Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.4
Saṃhitā
कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा॑ताश्विना हुवे वां ।
वी॒तं मे॑ य॒ज्ञमा ग॑तं मे॒ अन्नं॑ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ॥
कृष्णा यद् गोष्व् अरुणीषु सीदद् दिवो नपाताश्विना हुवे वाम् |
वीतम् मे यज्ञम् आ गतम् मे अन्नं ववन्वांसा नेषम् अस्मृतध्रू ||
kṛṣṇā́ yádgóṣvaruṇī́ṣu sī́daddivó nápātāśvinā huve vām ǀ
vītám me yajñámā́ gatam me ánnam vavanvā́ṃsā néṣamásmṛtadhrū ǁ
kṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām |
vītam me yajñam ā gatam me annaṃ vavanvāṃsā neṣam asmṛtadhrū ||
Padapāṭha
कृ॒ष्णा । यत् । गोषु॑ । अ॒रु॒णीषु॑ । सीद॑त् । दि॒वः । नपा॑ता । अ॒श्वि॒ना॒ । हु॒वे॒ । वा॒म् ।
वी॒तम् । मे॒ । य॒ज्ञम् । आ । ग॒त॒म् । मे॒ । अन्न॑म् । व॒व॒न्वांसा॑ । न । इष॑म् । अस्मृ॑तध्रू॒ इत्यस्मृ॑तऽध्रू ॥
कृष्णा । यत् । गोषु । अरुणीषु । सीदत् । दिवः । नपाता । अश्विना । हुवे । वाम् ।
वीतम् । मे । यज्ञम् । आ । गतम् । मे । अन्नम् । ववन्वांसा । न । इषम् । अस्मृतध्रू इत्यस्मृतऽध्रू ॥
kṛṣṇā́ ǀ yát ǀ góṣu ǀ aruṇī́ṣu ǀ sī́dat ǀ diváḥ ǀ nápātā ǀ aśvinā ǀ huve ǀ vām ǀ
vītám ǀ me ǀ yajñám ǀ ā́ ǀ gatam ǀ me ǀ ánnam ǀ vavanvā́ṃsā ǀ ná ǀ íṣam ǀ ásmṛtadhrū ítyasmṛta-dhrū ǁ
kṛṣṇā ǀ yat ǀ goṣu ǀ aruṇīṣu ǀ sīdat ǀ divaḥ ǀ napātā ǀ aśvinā ǀ huve ǀ vām ǀ
vītam ǀ me ǀ yajñam ǀ ā ǀ gatam ǀ me ǀ annam ǀ vavanvāṃsā ǀ na ǀ iṣam ǀ asmṛtadhrū ityasmṛta-dhrū ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.26.04
- Maṇḍala · Anuvāka · Ṛk
- 10.05.004
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.