Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.20
Saṃhitā
अधा॑सु मं॒द्रो अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् ।
ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे॑वृ॒धं सू॑त मा॒ता ॥
अधासु मन्द्रो अरतिर् विभावाव स्यति द्विवर्तनिर् वनेषाट् |
ऊर्ध्वा यच् छ्रेणिर् न शिशुर् दन् मक्षू स्थिरं शेवृधं सूत माता ||
ádhāsu mandró aratírvibhā́vā́va syati dvivartanírvaneṣā́ṭ ǀ
ūrdhvā́ yácchréṇirná śíśurdánmakṣū́ sthirám śevṛdhám sūta mātā́ ǁ
adhāsu mandro aratir vibhāvāva syati dvivartanir vaneṣāṭ |
ūrdhvā yac chreṇir na śiśur dan makṣū sthiraṃ śevṛdhaṃ sūta mātā ||
Padapāṭha
अध॑ । आ॒सु॒ । म॒न्द्रः । अ॒र॒तिः । वि॒भाऽवा॑ । अव॑ । स्य॒ति॒ । द्वि॒ऽव॒र्त॒निः । व॒ने॒षाट् ।
ऊ॒र्ध्वा । यत् । श्रेणिः॑ । न । शिशुः॑ । दन् । म॒क्षु । स्थि॒रम् । शे॒ऽवृ॒धम् । सू॒त॒ । मा॒ता ॥
अध । आसु । मन्द्रः । अरतिः । विभाऽवा । अव । स्यति । द्विऽवर्तनिः । वनेषाट् ।
ऊर्ध्वा । यत् । श्रेणिः । न । शिशुः । दन् । मक्षु । स्थिरम् । शेऽवृधम् । सूत । माता ॥
ádha ǀ āsu ǀ mandráḥ ǀ aratíḥ ǀ vibhā́-vā ǀ áva ǀ syati ǀ dvi-vartaníḥ ǀ vaneṣā́ṭ ǀ
ūrdhvā́ ǀ yát ǀ śréṇiḥ ǀ ná ǀ śíśuḥ ǀ dán ǀ makṣú ǀ sthirám ǀ śe-vṛdhám ǀ sūta ǀ mātā́ ǁ
adha ǀ āsu ǀ mandraḥ ǀ aratiḥ ǀ vibhā-vā ǀ ava ǀ syati ǀ dvi-vartaniḥ ǀ vaneṣāṭ ǀ
ūrdhvā ǀ yat ǀ śreṇiḥ ǀ na ǀ śiśuḥ ǀ dan ǀ makṣu ǀ sthiram ǀ śe-vṛdham ǀ sūta ǀ mātā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.20
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.29.05
- Maṇḍala · Anuvāka · Ṛk
- 10.05.020
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.