣan ǁmakṣu ǀ kanāyāḥ ǀ sakhyam ǀ nava-gvāḥ ǀ ṛtam ǀ vadantaḥ ǀ ṛta-yuktim ǀ agman ǀ
dvi-barhasaḥ ǀ ye ǀ upa ǀ gopam ǀ ā ǀ aguḥ ǀ adakṣiṇāsaḥ ǀ acyutā ǀ dudhukṣan ǁ10.61.10 Aṣṭaka 8.1.27.5Anuvāka 10.5.10
-
Ṛk 11
म॒क्षू क॒नायाः॑ स॒ख्यं नवी॑यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् ।
शुचि॒ यत्ते॒ रेक्ण॒ आय॑जंत सब॒र्दुघा॑याः॒ पय॑ उ॒स्रिया॑याः ॥मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतम् इत् तुरण्यन् |
शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ||makṣū́ kanā́yāḥ sakhyám návīyo rā́dho ná réta ṛtámítturaṇyan ǀ
śúci yátte rékṇa ā́yajanta sabardúghāyāḥ páya usríyāyāḥ ǁmakṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtam it turaṇyan |
śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ ||म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नवी॑यः । राधः॑ । न । रेतः॑ । ऋ॒तम् । इत् । तु॒र॒ण्य॒न् ।
शुचि॑ । यत् । ते॒ । रेक्णः॑ । आ॒ऽअय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥मक्षु । कनायाः । सख्यम् । नवीयः । राधः । न । रेतः । ऋतम् । इत् । तुरण्यन् ।
शुचि । यत् । ते । रेक्णः । आऽअयजन्त । सबःऽदुघायाः । पयः । उस्रियायाः ॥makṣú ǀ kanā́yāḥ ǀ sakhyám ǀ návīyaḥ ǀ rā́dhaḥ ǀ ná ǀ rétaḥ ǀ ṛtám ǀ ít ǀ turaṇyan ǀ
śúci ǀ yát ǀ te ǀ rékṇaḥ ǀ ā-áyajanta ǀ sabaḥ-dúghāyāḥ ǀ páyaḥ ǀ usríyāyāḥ ǁmakṣu ǀ kanāyāḥ ǀ sakhyam ǀ navīyaḥ ǀ rādhaḥ ǀ na ǀ retaḥ ǀ ṛtam ǀ it ǀ turaṇyan ǀ
śuci ǀ yat ǀ te ǀ rekṇaḥ ǀ ā-ayajanta ǀ sabaḥ-dughāyāḥ ǀ payaḥ ǀ usriyāyāḥ ǁ10.61.11 Aṣṭaka 8.1.28.1Anuvāka 10.5.11
-
Ṛk 12
प॒श्वा यत्प॒श्चा वियु॑ता बु॒धंतेति॑ ब्रवीति व॒क्तरी॒ ररा॑णः ।
वसो॑र्वसु॒त्वा का॒रवो॑ऽने॒हा विश्वं॑ विवेष्टि॒ द्रवि॑ण॒मुप॒ क्षु ॥पश्वा यत् पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः |
वसोर् वसुत्वा कारवो ऽनेहा विश्वं विवेष्टि द्रविणम् उप क्षु ||paśvā́ yátpaścā́ víyutā budhántéti bravīti vaktárī rárāṇaḥ ǀ
vásorvasutvā́ kārávo’nehā́ víśvam viveṣṭi dráviṇamúpa kṣú ǁpaśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ |
vasor vasutvā kāravo 'nehā viśvaṃ viveṣṭi draviṇam upa kṣu ||प॒श्वा । यत् । प॒श्चा । विऽयु॑ता । बु॒धन्त॑ । इति॑ । ब्र॒वी॒ति॒ । व॒क्तरि॑ । ररा॑णः ।
वसोः॑ । व॒सु॒ऽत्वा । का॒रवः॑ । अ॒ने॒हा । विश्व॑म् । वि॒वे॒ष्टि॒ । द्रवि॑णम् । उप॑ । क्षु ॥पश्वा । यत् । पश्चा । विऽयुता । बुधन्त । इति । ब्रवीति । वक्तरि । रराणः ।
वसोः । वसुऽत्वा । कारवः । अनेहा । विश्वम् । विवेष्टि । द्रविणम् । उप । क्षु ॥paśvā́ ǀ yát ǀ paścā́ ǀ ví-yutā ǀ budhánta ǀ íti ǀ bravīti ǀ vaktári ǀ rárāṇaḥ ǀ
vásoḥ ǀ vasu-tvā́ ǀ kārávaḥ ǀ anehā́ ǀ víśvam ǀ viveṣṭi ǀ dráviṇam ǀ úpa ǀ kṣú ǁpaśvā ǀ yat ǀ paścā ǀ vi-yutā ǀ budhanta ǀ iti ǀ bravīti ǀ vaktari ǀ rarāṇaḥ ǀ
vasoḥ ǀ vasu-tvā ǀ kāravaḥ ǀ anehā ǀ viśvam ǀ viveṣṭi ǀ draviṇam ǀ upa ǀ kṣu ǁ10.61.12 Aṣṭaka 8.1.28.2Anuvāka 10.5.12
-
Ṛk 13
