Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.14
Saṃhitā
भर्गो॑ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॒॑र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः ।
अ॒ग्निर्ह॒ नामो॒त जा॒तवे॑दाः श्रु॒धी नो॑ होतर्ऋ॒तस्य॒ होता॒ध्रुक् ॥
भर्गो ह नामोत यस्य देवाः स्वर् ण ये त्रिषधस्थे निषेदुः |
अग्निर् ह नामोत जातवेदाः श्रुधी नो होतर् ऋतस्य होताध्रुक् ||
bhárgo ha nā́motá yásya devā́ḥ svárṇá yé triṣadhasthé niṣedúḥ ǀ
agnírha nā́motá jātávedāḥ śrudhī́ no hotarṛtásya hótādhrúk ǁ
bhargo ha nāmota yasya devāḥ svar ṇa ye triṣadhasthe niṣeduḥ |
agnir ha nāmota jātavedāḥ śrudhī no hotar ṛtasya hotādhruk ||
Padapāṭha
भर्गः॑ । ह॒ । नाम॑ । उ॒त । यस्य॑ । दे॒वाः । स्वः॑ । न । ये । त्रि॒ऽस॒ध॒स्थे । नि॒ऽसे॒दुः ।
अ॒ग्निः । ह॒ । नाम॑ । उ॒त । जा॒तऽवे॑दाः । श्रु॒धि । नः॒ । हो॒तः॒ । ऋ॒तस्य॑ । होता॑ । अ॒ध्रुक् ॥
भर्गः । ह । नाम । उत । यस्य । देवाः । स्वः । न । ये । त्रिऽसधस्थे । निऽसेदुः ।
अग्निः । ह । नाम । उत । जातऽवेदाः । श्रुधि । नः । होतः । ऋतस्य । होता । अध्रुक् ॥
bhárgaḥ ǀ ha ǀ nā́ma ǀ utá ǀ yásya ǀ devā́ḥ ǀ sváḥ ǀ ná ǀ yé ǀ tri-sadhasthé ǀ ni-sedúḥ ǀ
agníḥ ǀ ha ǀ nā́ma ǀ utá ǀ jātá-vedāḥ ǀ śrudhí ǀ naḥ ǀ hotaḥ ǀ ṛtásya ǀ hótā ǀ adhrúk ǁ
bhargaḥ ǀ ha ǀ nāma ǀ uta ǀ yasya ǀ devāḥ ǀ svaḥ ǀ na ǀ ye ǀ tri-sadhasthe ǀ ni-seduḥ ǀ
agniḥ ǀ ha ǀ nāma ǀ uta ǀ jāta-vedāḥ ǀ śrudhi ǀ naḥ ǀ hotaḥ ǀ ṛtasya ǀ hotā ǀ adhruk ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.28.04
- Maṇḍala · Anuvāka · Ṛk
- 10.05.014
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.