Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.13
Saṃhitā
तदिन्न्व॑स्य परि॒षद्वा॑नो अग्मन्पु॒रू सदं॑तो नार्ष॒दं बि॑भित्सन् ।
वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ॥
तद् इन् न्व् अस्य परिषद्वानो अग्मन् पुरू सदन्तो नार्षदम् बिभित्सन् |
वि शुष्णस्य संग्रथितम् अनर्वा विदत् पुरुप्रजातस्य गुहा यत् ||
tádínnvásya pariṣádvāno agmanpurū́ sádanto nārṣadám bibhitsan ǀ
ví śúṣṇasya sáṃgrathitamanarvā́ vidátpuruprajātásya gúhā yát ǁ
tad in nv asya pariṣadvāno agman purū sadanto nārṣadam bibhitsan |
vi śuṣṇasya saṃgrathitam anarvā vidat puruprajātasya guhā yat ||
Padapāṭha
तत् । इत् । नु । अ॒स्य॒ । प॒रि॒ऽसद्वा॑नः । अ॒ग्म॒न् । पु॒रु । सद॑न्तः । ना॒र्स॒दम् । बि॒भि॒त्सन् ।
वि । शुष्ण॑स्य । सम्ऽग्र॑थितम् । अ॒न॒र्वा । वि॒दत् । पु॒रु॒ऽप्र॒जा॒तस्य॑ । गुहा॑ । यत् ॥
तत् । इत् । नु । अस्य । परिऽसद्वानः । अग्मन् । पुरु । सदन्तः । नार्सदम् । बिभित्सन् ।
वि । शुष्णस्य । सम्ऽग्रथितम् । अनर्वा । विदत् । पुरुऽप्रजातस्य । गुहा । यत् ॥
tát ǀ ít ǀ nú ǀ asya ǀ pari-sádvānaḥ ǀ agman ǀ purú ǀ sádantaḥ ǀ nārsadám ǀ bibhitsán ǀ
ví ǀ śúṣṇasya ǀ sám-grathitam ǀ anarvā́ ǀ vidát ǀ puru-prajātásya ǀ gúhā ǀ yát ǁ
tat ǀ it ǀ nu ǀ asya ǀ pari-sadvānaḥ ǀ agman ǀ puru ǀ sadantaḥ ǀ nārsadam ǀ bibhitsan ǀ
vi ǀ śuṣṇasya ǀ sam-grathitam ǀ anarvā ǀ vidat ǀ puru-prajātasya ǀ guhā ǀ yat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.28.03
- Maṇḍala · Anuvāka · Ṛk
- 10.05.013
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.