तदिन्न्व॑स्य परि॒षद्वा॑नो अग्मन्पु॒रू सदं॑तो नार्ष॒दं बि॑भित्सन् ।
वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ॥तद् इन् न्व् अस्य परिषद्वानो अग्मन् पुरू सदन्तो नार्षदम् बिभित्सन् |
वि शुष्णस्य संग्रथितम् अनर्वा विदत् पुरुप्रजातस्य गुहा यत् ||tádínnvásya pariṣádvāno agmanpurū́ sádanto nārṣadám bibhitsan ǀ
ví śúṣṇasya sáṃgrathitamanarvā́ vidátpuruprajātásya gúhā yát ǁtad in nv asya pariṣadvāno agman purū sadanto nārṣadam bibhitsan |
vi śuṣṇasya saṃgrathitam anarvā vidat puruprajātasya guhā yat ||तत् । इत् । नु । अ॒स्य॒ । प॒रि॒ऽसद्वा॑नः । अ॒ग्म॒न् । पु॒रु । सद॑न्तः । ना॒र्स॒दम् । बि॒भि॒त्सन् ।
वि । शुष्ण॑स्य । सम्ऽग्र॑थितम् । अ॒न॒र्वा । वि॒दत् । पु॒रु॒ऽप्र॒जा॒तस्य॑ । गुहा॑ । यत् ॥तत् । इत् । नु । अस्य । परिऽसद्वानः । अग्मन् । पुरु । सदन्तः । नार्सदम् । बिभित्सन् ।
वि । शुष्णस्य । सम्ऽग्रथितम् । अनर्वा । विदत् । पुरुऽप्रजातस्य । गुहा । यत् ॥tát ǀ ít ǀ nú ǀ asya ǀ pari-sádvānaḥ ǀ agman ǀ purú ǀ sádantaḥ ǀ nārsadám ǀ bibhitsán ǀ
ví ǀ śúṣṇasya ǀ sám-grathitam ǀ anarvā́ ǀ vidát ǀ puru-prajātásya ǀ gúhā ǀ yát ǁtat ǀ it ǀ nu ǀ asya ǀ pari-sadvānaḥ ǀ agman ǀ puru ǀ sadantaḥ ǀ nārsadam ǀ bibhitsan ǀ
vi ǀ śuṣṇasya ǀ sam-grathitam ǀ anarvā ǀ vidat ǀ puru-prajātasya ǀ guhā ǀ yat ǁ10.61.13 Aṣṭaka 8.1.28.3Anuvāka 10.5.13
-
Ṛk 14
भर्गो॑ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॒॑र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः ।
अ॒ग्निर्ह॒ नामो॒त जा॒तवे॑दाः श्रु॒धी नो॑ होतर्ऋ॒तस्य॒ होता॒ध्रुक् ॥भर्गो ह नामोत यस्य देवाः स्वर् ण ये त्रिषधस्थे निषेदुः |
अग्निर् ह नामोत जातवेदाः श्रुधी नो होतर् ऋतस्य होताध्रुक् ||bhárgo ha nā́motá yásya devā́ḥ svárṇá yé triṣadhasthé niṣedúḥ ǀ
agnírha nā́motá jātávedāḥ śrudhī́ no hotarṛtásya hótādhrúk ǁbhargo ha nāmota yasya devāḥ svar ṇa ye triṣadhasthe niṣeduḥ |
agnir ha nāmota jātavedāḥ śrudhī no hotar ṛtasya hotādhruk ||भर्गः॑ । ह॒ । नाम॑ । उ॒त । यस्य॑ । दे॒वाः । स्वः॑ । न । ये । त्रि॒ऽस॒ध॒स्थे । नि॒ऽसे॒दुः ।
अ॒ग्निः । ह॒ । नाम॑ । उ॒त । जा॒तऽवे॑दाः । श्रु॒धि । नः॒ । हो॒तः॒ । ऋ॒तस्य॑ । होता॑ । अ॒ध्रुक् ॥भर्गः । ह । नाम । उत । यस्य । देवाः । स्वः । न । ये । त्रिऽसधस्थे । निऽसेदुः ।
अग्निः । ह । नाम । उत । जातऽवेदाः । श्रुधि । नः । होतः । ऋतस्य । होता । अध्रुक् ॥bhárgaḥ ǀ ha ǀ nā́ma ǀ utá ǀ yásya ǀ devā́ḥ ǀ sváḥ ǀ ná ǀ yé ǀ tri-sadhasthé ǀ ni-sedúḥ ǀ
agníḥ ǀ ha ǀ nā́ma ǀ utá ǀ jātá-vedāḥ ǀ śrudhí ǀ naḥ ǀ hotaḥ ǀ ṛtásya ǀ hótā ǀ adhrúk ǁbhargaḥ ǀ ha ǀ nāma ǀ uta ǀ yasya ǀ devāḥ ǀ svaḥ ǀ na ǀ ye ǀ tri-sadhasthe ǀ ni-seduḥ ǀ
agniḥ ǀ ha ǀ nāma ǀ uta ǀ jāta-vedāḥ ǀ śrudhi ǀ naḥ ǀ hotaḥ ǀ ṛtasya ǀ hotā ǀ adhruk ǁ10.61.14 Aṣṭaka 8.1.28.4Anuvāka 10.5.14
-
Ṛk 15
उ॒त त्या मे॒ रौद्रा॑वर्चि॒मंता॒ नास॑त्याविंद्र गू॒र्तये॒ यज॑ध्यै ।
