Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.9
Saṃhitā
म॒क्षू न वह्निः॑ प्र॒जाया॑ उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूधः॑ ।
सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ॥
मक्षू न वह्निः प्रजाया उपब्दिर् अग्निं न नग्न उप सीदद् ऊधः |
सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ||
makṣū́ ná váhniḥ prajā́yā upabdíragním ná nagná úpa sīdadū́dhaḥ ǀ
sánitedhmám sánitotá vā́jam sá dhartā́ jajñe sáhasā yavīyút ǁ
makṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ |
sanitedhmaṃ sanitota vājaṃ sa dhartā jajñe sahasā yavīyut ||
Padapāṭha
म॒क्षु । न । वह्निः॑ । प्र॒ऽजायाः॑ । उ॒प॒ब्दिः । अ॒ग्निम् । न । न॒ग्नः । उप॑ । सी॒द॒त् । ऊधः॑ ।
सनि॑ता । इ॒ध्मम् । सनि॑ता । उ॒त । वाज॑म् । सः । ध॒र्ता । ज॒ज्ञे॒ । सह॑सा । य॒वि॒ऽयुत् ॥
मक्षु । न । वह्निः । प्रऽजायाः । उपब्दिः । अग्निम् । न । नग्नः । उप । सीदत् । ऊधः ।
सनिता । इध्मम् । सनिता । उत । वाजम् । सः । धर्ता । जज्ञे । सहसा । यविऽयुत् ॥
makṣú ǀ ná ǀ váhniḥ ǀ pra-jā́yāḥ ǀ upabdíḥ ǀ agním ǀ ná ǀ nagnáḥ ǀ úpa ǀ sīdat ǀ ū́dhaḥ ǀ
sánitā ǀ idhmám ǀ sánitā ǀ utá ǀ vā́jam ǀ sáḥ ǀ dhartā́ ǀ jajñe ǀ sáhasā ǀ yavi-yút ǁ
makṣu ǀ na ǀ vahniḥ ǀ pra-jāyāḥ ǀ upabdiḥ ǀ agnim ǀ na ǀ nagnaḥ ǀ upa ǀ sīdat ǀ ūdhaḥ ǀ
sanitā ǀ idhmam ǀ sanitā ǀ uta ǀ vājam ǀ saḥ ǀ dhartā ǀ jajñe ǀ sahasā ǀ yavi-yut ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.27.04
- Maṇḍala · Anuvāka · Ṛk
- 10.05.009
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.