Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.8
Saṃhitā
स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे॑ताः ।
सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे॑ पृश॒न्यो॑ जगृभ्रे ॥
स ईं वृषा न फेनम् अस्यद् आजौ स्मद् आ परैद् अप दभ्रचेताः |
सरत् पदा न दक्षिणा परावृङ् न ता नु मे पृशन्यो जगृभ्रे ||
sá īm vṛ́ṣā ná phénamasyadājáu smádā́ páraidápa dabhrácetāḥ ǀ
sáratpadā́ ná dákṣiṇā parāvṛ́ṅná tā́ nú me pṛśanyó jagṛbhre ǁ
sa īṃ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ |
sarat padā na dakṣiṇā parāvṛṅ na tā nu me pṛśanyo jagṛbhre ||
Padapāṭha
सः । ई॒म् । वृषा॑ । न । फेन॑म् । अ॒स्य॒त् । आ॒जौ । स्मत् । आ । परा॑ । ऐ॒त् । अप॑ । द॒भ्रऽचे॑ताः ।
सर॑त् । प॒दा । न । दक्षि॑णा । प॒रा॒ऽवृक् । न । ताः । नु । मे॒ । पृ॒श॒न्यः॑ । ज॒गृ॒भ्रे॒ ॥
सः । ईम् । वृषा । न । फेनम् । अस्यत् । आजौ । स्मत् । आ । परा । ऐत् । अप । दभ्रऽचेताः ।
सरत् । पदा । न । दक्षिणा । पराऽवृक् । न । ताः । नु । मे । पृशन्यः । जगृभ्रे ॥
sáḥ ǀ īm ǀ vṛ́ṣā ǀ ná ǀ phénam ǀ asyat ǀ ājáu ǀ smát ǀ ā́ ǀ párā ǀ ait ǀ ápa ǀ dabhrá-cetāḥ ǀ
sárat ǀ padā́ ǀ ná ǀ dákṣiṇā ǀ parā-vṛ́k ǀ ná ǀ tā́ḥ ǀ nú ǀ me ǀ pṛśanyáḥ ǀ jagṛbhre ǁ
saḥ ǀ īm ǀ vṛṣā ǀ na ǀ phenam ǀ asyat ǀ ājau ǀ smat ǀ ā ǀ parā ǀ ait ǀ apa ǀ dabhra-cetāḥ ǀ
sarat ǀ padā ǀ na ǀ dakṣiṇā ǀ parā-vṛk ǀ na ǀ tāḥ ǀ nu ǀ me ǀ pṛśanyaḥ ǀ jagṛbhre ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.27.03
- Maṇḍala · Anuvāka · Ṛk
- 10.05.008
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.