म॒नु॒ष्वद्वृ॒क्तब॑र्हिषे॒ ररा॑णा मं॒दू हि॒तप्र॑यसा वि॒क्षु यज्यू॑ ॥उत त्या मे रौद्राव् अर्चिमन्ता नासत्याव् इन्द्र गूर्तये यजध्यै |
मनुष्वद् वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू ||utá tyā́ me ráudrāvarcimántā nā́satyāvindra gūrtáye yájadhyai ǀ
manuṣvádvṛktábarhiṣe rárāṇā mandū́ hitáprayasā vikṣú yájyū ǁuta tyā me raudrāv arcimantā nāsatyāv indra gūrtaye yajadhyai |
manuṣvad vṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū ||उ॒त । त्या । मे॒ । रौद्रौ॑ । अ॒र्चि॒ऽमन्ता॑ । नास॑त्यौ । इ॒न्द्र॒ । गू॒र्तये॑ । यज॑ध्यै ।
म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषे । ररा॑णा । म॒न्दू इति॑ । हि॒तऽप्र॑यसा । वि॒क्षु । यज्यू॒ इति॑ ॥उत । त्या । मे । रौद्रौ । अर्चिऽमन्ता । नासत्यौ । इन्द्र । गूर्तये । यजध्यै ।
मनुष्वत् । वृक्तऽबर्हिषे । रराणा । मन्दू इति । हितऽप्रयसा । विक्षु । यज्यू इति ॥utá ǀ tyā́ ǀ me ǀ ráudrau ǀ arci-mántā ǀ nā́satyau ǀ indra ǀ gūrtáye ǀ yájadhyai ǀ
manuṣvát ǀ vṛktá-barhiṣe ǀ rárāṇā ǀ mandū́ íti ǀ hitá-prayasā ǀ vikṣú ǀ yájyū íti ǁuta ǀ tyā ǀ me ǀ raudrau ǀ arci-mantā ǀ nāsatyau ǀ indra ǀ gūrtaye ǀ yajadhyai ǀ
manuṣvat ǀ vṛkta-barhiṣe ǀ rarāṇā ǀ mandū iti ǀ hita-prayasā ǀ vikṣu ǀ yajyū iti ǁ10.61.15 Aṣṭaka 8.1.28.5Anuvāka 10.5.15
-
Ṛk 16
अ॒यं स्तु॒तो राजा॑ वंदि वे॒धा अ॒पश्च॒ विप्र॑स्तरति॒ स्वसे॑तुः ।
स क॒क्षीवं॑तं रेजय॒त्सो अ॒ग्निं ने॒मिं न च॒क्रमर्व॑तो रघु॒द्रु ॥अयं स्तुतो राजा वन्दि वेधा अपश् च विप्रस् तरति स्वसेतुः |
स कक्षीवन्तं रेजयत् सो अग्निं नेमिं न चक्रम् अर्वतो रघुद्रु ||ayám stutó rā́jā vandi vedhā́ apáśca víprastarati svásetuḥ ǀ
sá kakṣī́vantam rejayatsó agním nemím ná cakrámárvato raghudrú ǁayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ |
sa kakṣīvantaṃ rejayat so agniṃ nemiṃ na cakram arvato raghudru ||अ॒यम् । स्तु॒तः । राजा॑ । व॒न्दि॒ । वे॒धाः । अ॒पः । च॒ । विप्रः॑ । त॒र॒ति॒ । स्वऽसे॑तुः ।
सः । क॒क्षीव॑न्तम् । रे॒ज॒य॒त् । सः । अ॒ग्निम् । ने॒मिम् । न । च॒क्रम् । अर्व॑तः । र॒घु॒ऽद्रु ॥अयम् । स्तुतः । राजा । वन्दि । वेधाः । अपः । च । विप्रः । तरति । स्वऽसेतुः ।
सः । कक्षीवन्तम् । रेजयत् । सः । अग्निम् । नेमिम् । न । चक्रम् । अर्वतः । रघुऽद्रु ॥ayám ǀ stutáḥ ǀ rā́jā ǀ vandi ǀ vedhā́ḥ ǀ apáḥ ǀ ca ǀ vípraḥ ǀ tarati ǀ svá-setuḥ ǀ
sáḥ ǀ kakṣī́vantam ǀ rejayat ǀ sáḥ ǀ agním ǀ nemím ǀ ná ǀ cakrám ǀ árvataḥ ǀ raghu-drú ǁayam ǀ stutaḥ ǀ rājā ǀ vandi ǀ vedhāḥ ǀ apaḥ ǀ ca ǀ vipraḥ ǀ tarati ǀ sva-setuḥ ǀ
saḥ ǀ kakṣīvantam ǀ rejayat ǀ saḥ ǀ agnim ǀ nemim ǀ na ǀ cakram ǀ arvataḥ ǀ raghu-dru ǁ10.61.16 Aṣṭaka 8.1.29.1Anuvāka 10.5.16
-
Ṛk 17
स द्वि॒बंधु॑र्वैतर॒णो यष्टा॑ सब॒र्धुं धे॒नुम॒स्वं॑ दु॒हध्यै॑ ।
सं यन्मि॒त्रावरु॑णा वृं॒ज उ॒क्थैर्ज्येष्ठे॑भिरर्य॒मणं॒ वरू॑थैः ॥स द्विबन्धुर् वैतरणो यष्टा सबर्धुं धेनुम् अस्वं दुहध्यै |
सं यन् मित्रावरुणा वृञ्ज उक्थैर् ज्येष्ठेभिर् अर्यमणं वरूथैः ||sá dvibándhurvaitaraṇó yáṣṭā sabardhúm dhenúmasvám duhádhyai ǀ
