Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.5
Saṃhitā
प्रथि॑ष्ट॒ यस्य॑ वी॒रक॑र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒ अपौ॑हत् ।
पुन॒स्तदा वृ॑हति॒ यत्क॒नाया॑ दुहि॒तुरा अनु॑भृतमन॒र्वा ॥
प्रथिष्ट यस्य वीरकर्मम् इष्णद् अनुष्ठितं नु नर्यो अपौहत् |
पुनस् तद् आ वृहति यत् कनाया दुहितुर् आ अनुभृतम् अनर्वा ||
práthiṣṭa yásya vīrákarmamiṣṇádánuṣṭhitam nú náryo ápauhat ǀ
púnastádā́ vṛhati yátkanā́yā duhitúrā́ ánubhṛtamanarvā́ ǁ
prathiṣṭa yasya vīrakarmam iṣṇad anuṣṭhitaṃ nu naryo apauhat |
punas tad ā vṛhati yat kanāyā duhitur ā anubhṛtam anarvā ||
Padapāṭha
प्रथि॑ष्ट । यस्य॑ । वी॒रऽक॑र्मम् । इ॒ष्णत् । अनु॑ऽस्थितम् । नु । नर्यः॑ । अप॑ । औ॒ह॒त् ।
पुन॒रिति॑ । तत् । आ । वृ॒ह॒ति॒ । यत् । क॒नायाः॑ । दु॒हि॒तुः । आः । अनु॑ऽभृतम् । अ॒न॒र्वा ॥
प्रथिष्ट । यस्य । वीरऽकर्मम् । इष्णत् । अनुऽस्थितम् । नु । नर्यः । अप । औहत् ।
पुनरिति । तत् । आ । वृहति । यत् । कनायाः । दुहितुः । आः । अनुऽभृतम् । अनर्वा ॥
práthiṣṭa ǀ yásya ǀ vīrá-karmam ǀ iṣṇát ǀ ánu-sthitam ǀ nú ǀ náryaḥ ǀ ápa ǀ auhat ǀ
púnaríti ǀ tát ǀ ā́ ǀ vṛhati ǀ yát ǀ kanā́yāḥ ǀ duhitúḥ ǀ ā́ḥ ǀ ánu-bhṛtam ǀ anarvā́ ǁ
prathiṣṭa ǀ yasya ǀ vīra-karmam ǀ iṣṇat ǀ anu-sthitam ǀ nu ǀ naryaḥ ǀ apa ǀ auhat ǀ
punariti ǀ tat ǀ ā ǀ vṛhati ǀ yat ǀ kanāyāḥ ǀ duhituḥ ǀ āḥ ǀ anu-bhṛtam ǀ anarvā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.26.05
- Maṇḍala · Anuvāka · Ṛk
- 10.05.005
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.