sám yánmitrā́váruṇā vṛñjá uktháirjyéṣṭhebhiraryamáṇam várūthaiḥ ǁsa dvibandhur vaitaraṇo yaṣṭā sabardhuṃ dhenum asvaṃ duhadhyai |
saṃ yan mitrāvaruṇā vṛñja ukthair jyeṣṭhebhir aryamaṇaṃ varūthaiḥ ||सः । द्वि॒ऽबन्धुः॑ । वै॒त॒र॒णः । यष्टा॑ । स॒बः॒ऽधुम् । धे॒नुम् । अ॒स्व॑म् । दु॒हध्यै॑ ।
सम् । यत् । मि॒त्रावरु॑णा । वृ॒ञ्जे । उ॒क्थैः । ज्येष्ठे॑भिः । अ॒र्य॒मण॑म् । वरू॑थैः ॥सः । द्विऽबन्धुः । वैतरणः । यष्टा । सबःऽधुम् । धेनुम् । अस्वम् । दुहध्यै ।
सम् । यत् । मित्रावरुणा । वृञ्जे । उक्थैः । ज्येष्ठेभिः । अर्यमणम् । वरूथैः ॥sáḥ ǀ dvi-bándhuḥ ǀ vaitaraṇáḥ ǀ yáṣṭā ǀ sabaḥ-dhúm ǀ dhenúm ǀ asvám ǀ duhádhyai ǀ
sám ǀ yát ǀ mitrā́váruṇā ǀ vṛñjé ǀ uktháiḥ ǀ jyéṣṭhebhiḥ ǀ aryamáṇam ǀ várūthaiḥ ǁsaḥ ǀ dvi-bandhuḥ ǀ vaitaraṇaḥ ǀ yaṣṭā ǀ sabaḥ-dhum ǀ dhenum ǀ asvam ǀ duhadhyai ǀ
sam ǀ yat ǀ mitrāvaruṇā ǀ vṛñje ǀ ukthaiḥ ǀ jyeṣṭhebhiḥ ǀ aryamaṇam ǀ varūthaiḥ ǁ10.61.17 Aṣṭaka 8.1.29.2Anuvāka 10.5.17
-
Ṛk 18
तद्बं॑धुः सू॒रिर्दि॒वि ते॑ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् ।
सा नो॒ नाभिः॑ पर॒मास्य वा॑ घा॒हं तत्प॒श्चा क॑ति॒थश्चि॑दास ॥तद्बन्धुः सूरिर् दिवि ते धियन्धा नाभानेदिष्ठो रपति प्र वेनन् |
सा नो नाभिः परमास्य वा घाहं तत् पश्चा कतिथश् चिद् आस ||tádbandhuḥ sūrírdiví te dhiyaṃdhā́ nā́bhānédiṣṭho rapati prá vénan ǀ
sā́ no nā́bhiḥ paramā́syá vā ghāhám tátpaścā́ katitháścidāsa ǁtadbandhuḥ sūrir divi te dhiyandhā nābhānediṣṭho rapati pra venan |
sā no nābhiḥ paramāsya vā ghāhaṃ tat paścā katithaś cid āsa ||तत्ऽब॑न्धुः । सू॒रिः । दि॒वि । ते॒ । धि॒य॒म्ऽधाः । नाभा॒नेदि॑ष्ठः । र॒प॒ति॒ । प्र । वेन॑न् ।
सा । नः॒ । नाभिः॑ । प॒र॒मा । अ॒स्य । वा॒ । घ॒ । अ॒हम् । तत् । प॒श्चा । क॒ति॒थः । चि॒त् । आ॒स॒ ॥तत्ऽबन्धुः । सूरिः । दिवि । ते । धियम्ऽधाः । नाभानेदिष्ठः । रपति । प्र । वेनन् ।
सा । नः । नाभिः । परमा । अस्य । वा । घ । अहम् । तत् । पश्चा । कतिथः । चित् । आस ॥tát-bandhuḥ ǀ sūríḥ ǀ diví ǀ te ǀ dhiyam-dhā́ḥ ǀ nā́bhānédiṣṭhaḥ ǀ rapati ǀ prá ǀ vénan ǀ
sā́ ǀ naḥ ǀ nā́bhiḥ ǀ paramā́ ǀ asyá ǀ vā ǀ gha ǀ ahám ǀ tát ǀ paścā́ ǀ katitháḥ ǀ cit ǀ āsa ǁtat-bandhuḥ ǀ sūriḥ ǀ divi ǀ te ǀ dhiyam-dhāḥ ǀ nābhānediṣṭhaḥ ǀ rapati ǀ pra ǀ venan ǀ
sā ǀ naḥ ǀ nābhiḥ ǀ paramā ǀ asya ǀ vā ǀ gha ǀ aham ǀ tat ǀ paścā ǀ katithaḥ ǀ cit ǀ āsa ǁ10.61.18 Aṣṭaka 8.1.29.3Anuvāka 10.5.18
-
Ṛk 19
इ॒यं मे॒ नाभि॑रि॒ह मे॑ स॒धस्थ॑मि॒मे मे॑ दे॒वा अ॒यम॑स्मि॒ सर्वः॑ ।
द्वि॒जा अह॑ प्रथम॒जा ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ॥इयम् मे नाभिर् इह मे सधस्थम् इमे मे देवा अयम् अस्मि सर्वः |
द्विजा अह प्रथमजा ऋतस्येदं धेनुर् अदुहज् जायमाना ||iyám me nā́bhirihá me sadhásthamimé me devā́ ayámasmi sárvaḥ ǀ
dvijā́ áha prathamajā́ ṛtásyedám dhenúraduhajjā́yamānā ǁiyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ |
dvijā aha prathamajā ṛtasyedaṃ dhenur aduhaj jāyamānā ||इ॒यम् । मे॒ । नाभिः॑ । इ॒ह । मे॒ । स॒धऽस्थ॑म् । इ॒मे । मे॒ । दे॒वाः । अ॒यम् । अ॒स्मि॒ । सर्वः॑ ।
द्वि॒ऽजाः । अह॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । इ॒दम् । धे॒नुः । अ॒दु॒ह॒त् । जाय॑माना ॥इयम् । मे । नाभिः । इह । मे । सधऽस्थम् । इमे । मे । देवाः । अयम् । अस्मि । सर्वः ।
द्विऽजाः । अह । प्रथमऽजाः । ऋतस्य । इदम् । धेनुः । अदुहत् । जायमाना ॥iyám ǀ me ǀ nā́bhiḥ ǀ ihá ǀ me ǀ sadhá-stham ǀ imé ǀ me ǀ devā́ḥ ǀ ayám ǀ asmi ǀ sárvaḥ ǀ
dvi-jā́ḥ ǀ áha ǀ prathama-jā́ḥ ǀ ṛtásya ǀ idám ǀ dhenúḥ ǀ aduhat ǀ jā́yamānā ǁiyam ǀ me ǀ nābhiḥ ǀ iha ǀ me ǀ sadha-stham ǀ ime ǀ me ǀ devāḥ ǀ ayam ǀ asmi ǀ sarvaḥ ǀ
dvi-jāḥ ǀ aha ǀ prathama-jāḥ ǀ ṛtasya ǀ idam ǀ dhenuḥ ǀ aduhat ǀ jāyamānā ǁ10.61.19 Aṣṭaka 8.1.29.4Anuvāka 10.5.19
-
Ṛk 20
अधा॑सु मं॒द्रो अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् ।
ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे॑वृ॒धं सू॑त मा॒ता ॥अधासु मन्द्रो अरतिर् विभावाव स्यति द्विवर्तनिर् वनेषाट् |
ऊर्ध्वा यच् छ्रेणिर् न शिशुर् दन् मक्षू स्थिरं शेवृधं सूत माता ||ádhāsu mandró aratírvibhā́vā́va syati dvivartanírvaneṣā́ṭ ǀ
ūrdhvā́ yácchréṇirná śíśurdánmakṣū́ sthirám śevṛdhám sūta mātā́ ǁadhāsu mandro aratir vibhāvāva syati dvivartanir vaneṣāṭ |
ūrdhvā yac chreṇir na śiśur dan makṣū sthiraṃ śevṛdhaṃ sūta mātā ||अध॑ । आ॒सु॒ । म॒न्द्रः । अ॒र॒तिः । वि॒भाऽवा॑ । अव॑ । स्य॒ति॒ । द्वि॒ऽव॒र्त॒निः । व॒ने॒षाट् ।
ऊ॒र्ध्वा । यत् । श्रेणिः॑ । न । शिशुः॑ । दन् । म॒क्षु । स्थि॒रम् । शे॒ऽवृ॒धम् । सू॒त॒ । मा॒ता ॥अध । आसु । मन्द्रः । अरतिः । विभाऽवा । अव । स्यति । द्विऽवर्तनिः । वनेषाट् ।
ऊर्ध्वा । यत् । श्रेणिः । न । शिशुः । दन् । मक्षु । स्थिरम् । शेऽवृधम् । सूत । माता ॥ádha ǀ āsu ǀ mandráḥ ǀ aratíḥ ǀ vibhā́-vā ǀ áva ǀ syati ǀ dvi-vartaníḥ ǀ vaneṣā́ṭ ǀ
ūrdhvā́ ǀ yát ǀ śréṇiḥ ǀ ná ǀ śíśuḥ ǀ dán ǀ makṣú ǀ sthirám ǀ śe-vṛdhám ǀ sūta ǀ mātā́ ǁadha ǀ āsu ǀ mandraḥ ǀ aratiḥ ǀ vibhā-vā ǀ ava ǀ syati ǀ dvi-vartaniḥ ǀ vaneṣāṭ ǀ
ūrdhvā ǀ yat ǀ śreṇiḥ ǀ na ǀ śiśuḥ ǀ dan ǀ makṣu ǀ sthiram ǀ śe-vṛdham ǀ sūta ǀ mātā ǁ10.61.20 Aṣṭaka 8.1.29.5Anuvāka 10.5.20
-
Ṛk 21
अधा॒ गाव॒ उप॑मातिं क॒नाया॒ अनु॑ श्वां॒तस्य॒ कस्य॑ चि॒त्परे॑युः ।
श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या॑ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता॑भिः ॥अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित् परेयुः |
श्रुधि त्वं सुद्रविणो नस् त्वं याऌ आश्वघ्नस्य वावृधे सूनृताभिः ||ádhā gā́va úpamātim kanā́yā ánu śvāntásya kásya citpáreyuḥ ǀ
śrudhí tvám sudraviṇo nastvám yāḷāśvaghnásya vāvṛdhe sūnṛ́tābhiḥ ǁadhā gāva upamātiṃ kanāyā anu śvāntasya kasya cit pareyuḥ |
śrudhi tvaṃ sudraviṇo nas tvaṃ yāḷ āśvaghnasya vāvṛdhe sūnṛtābhiḥ ||अध॑ । गावः॑ । उप॑ऽमातिम् । क॒नायाः॑ । अनु॑ । श्वा॒न्तस्य॑ । कस्य॑ । चि॒त् । परा॑ । ई॒युः॒ ।
श्रु॒धि । त्वम् । सु॒ऽद्र॒वि॒णः॒ । नः॒ । त्वम् । या॒ट् । आ॒श्व॒ऽघ्नस्य॑ । व॒वृ॒धे॒ । सू॒नृता॑भिः ॥अध । गावः । उपऽमातिम् । कनायाः । अनु । श्वान्तस्य । कस्य । चित् । परा । ईयुः ।
श्रुधि । त्वम् । सुऽद्रविणः । नः । त्वम् । याट् । आश्वऽघ्नस्य । ववृधे । सूनृताभिः ॥ádha ǀ gā́vaḥ ǀ úpa-mātim ǀ kanā́yāḥ ǀ ánu ǀ śvāntásya ǀ kásya ǀ cit ǀ párā ǀ īyuḥ ǀ
śrudhí ǀ tvám ǀ su-draviṇaḥ ǀ naḥ ǀ tvám ǀ yāṭ ǀ āśva-ghnásya ǀ vavṛdhe ǀ sūnṛ́tābhiḥ ǁadha ǀ gāvaḥ ǀ upa-mātim ǀ kanāyāḥ ǀ anu ǀ śvāntasya ǀ kasya ǀ cit ǀ parā ǀ īyuḥ ǀ
śrudhi ǀ tvam ǀ su-draviṇaḥ ǀ naḥ ǀ tvam ǀ yāṭ ǀ āśva-ghnasya ǀ vavṛdhe ǀ sūnṛtābhiḥ ǁ10.61.21 Aṣṭaka 8.1.30.1Anuvāka 10.5.21
-
Ṛk 22
अध॒ त्वमिं॑द्र वि॒द्ध्य१॒॑स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः ।
रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो अ॒भिष्टौ॑ ॥अध त्वम् इन्द्र विद्ध्य् अस्मान् महो राये नृपते वज्रबाहुः |
रक्षा च नो मघोनः पाहि सूरीन् अनेहसस् ते हरिवो अभिष्टौ ||ádha tvámindra viddhyásmā́nmahó rāyé nṛpate vájrabāhuḥ ǀ
rákṣā ca no maghónaḥ pāhí sūrī́nanehásaste harivo abhíṣṭau ǁadha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ |
rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau ||अध॑ । त्वम् । इ॒न्द्र॒ । वि॒द्धि । अ॒स्मान् । म॒हः । रा॒ये । नृ॒ऽप॒ते॒ । वज्र॑ऽबाहुः ।
रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । अ॒ने॒हसः॑ । ते॒ । ह॒रि॒ऽवः॒ । अ॒भिष्टौ॑ ॥अध । त्वम् । इन्द्र । विद्धि । अस्मान् । महः । राये । नृऽपते । वज्रऽबाहुः ।
रक्ष । च । नः । मघोनः । पाहि । सूरीन् । अनेहसः । ते । हरिऽवः । अभिष्टौ ॥ádha ǀ tvám ǀ indra ǀ viddhí ǀ asmā́n ǀ maháḥ ǀ rāyé ǀ nṛ-pate ǀ vájra-bāhuḥ ǀ
rákṣa ǀ ca ǀ naḥ ǀ maghónaḥ ǀ pāhí ǀ sūrī́n ǀ anehásaḥ ǀ te ǀ hari-vaḥ ǀ abhíṣṭau ǁadha ǀ tvam ǀ indra ǀ viddhi ǀ asmān ǀ mahaḥ ǀ rāye ǀ nṛ-pate ǀ vajra-bāhuḥ ǀ
rakṣa ǀ ca ǀ naḥ ǀ maghonaḥ ǀ pāhi ǀ sūrīn ǀ anehasaḥ ǀ te ǀ hari-vaḥ ǀ abhiṣṭau ǁ10.61.22 Aṣṭaka 8.1.30.2Anuvāka 10.5.22
-
Ṛk 23
अध॒ यद्रा॑जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे॑ जर॒ण्युः ।
विप्रः॒ प्रेष्ठः॒ स ह्ये॑षां ब॒भूव॒ परा॑ च॒ वक्ष॑दु॒त प॑र्षदेनान् ॥अध यद् राजाना गविष्टौ सरत् सरण्युः कारवे जरण्युः |
विप्रः प्रेष्ठः स ह्य् एषाम् बभूव परा च वक्षद् उत पर्षद् एनान् ||ádha yádrājānā gáviṣṭau sáratsaraṇyúḥ kāráve jaraṇyúḥ ǀ
vípraḥ préṣṭhaḥ sá hyéṣām babhū́va párā ca vákṣadutá parṣadenān ǁadha yad rājānā gaviṣṭau sarat saraṇyuḥ kārave jaraṇyuḥ |
vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān ||अध॑ । यत् । रा॒जा॒ना॒ । गोऽइ॑ष्टौ । सर॑त् । स॒र॒ण्युः । का॒रवे॑ । ज॒र॒ण्युः ।
विप्रः॑ । प्रेष्ठः॑ । सः । हि । ए॒षा॒म् । ब॒भूव॑ । परा॑ । च॒ । वक्ष॑त् । उ॒त । प॒र्ष॒त् । ए॒ना॒न् ॥अध । यत् । राजाना । गोऽइष्टौ । सरत् । सरण्युः । कारवे । जरण्युः ।
विप्रः । प्रेष्ठः । सः । हि । एषाम् । बभूव । परा । च । वक्षत् । उत । पर्षत् । एनान् ॥ádha ǀ yát ǀ rājānā ǀ gó-iṣṭau ǀ sárat ǀ saraṇyúḥ ǀ kāráve ǀ jaraṇyúḥ ǀ
vípraḥ ǀ préṣṭhaḥ ǀ sáḥ ǀ hí ǀ eṣām ǀ babhū́va ǀ párā ǀ ca ǀ vákṣat ǀ utá ǀ parṣat ǀ enān ǁadha ǀ yat ǀ rājānā ǀ go-iṣṭau ǀ sarat ǀ saraṇyuḥ ǀ kārave ǀ jaraṇyuḥ ǀ
vipraḥ ǀ preṣṭhaḥ ǀ saḥ ǀ hi ǀ eṣām ǀ babhūva ǀ parā ǀ ca ǀ vakṣat ǀ uta ǀ parṣat ǀ enān ǁ10.61.23 Aṣṭaka 8.1.30.3Anuvāka 10.5.23
-
Ṛk 24
अधा॒ न्व॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृथा॒ रेभं॑त ईमहे॒ तदू॒ नु ।
स॒र॒ण्युर॑स्य सू॒नुरश्वो॒ विप्र॑श्चासि॒ श्रव॑सश्च सा॒तौ ॥अधा न्व् अस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तद् ऊ नु |
सरण्युर् अस्य सूनुर् अश्वो विप्रश् चासि श्रवसश् च सातौ ||ádhā nvásya jényasya puṣṭáu vṛ́thā rébhanta īmahe tádū nú ǀ
saraṇyúrasya sūnúráśvo vípraścāsi śrávasaśca sātáu ǁadhā nv asya jenyasya puṣṭau vṛthā rebhanta īmahe tad ū nu |
saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau ||अध॑ । नु । अ॒स्य॒ । जेन्य॑स्य । पु॒ष्टौ । वृथा॑ । रेभ॑न्तः । ई॒म॒हे॒ । तत् । ऊं॒ इति॑ । नु ।
स॒र॒ण्युः । अ॒स्य॒ । सू॒नुः । अश्वः॑ । विप्रः॑ । च॒ । अ॒सि॒ । श्रव॑सः । च॒ । सा॒तौ ॥अध । नु । अस्य । जेन्यस्य । पुष्टौ । वृथा । रेभन्तः । ईमहे । तत् । ऊं इति । नु ।
सरण्युः । अस्य । सूनुः । अश्वः । विप्रः । च । असि । श्रवसः । च । सातौ ॥ádha ǀ nú ǀ asya ǀ jényasya ǀ puṣṭáu ǀ vṛ́thā ǀ rébhantaḥ ǀ īmahe ǀ tát ǀ ūṃ íti ǀ nú ǀ
saraṇyúḥ ǀ asya ǀ sūnúḥ ǀ áśvaḥ ǀ vípraḥ ǀ ca ǀ asi ǀ śrávasaḥ ǀ ca ǀ sātáu ǁadha ǀ nu ǀ asya ǀ jenyasya ǀ puṣṭau ǀ vṛthā ǀ rebhantaḥ ǀ īmahe ǀ tat ǀ ūṃ iti ǀ nu ǀ
saraṇyuḥ ǀ asya ǀ sūnuḥ ǀ aśvaḥ ǀ vipraḥ ǀ ca ǀ asi ǀ śravasaḥ ǀ ca ǀ sātau ǁ10.61.24 Aṣṭaka 8.1.30.4Anuvāka 10.5.24
-
Ṛk 25
यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा॑य॒ स्तोमं॑ जुजु॒षे नम॑स्वान् ।
वि॒श्वत्र॒ यस्मि॒न्ना गिरः॑ समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता॑यै ॥युवोर् यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् |
विश्वत्र यस्मिन्न् आ गिरः समीचीः पूर्वीव गातुर् दाशत् सूनृतायै ||yuvóryádi sakhyā́yāsmé śárdhāya stómam jujuṣé námasvān ǀ
viśvátra yásminnā́ gíraḥ samīcī́ḥ pūrvī́va gātúrdā́śatsūnṛ́tāyai ǁyuvor yadi sakhyāyāsme śardhāya stomaṃ jujuṣe namasvān |
viśvatra yasminn ā giraḥ samīcīḥ pūrvīva gātur dāśat sūnṛtāyai ||यु॒वोः । यदि॑ । स॒ख्याय॑ । अ॒स्मे इति॑ । शर्धा॑य । स्तोम॑म् । जु॒जु॒षे । नम॑स्वान् ।
वि॒श्वत्र॑ । यस्मि॑न् । आ । गिरः॑ । स॒म्ऽई॒चीः । पू॒र्वीऽइ॑व । गा॒तुः । दाश॑त् । सू॒नृता॑यै ॥युवोः । यदि । सख्याय । अस्मे इति । शर्धाय । स्तोमम् । जुजुषे । नमस्वान् ।
विश्वत्र । यस्मिन् । आ । गिरः । सम्ऽईचीः । पूर्वीऽइव । गातुः । दाशत् । सूनृतायै ॥yuvóḥ ǀ yádi ǀ sakhyā́ya ǀ asmé íti ǀ śárdhāya ǀ stómam ǀ jujuṣé ǀ námasvān ǀ
viśvátra ǀ yásmin ǀ ā́ ǀ gíraḥ ǀ sam-īcī́ḥ ǀ pūrvī́-iva ǀ gātúḥ ǀ dā́śat ǀ sūnṛ́tāyai ǁyuvoḥ ǀ yadi ǀ sakhyāya ǀ asme iti ǀ śardhāya ǀ stomam ǀ jujuṣe ǀ namasvān ǀ
viśvatra ǀ yasmin ǀ ā ǀ giraḥ ǀ sam-īcīḥ ǀ pūrvī-iva ǀ gātuḥ ǀ dāśat ǀ sūnṛtāyai ǁ10.61.25 Aṣṭaka 8.1.30.5Anuvāka 10.5.25
-
Ṛk 26
स गृ॑णा॒नो अ॒द्भिर्दे॒ववा॒निति॑ सु॒बंधु॒र्नम॑सा सू॒क्तैः ।
वर्ध॑दु॒क्थैर्वचो॑भि॒रा हि नू॒नं व्यध्वै॑ति॒ पय॑स उ॒स्रिया॑याः ॥स गृणानो अद्भिर् देववान् इति सुबन्धुर् नमसा सूक्तैः |
वर्धद् उक्थैर् वचोभिर् आ हि नूनं व्य् अध्वैति पयस उस्रियायाः ||sá gṛṇānó adbhírdevávāníti subándhurnámasā sūktáiḥ ǀ
várdhaduktháirvácobhirā́ hí nūnám vyádhvaiti páyasa usríyāyāḥ ǁsa gṛṇāno adbhir devavān iti subandhur namasā sūktaiḥ |
vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ ||सः । गृ॒णा॒नः । अ॒त्ऽभिः । दे॒वऽवा॑न् । इति॑ । सु॒ऽबन्धुः॑ । नम॑सा । सु॒ऽउ॒क्तैः ।
वर्ध॑त् । उ॒क्थैः । वचः॑ऽभिः । आ । हि । नू॒नम् । वि । अध्वा॑ । ए॒ति॒ । पय॑सः । उ॒स्रिया॑याः ॥सः । गृणानः । अत्ऽभिः । देवऽवान् । इति । सुऽबन्धुः । नमसा । सुऽउक्तैः ।
वर्धत् । उक्थैः । वचःऽभिः । आ । हि । नूनम् । वि । अध्वा । एति । पयसः । उस्रियायाः ॥sáḥ ǀ gṛṇānáḥ ǀ at-bhíḥ ǀ devá-vān ǀ íti ǀ su-bándhuḥ ǀ námasā ǀ su-uktáiḥ ǀ
várdhat ǀ uktháiḥ ǀ vácaḥ-bhiḥ ǀ ā́ ǀ hí ǀ nūnám ǀ ví ǀ ádhvā ǀ eti ǀ páyasaḥ ǀ usríyāyāḥ ǁsaḥ ǀ gṛṇānaḥ ǀ at-bhiḥ ǀ deva-vān ǀ iti ǀ su-bandhuḥ ǀ namasā ǀ su-uktaiḥ ǀ
vardhat ǀ ukthaiḥ ǀ vacaḥ-bhiḥ ǀ ā ǀ hi ǀ nūnam ǀ vi ǀ adhvā ǀ eti ǀ payasaḥ ǀ usriyāyāḥ ǁ10.61.26 Aṣṭaka 8.1.30.6Anuvāka 10.5.26
-
Ṛk 27
त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोषाः॑ ।
ये वाजाँ॒ अन॑यता वि॒यंतो॒ ये स्था नि॑चे॒तारो॒ अमू॑राः ॥त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः |
ये वाजां अनयता वियन्तो ये स्था निचेतारो अमूराः ||tá ū ṣú ṇo mahó yajatrā bhūtá devāsa ūtáye sajóṣāḥ ǀ
yé vā́jām̐ ánayatā viyánto yé sthā́ nicetā́ro ámūrāḥ ǁta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ |
ye vājāṃ anayatā viyanto ye sthā nicetāro amūrāḥ ||ते । ऊं॒ इति॑ । सु । नः॒ । म॒हः । य॒ज॒त्राः॒ । भू॒त । दे॒वा॒सः॒ । ऊ॒तये॑ । स॒ऽजोषाः॑ ।
ये । वाजा॑न् । अन॑यत । वि॒ऽयन्तः॑ । ये । स्थ । नि॒ऽचे॒तारः॑ । अमू॑राः ॥ते । ऊं इति । सु । नः । महः । यजत्राः । भूत । देवासः । ऊतये । सऽजोषाः ।
ये । वाजान् । अनयत । विऽयन्तः । ये । स्थ । निऽचेतारः । अमूराः ॥té ǀ ūṃ íti ǀ sú ǀ naḥ ǀ maháḥ ǀ yajatrāḥ ǀ bhūtá ǀ devāsaḥ ǀ ūtáye ǀ sa-jóṣāḥ ǀ
yé ǀ vā́jān ǀ ánayata ǀ vi-yántaḥ ǀ yé ǀ sthá ǀ ni-cetā́raḥ ǀ ámūrāḥ ǁte ǀ ūṃ iti ǀ su ǀ naḥ ǀ mahaḥ ǀ yajatrāḥ ǀ bhūta ǀ devāsaḥ ǀ ūtaye ǀ sa-joṣāḥ ǀ
ye ǀ vājān ǀ anayata ǀ vi-yantaḥ ǀ ye ǀ stha ǀ ni-cetāraḥ ǀ amūrāḥ ǁ10.61.27 Aṣṭaka 8.1.30.7Anuvāka 10.5.27
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.